मत्स्यपुराणMatsyapurāṇa

MPur, 142

141 of 175 · 176 verses

Select a line for its word-by-word analysis.

1.1१.१

ऋषय ऊचुः । (१।१)

ṛṣaya ūcuḥ |

1.2१.२

चतुर्युगाणि यानि स्युः पूर्वे स्वायम्भुवेऽन्तरे । (१।२)

caturyugāṇi yāni syuḥ pūrve svāyambhuve'ntare |

1.3१.३

एषां निसर्गसंख्यां च श्रोतुमिच्छाम विस्तरात् ॥ (१।३)

eṣāṃ nisargasaṃkhyāṃ ca śrotumicchāma vistarāt ||

2.1२.१

सूत उवाच । (२।१)

sūta uvāca

2.2२.२

पृथिवीद्युप्रसङ्गेन मया तु प्रागुदाहृतम् । (२।२)

pṛthivīdyuprasaṅgena mayā tu prāgudāhṛtam |

2.3२.३

एतच्चतुर्युगं त्वेवं तद्वक्ष्यामि निबोधत । (२।३)

etaccaturyugaṃ tvevaṃ tadvakṣyāmi nibodhata |

2.4२.४

तत्प्रमाणं प्रसंख्याय विस्तराच्चैव कृत्स्नशः ॥ (२।४)

tatpramāṇaṃ prasaṃkhyāya vistarāccaiva kṛtsnaśaḥ ||

3.1३.१

लौकिकेन प्रमाणेन निष्पाद्याब्दं तु मानुषम् । (३।१)

laukikena pramāṇena niṣpādyābdaṃ tu mānuṣam |

3.2३.२

तेनापीह प्रसंख्याय वक्ष्यामि तु चतुर्युगम् । (३।२)

tenāpīha prasaṃkhyāya vakṣyāmi tu caturyugam |

3.3३.३

निमेषतुल्यकालानि मात्रालब्धेक्षराणि च ॥ (३।३)

nimeṣatulyakālāni mātrālabdhekṣarāṇi ca ||

4.1४.१

काष्ठा निमेषा दश पञ्च चैव त्रिंशच्च काष्ठां गणयेत्कलां तु । (४।१)

kāṣṭhā nimeṣā daśa pañca caiva triṃśacca kāṣṭhāṃ gaṇayetkalāṃ tu |

4.2४.२

त्रिंशत्कलाश्चैव भवेन्मुहूर्तस्तैस्त्रिंशता रात्र्यहनी समेते ॥ (४।२)

triṃśatkalāścaiva bhavenmuhūrtastaistriṃśatā rātryahanī samete ||

5.1५.१

अहोरात्रे विभजते सूर्यो मानुषलौकिके । (५।१)

ahorātre vibhajate sūryo mānuṣalaukike |

5.2५.२

रात्रिः स्वप्नाय भूतानां चेष्टायै कर्मणामहः ॥ (५।२)

rātriḥ svapnāya bhūtānāṃ ceṣṭāyai karmaṇāmahaḥ ||

6.1६.१

पित्र्ये रात्र्यहनी मासः प्रविभागस् तयोः पुनः । (६।१)

pitrye rātryahanī māsaḥ pravibhāgas tayoḥ punaḥ |

6.2६.२

कृष्णपक्षस् त्वहस्तेषां शुक्लः स्वप्नाय शर्वरी ॥ (६।२)

kṛṣṇapakṣas tvahasteṣāṃ śuklaḥ svapnāya śarvarī ||

7.1७.१

त्रिंशद्ये मानुषा मासाः पित्र्यो मासः स उच्यते । (७।१)

triṃśadye mānuṣā māsāḥ pitryo māsaḥ sa ucyate |

7.2७.२

शतानि त्रीणि मासानां षष्ट्या चाभ्यधिकानि तु । (७।२)

śatāni trīṇi māsānāṃ ṣaṣṭyā cābhyadhikāni tu |

7.3७.३

पित्र्यः संवत्सरो ह्येष मानुषेण विभाव्यते ॥ (७।३)

pitryaḥ saṃvatsaro hyeṣa mānuṣeṇa vibhāvyate ||

8.1८.१

मानुषेणैव मानेन वर्षाणां यच्छतं भवेत् । (८।१)

mānuṣeṇaiva mānena varṣāṇāṃ yacchataṃ bhavet |

8.2८.२

पितॄणां तानि वर्षाणि संख्यातानि तु त्रीणि वै । (८।२)

pitṝṇāṃ tāni varṣāṇi saṃkhyātāni tu trīṇi vai |

8.3८.३

दश च द्व्यधिका मासाः पितृसंख्येह कीर्तिता ॥ (८।३)

daśa ca dvyadhikā māsāḥ pitṛsaṃkhyeha kīrtitā ||

9.1९.१

लौकिकेन प्रमाणेन अब्दो यो मानुषः स्मृतः । (९।१)

laukikena pramāṇena abdo yo mānuṣaḥ smṛtaḥ |

9.2९.२

एतद्दिव्यमहोरात्रमित्येषा वैदिकी श्रुतिः ॥ (९।२)

etaddivyamahorātramityeṣā vaidikī śrutiḥ ||

10.1१०.१

दिव्ये रात्र्यहनी वर्षं प्रविभागस्तयोः पुनः । (१०।१)

divye rātryahanī varṣaṃ pravibhāgastayoḥ punaḥ |

10.2१०.२

अहस्तु यदुदक्चैव रात्रिर्या दक्षिणायनम् । (१०।२)

ahastu yadudakcaiva rātriryā dakṣiṇāyanam |

10.3१०.३

एते रात्र्यहनी दिव्ये प्रसंख्याते तयोः पुनः ॥ (१०।३)

ete rātryahanī divye prasaṃkhyāte tayoḥ punaḥ ||

11.1११.१

त्रिंशद्यानि तु वर्षाणि दिव्यो मासस्तु स स्मृतः । (११।१)

triṃśadyāni tu varṣāṇi divyo māsastu sa smṛtaḥ |

11.2११.२

मानुषाणां शतं यच्च दिव्या मासास्त्रयस्तु वै । (११।२)

mānuṣāṇāṃ śataṃ yacca divyā māsāstrayastu vai |

11.3११.३

तथैव सह संख्यातो दिव्य एष विधिः स्मृतः ॥ (११।३)

tathaiva saha saṃkhyāto divya eṣa vidhiḥ smṛtaḥ ||

12.1१२.१

त्रीणि वर्षशतान्येवं षष्टिर्वर्षास्तथैव च । (१२।१)

trīṇi varṣaśatānyevaṃ ṣaṣṭirvarṣāstathaiva ca |

12.2१२.२

दिव्यः संवत्सरो ह्येष मानुषेण प्रकीर्तितः ॥ (१२।२)

divyaḥ saṃvatsaro hyeṣa mānuṣeṇa prakīrtitaḥ ||

13.1१३.१

त्रीणि वर्षसहस्राणि मानुषेण प्रमाणतः । (१३।१)

trīṇi varṣasahasrāṇi mānuṣeṇa pramāṇataḥ |

13.2१३.२

त्रिंशदन्यानि वर्षाणि स्मृतः सप्तर्षिवत्सरः ॥ (१३।२)

triṃśadanyāni varṣāṇi smṛtaḥ saptarṣivatsaraḥ ||

14.1१४.१

नव यानि सहस्राणि वर्षाणां मानुषाणि च । (१४।१)

nava yāni sahasrāṇi varṣāṇāṃ mānuṣāṇi ca |

14.2१४.२

वर्षाणि नवतिश्चैव ध्रुवसंवत्सरः स्मृतः ॥ (१४।२)

varṣāṇi navatiścaiva dhruvasaṃvatsaraḥ smṛtaḥ ||

15.1१५.१

षट्त्रिंशत्तु सहस्राणि वर्षाणां मानुषाणि च । (१५।१)

ṣaṭtriṃśattu sahasrāṇi varṣāṇāṃ mānuṣāṇi ca |

15.2१५.२

षष्टिश्चैव सहस्राणि संख्यातानि तु संख्यया । (१५।२)

ṣaṣṭiścaiva sahasrāṇi saṃkhyātāni tu saṃkhyayā |

15.3१५.३

दिव्यं वर्षसहस्रं तु प्राहुः संख्याविदो जनाः ॥ (१५।३)

divyaṃ varṣasahasraṃ tu prāhuḥ saṃkhyāvido janāḥ ||

16.1१६.१

इत्येतदृषिभिर्गीतं दिव्यया संख्यया द्विजाः । (१६।१)

ityetadṛṣibhirgītaṃ divyayā saṃkhyayā dvijāḥ |

16.2१६.२

दिव्येनैव प्रमाणेन युगसंख्या प्रकल्पिता ॥ (१६।२)

divyenaiva pramāṇena yugasaṃkhyā prakalpitā ||

17.1१७.१

चत्वारि भारते वर्षे युगानि ऋषयोऽब्रुवन् । (१७।१)

catvāri bhārate varṣe yugāni ṛṣayo'bruvan |

17.2१७.२

कृतं त्रेता द्वापरं च कलिश्चैवं चतुर्युगम् ॥ (१७।२)

kṛtaṃ tretā dvāparaṃ ca kaliścaivaṃ caturyugam ||

18.1१८.१

पूर्वं कृतयुगं नाम ततस्त्रेताभिधीयते । (१८।१)

pūrvaṃ kṛtayugaṃ nāma tatastretābhidhīyate |

18.2१८.२

द्वापरं च कलिश्चैव युगानि परिकल्पयेत् ॥ (१८।२)

dvāparaṃ ca kaliścaiva yugāni parikalpayet ||

19.1१९.१

चत्वार्याहुः सहस्राणि वर्षाणां तत्कृतं युगम् । (१९।१)

catvāryāhuḥ sahasrāṇi varṣāṇāṃ tatkṛtaṃ yugam |

19.2१९.२

तस्य ताव् [॥। औ२ ज़ेइछेन्झ्] ती संध्या संध्यांशश्च तथाविधः ॥ (१९।२)

tasya tāv tī saṃdhyā saṃdhyāṃśaśca tathāvidhaḥ ||

20.1२०.१

इतरेषु ससंध्येषु ससंध्यांशेषु च त्रिषु । (२०।१)

itareṣu sasaṃdhyeṣu sasaṃdhyāṃśeṣu ca triṣu |

20.2२०.२

एकपादे निवर्तन्ते सहस्राणि शतानि च ॥ (२०।२)

ekapāde nivartante sahasrāṇi śatāni ca ||

21.1२१.१

त्रेता त्रीणि सहस्राणि युगसंख्याविदो विदुः । (२१।१)

tretā trīṇi sahasrāṇi yugasaṃkhyāvido viduḥ |

21.2२१.२

तस्यापि त्रिशती संध्या संध्यांशः संध्यया समः ॥ (२१।२)

tasyāpi triśatī saṃdhyā saṃdhyāṃśaḥ saṃdhyayā samaḥ ||

22.1२२.१

द्वे सहस्रे द्वापरं तु संध्यांशौ तु चतुःशतम् । (२२।१)

dve sahasre dvāparaṃ tu saṃdhyāṃśau tu catuḥśatam |

22.2२२.२

सहस्रमेकं वर्षाणां कलिरेव प्रकीर्तितः । (२२।२)

sahasramekaṃ varṣāṇāṃ kalireva prakīrtitaḥ |

22.3२२.३

द्वे शते च तथान्ये च संध्यासंध्यांशयोः स्मृते ॥ (२२।३)

dve śate ca tathānye ca saṃdhyāsaṃdhyāṃśayoḥ smṛte ||

23.1२३.१

एषा द्वादशसाहस्री युगसंख्या तु संज्ञिता । (२३।१)

eṣā dvādaśasāhasrī yugasaṃkhyā tu saṃjñitā |

23.2२३.२

कृतं त्रेता द्वापरं च कलिश्चेति चतुष्टयम् ॥ (२३।२)

kṛtaṃ tretā dvāparaṃ ca kaliśceti catuṣṭayam ||

24.1२४.१

तत्र संवत्सराः सृष्टा मानुषास्तान्निबोधत । (२४।१)

tatra saṃvatsarāḥ sṛṣṭā mānuṣāstānnibodhata |

24.2२४.२

नियुतानि दश द्वे च पञ्च चैवात्र संख्यया । (२४।२)

niyutāni daśa dve ca pañca caivātra saṃkhyayā |

24.3२४.३

अष्टाविंशत्सहस्राणि कृतं युगमथोच्यते ॥ (२४।३)

aṣṭāviṃśatsahasrāṇi kṛtaṃ yugamathocyate ||

25.1२५.१

प्रयुतं तु तथा पूर्णं द्वे चान्ये नियुते पुनः । (२५।१)

prayutaṃ tu tathā pūrṇaṃ dve cānye niyute punaḥ |

25.2२५.२

षण्णवतिसहस्राणि संख्यातानि च संख्यया । (२५।२)

ṣaṇṇavatisahasrāṇi saṃkhyātāni ca saṃkhyayā |

25.3२५.३

त्रेतायुगस्य संख्यैषा मानुषेण तु संज्ञिता ॥ (२५।३)

tretāyugasya saṃkhyaiṣā mānuṣeṇa tu saṃjñitā ||

26.1२६.१

अष्टौ शतसहस्राणि वर्षाणां मानुषाणि तु । (२६।१)

aṣṭau śatasahasrāṇi varṣāṇāṃ mānuṣāṇi tu |

26.2२६.२

चतुःषष्टिसहस्राणि वर्षाणां द्वापरं युगम् ॥ (२६।२)

catuḥṣaṣṭisahasrāṇi varṣāṇāṃ dvāparaṃ yugam ||

27.1२७.१

चत्वारि नियुतानि स्युर्वर्षाणि तु कलिर्युगम् । (२७।१)

catvāri niyutāni syurvarṣāṇi tu kaliryugam |

27.2२७.२

द्वात्रिंशच्च तथान्यानि सहस्राणि तु संख्यया । (२७।२)

dvātriṃśacca tathānyāni sahasrāṇi tu saṃkhyayā |

27.3२७.३

एतत्कलियुगं प्रोक्तं मानुषेण प्रमाणतः ॥ (२७।३)

etatkaliyugaṃ proktaṃ mānuṣeṇa pramāṇataḥ ||

28.1२८.१

एषा चतुर्युगावस्था मानुषेण प्रकीर्तिता । (२८।१)

eṣā caturyugāvasthā mānuṣeṇa prakīrtitā |

28.2२८.२

चतुर्युगस्य संख्याता संध्या संध्यांशकैः सह ॥ (२८।२)

caturyugasya saṃkhyātā saṃdhyā saṃdhyāṃśakaiḥ saha ||

29.1२९.१

एषा चतुर्युगाख्या तु साधिका त्वेकसप्ततिः । (२९।१)

eṣā caturyugākhyā tu sādhikā tvekasaptatiḥ |

29.2२९.२

कृतत्रेतादियुक्ता सा मनोरन्तरमुच्यते ॥ (२९।२)

kṛtatretādiyuktā sā manorantaramucyate ||

30.1३०.१

मन्वन्तरस्य संख्या तु मानुषेण निबोधत । (३०।१)

manvantarasya saṃkhyā tu mānuṣeṇa nibodhata |

30.2३०.२

एकत्रिंशत्तथा कोट्यः संख्याताः संख्यया द्विजैः ॥ (३०।२)

ekatriṃśattathā koṭyaḥ saṃkhyātāḥ saṃkhyayā dvijaiḥ ||

31.1३१.१

तथा शतसहस्राणि दश चान्यानि भागशः । (३१।१)

tathā śatasahasrāṇi daśa cānyāni bhāgaśaḥ |

31.2३१.२

सहस्राणि तु द्वात्रिंशच्छतान्यष्टाधिकानि च ॥ (३१।२)

sahasrāṇi tu dvātriṃśacchatānyaṣṭādhikāni ca ||

32.1३२.१

अशीतिश्चैव वर्षाणि मासाश्चैवाधिकास्तु षट् । (३२।१)

aśītiścaiva varṣāṇi māsāścaivādhikāstu ṣaṭ |

32.2३२.२

मन्वन्तरस्य संख्यैषा मानुषेण प्रकीर्तिता ॥ (३२।२)

manvantarasya saṃkhyaiṣā mānuṣeṇa prakīrtitā ||

33.1३३.१

दिव्येन च प्रमाणेन प्रवक्ष्याम्यन्तरं मनोः । (३३।१)

divyena ca pramāṇena pravakṣyāmyantaraṃ manoḥ |

33.2३३.२

सहस्राणां शतान्याहुः स च वै परिसंख्यया ॥ (३३।२)

sahasrāṇāṃ śatānyāhuḥ sa ca vai parisaṃkhyayā ||

34.1३४.१

चत्वारिंशत्सहस्राणि मनोरन्तरमुच्यते । (३४।१)

catvāriṃśatsahasrāṇi manorantaramucyate |

34.2३४.२

मन्वन्तरस्य कालस्तु युगैः सह प्रकीर्तितः ॥ (३४।२)

manvantarasya kālastu yugaiḥ saha prakīrtitaḥ ||

35.1३५.१

एषा चतुर्युगाख्या तु साधिका ह्येकसप्ततिः । (३५।१)

eṣā caturyugākhyā tu sādhikā hyekasaptatiḥ |

35.2३५.२

क्रमेण परिवृत्ता सा मनोरन्तरमुच्यते ॥ (३५।२)

krameṇa parivṛttā sā manorantaramucyate ||

36.1३६.१

एतच्चतुर्दशगुणं कल्पमाहुस्तु तद्विदः । (३६।१)

etaccaturdaśaguṇaṃ kalpamāhustu tadvidaḥ |

36.2३६.२

ततस्तु प्रलयः कृत्स्नः स तु संप्रलयो महान् ॥ (३६।२)

tatastu pralayaḥ kṛtsnaḥ sa tu saṃpralayo mahān ||

37.1३७.१

कल्पप्रमाणो द्विगुणो यथा भवति संख्यया । (३७।१)

kalpapramāṇo dviguṇo yathā bhavati saṃkhyayā |

37.2३७.२

चतुर्युगाख्या व्याख्याता कृतं त्रेतायुगं च वै ॥ (३७।२)

caturyugākhyā vyākhyātā kṛtaṃ tretāyugaṃ ca vai ||

38.1३८.१

त्रेतासृष्टं प्रवक्ष्यामि द्वापरं कलिमेव च । (३८।१)

tretāsṛṣṭaṃ pravakṣyāmi dvāparaṃ kalimeva ca |

38.2३८.२

युगपत्समवेतौ द्वौ द्विधा वक्तुं न शक्यते ॥ (३८।२)

yugapatsamavetau dvau dvidhā vaktuṃ na śakyate ||

39.1३९.१

क्रमागतं मयाप्येतत्तुभ्यं नोक्तं युगद्वयम् । (३९।१)

kramāgataṃ mayāpyetattubhyaṃ noktaṃ yugadvayam |

39.2३९.२

ऋषिवंशप्रसङ्गेन व्याकुलत्वात्तथा क्रमात् ॥ (३९।२)

ṛṣivaṃśaprasaṅgena vyākulatvāttathā kramāt ||

40.1४०.१

नोक्तं त्रेतायुगे शेषं तद्वक्ष्यामि निबोधत । (४०।१)

noktaṃ tretāyuge śeṣaṃ tadvakṣyāmi nibodhata |

40.2४०.२

अथ त्रेतायुगस्यादौ मनुः सप्तर्षयश्च ये । (४०।२)

atha tretāyugasyādau manuḥ saptarṣayaśca ye |

40.3४०.३

श्रौतस्मार्तं ब्रुवन्धर्मं ब्रह्मणा तु प्रचोदिताः ॥ (४०।३)

śrautasmārtaṃ bruvandharmaṃ brahmaṇā tu pracoditāḥ ||

41.1४१.१

दाराग्निहोत्रसम्बन्धम् ऋग्यजुःसामसंहिताः । (४१।१)

dārāgnihotrasambandham ṛgyajuḥsāmasaṃhitāḥ |

41.2४१.२

इत्यादिबहुलं श्रौतं धर्मं सप्तर्षयोऽब्रुवन् ॥ (४१।२)

ityādibahulaṃ śrautaṃ dharmaṃ saptarṣayo'bruvan ||

42.1४२.१

परम्परागतं धर्मं स्मार्तं त्वाचारलक्षणम् । (४२।१)

paramparāgataṃ dharmaṃ smārtaṃ tvācāralakṣaṇam |

42.2४२.२

वर्णाश्रमाचारयुतं मनुः स्वायम्भुवो ऽब्रवीत् ॥ (४२।२)

varṇāśramācārayutaṃ manuḥ svāyambhuvo 'bravīt ||

43.1४३.१

सत्येन ब्रह्मचर्येण श्रुतेन तपसा तथा । (४३।१)

satyena brahmacaryeṇa śrutena tapasā tathā |

43.2४३.२

तेषां सुतप्ततपसामार्षेणानुक्रमेण ह ॥ (४३।२)

teṣāṃ sutaptatapasāmārṣeṇānukrameṇa ha ||

44.1४४.१

सप्तर्षीणां मनोश्चैव आदौ त्रेतायुगे ततः । (४४।१)

saptarṣīṇāṃ manoścaiva ādau tretāyuge tataḥ |

44.2४४.२

अबुद्धिपूर्वकं तेन सकृत्पूर्वकमेव च ॥ (४४।२)

abuddhipūrvakaṃ tena sakṛtpūrvakameva ca ||

45.1४५.१

अभिवृत्तास्तु ते मन्त्रा दर्शनैस्तारकादिभिः । (४५।१)

abhivṛttāstu te mantrā darśanaistārakādibhiḥ |

45.2४५.२

आदिकल्पे तु देवानां प्रादुर्भूतास्तु ते स्वयम् ॥ (४५।२)

ādikalpe tu devānāṃ prādurbhūtāstu te svayam ||

46.1४६.१

प्रमाणेष्वथ सिद्धानामन्येषां च प्रवर्तते । (४६।१)

pramāṇeṣvatha siddhānāmanyeṣāṃ ca pravartate |

46.2४६.२

मन्त्रयोगो व्यतीतेषु कल्पेष्वथ सहस्रशः । (४६।२)

mantrayogo vyatīteṣu kalpeṣvatha sahasraśaḥ |

46.3४६.३

ते मन्त्रा वै पुनस्तेषां प्रतिमायामुपस्थिताः ॥ (४६।३)

te mantrā vai punasteṣāṃ pratimāyāmupasthitāḥ ||

47.1४७.१

ऋचो यजूंषि सामानि मन्त्राश्चाथर्वणास्तु ये । (४७।१)

ṛco yajūṃṣi sāmāni mantrāścātharvaṇāstu ye |

47.2४७.२

सप्तर्षिभिश्च ये प्रोक्ताः स्मार्तं तु मनुरब्रवीत् ॥ (४७।२)

saptarṣibhiśca ye proktāḥ smārtaṃ tu manurabravīt ||

48.1४८.१

त्रेतादौ संहता वेदाः केवलं धर्मसेतवः । (४८।१)

tretādau saṃhatā vedāḥ kevalaṃ dharmasetavaḥ |

48.2४८.२

संरोधादायुषश्चैव व्यस्यन्ते द्वापरे च ते । (४८।२)

saṃrodhādāyuṣaścaiva vyasyante dvāpare ca te |

48.3४८.३

ऋषयस्तपसा वेदानहोरात्रमधीयते ॥ (४८।३)

ṛṣayastapasā vedānahorātramadhīyate ||

49.1४९.१

अनादिनिधना दिव्याः पूर्वं प्रोक्ताः स्वयम्भुवा । (४९।१)

anādinidhanā divyāḥ pūrvaṃ proktāḥ svayambhuvā |

49.2४९.२

स्वधर्मसंवृताः साङ्गा यथाधर्मं युगे युगे । (४९।२)

svadharmasaṃvṛtāḥ sāṅgā yathādharmaṃ yuge yuge |

49.3४९.३

विक्रियन्ते स्वधर्मं तु वेदवादाद्यथायुगम् ॥ (४९।३)

vikriyante svadharmaṃ tu vedavādādyathāyugam ||

50.1५०.१

आरम्भयज्ञः क्षत्रस्य हविर्यज्ञा विशः स्मृताः । (५०।१)

ārambhayajñaḥ kṣatrasya haviryajñā viśaḥ smṛtāḥ |

50.2५०.२

परिचारयज्ञाः शूद्राश्च जपयज्ञाश्च ब्राह्मणाः ॥ (५०।२)

paricārayajñāḥ śūdrāśca japayajñāśca brāhmaṇāḥ ||

51.1५१.१

ततः समुदिता वर्णास्त्रेतायां धर्मशालिनः । (५१।१)

tataḥ samuditā varṇāstretāyāṃ dharmaśālinaḥ |

51.2५१.२

क्रियावन्तः प्रजावन्तः समृद्धाः सुखिनश्च वै ॥ (५१।२)

kriyāvantaḥ prajāvantaḥ samṛddhāḥ sukhinaśca vai ||

52.1५२.१

ब्राह्मणैश्च विधीयन्ते क्षत्रियाः क्षत्रियैर्विशः । (५२।१)

brāhmaṇaiśca vidhīyante kṣatriyāḥ kṣatriyairviśaḥ |

52.2५२.२

वैश्याञ्छूद्रा अनुवर्तन्ते परस्परमनुग्रहात् ॥ (५२।२)

vaiśyāñchūdrā anuvartante parasparamanugrahāt ||

53.1५३.१

शुभाः प्रकृतयस्तेषां धर्मा वर्णाश्रमाश्रयाः । (५३।१)

śubhāḥ prakṛtayasteṣāṃ dharmā varṇāśramāśrayāḥ |

53.2५३.२

संकल्पितेन मनसा वाचा वा हस्तकर्मणा । (५३।२)

saṃkalpitena manasā vācā vā hastakarmaṇā |

53.3५३.३

त्रेतायुगे ह्यविकले कर्मारम्भः प्रसिध्यति ॥ (५३।३)

tretāyuge hyavikale karmārambhaḥ prasidhyati ||

54.1५४.१

आयूरूपं बलं मेधा आरोग्यं धर्मशीलता । (५४।१)

āyūrūpaṃ balaṃ medhā ārogyaṃ dharmaśīlatā |

54.2५४.२

सर्वसाधारणं ह्येतदासीत्त्रेतायुगे तु वै ॥ (५४।२)

sarvasādhāraṇaṃ hyetadāsīttretāyuge tu vai ||

55.1५५.१

वर्णाश्रमव्यवस्थानमेषां ब्रह्मा तथाकरोत् । (५५।१)

varṇāśramavyavasthānameṣāṃ brahmā tathākarot |

55.2५५.२

संहिताश्च तथा मन्त्रा आरोग्यं धर्मशीलता ॥ (५५।२)

saṃhitāśca tathā mantrā ārogyaṃ dharmaśīlatā ||

56.1५६.१

संहिताश्च तथा मन्त्रा ऋषिभिर् ब्रह्मणः सुतैः । (५६।१)

saṃhitāśca tathā mantrā ṛṣibhir brahmaṇaḥ sutaiḥ |

56.2५६.२

यज्ञः प्रवर्तितश्चैव तदा ह्येव तु दैवतैः ॥ (५६।२)

yajñaḥ pravartitaścaiva tadā hyeva tu daivataiḥ ||

57.1५७.१

यामैः शुक्लैर्जयैश्चैव सर्वसाधनसंभृतैः । (५७।१)

yāmaiḥ śuklairjayaiścaiva sarvasādhanasaṃbhṛtaiḥ |

57.2५७.२

विश्वसृड्भिस् तथा सार्धं देवेन्द्रेण महौजसा । (५७।२)

viśvasṛḍbhis tathā sārdhaṃ devendreṇa mahaujasā |

57.3५७.३

स्वायम्भुवे ऽन्तरे देवैस्ते यज्ञाः प्राक्प्रवर्तिताः ॥ (५७।३)

svāyambhuve 'ntare devaiste yajñāḥ prākpravartitāḥ ||

58.1५८.१

सत्यं जपस्तपो दानं पूर्वधर्मो य उच्यते । (५८।१)

satyaṃ japastapo dānaṃ pūrvadharmo ya ucyate |

58.2५८.२

यदा धर्मस्य ह्रसते शाखाधर्मस्य वर्धते ॥ (५८।२)

yadā dharmasya hrasate śākhādharmasya vardhate ||

59.1५९.१

जायन्ते च तदा शूरा आयुष्मन्तो महाबलाः । (५९।१)

jāyante ca tadā śūrā āyuṣmanto mahābalāḥ |

59.2५९.२

न्यस्तदण्डा महायोगा यज्वानो ब्रह्मवादिनः ॥ (५९।२)

nyastadaṇḍā mahāyogā yajvāno brahmavādinaḥ ||

60.1६०.१

पद्मपत्त्रायताक्षाश्च पृथुवक्त्राः सुसंहताः । (६०।१)

padmapattrāyatākṣāśca pṛthuvaktrāḥ susaṃhatāḥ |

60.2६०.२

सिंहोरस्का महासत्त्वा मत्तमातंगगामिनः ॥ (६०।२)

siṃhoraskā mahāsattvā mattamātaṃgagāminaḥ ||

61.1६१.१

महाधनुर्धराश्चैव त्रेतायां चक्रवर्तिनः । (६१।१)

mahādhanurdharāścaiva tretāyāṃ cakravartinaḥ |

61.2६१.२

सर्वलक्षणपूर्णास्ते न्यग्रोधपरिमण्डलाः ॥ (६१।२)

sarvalakṣaṇapūrṇāste nyagrodhaparimaṇḍalāḥ ||

62.1६२.१

न्यग्रोधौ तु स्मृतौ बाहू व्यामो न्यग्रोध उच्यते । (६२।१)

nyagrodhau tu smṛtau bāhū vyāmo nyagrodha ucyate |

62.2६२.२

व्यामेन सूच्छ्रयो यस्य अत ऊर्ध्वं तु देहिनः । (६२।२)

vyāmena sūcchrayo yasya ata ūrdhvaṃ tu dehinaḥ |

62.3६२.३

समुच्छ्रयः परीणाहो न्यग्रोधपरिमण्डलः ॥ (६२।३)

samucchrayaḥ parīṇāho nyagrodhaparimaṇḍalaḥ ||

63.1६३.१

चक्रं रथो मणिर्भार्या निधिरश्वो गजस्तथा । (६३।१)

cakraṃ ratho maṇirbhāryā nidhiraśvo gajastathā |

63.2६३.२

प्रोक्तानि सप्त रत्नानि पूर्वं स्वायम्भुवेऽन्तरे ॥ (६३।२)

proktāni sapta ratnāni pūrvaṃ svāyambhuve'ntare ||

64.1६४.१

विष्णोरंशेन जायन्ते पृथिव्यां चक्रवर्तिनः । (६४।१)

viṣṇoraṃśena jāyante pṛthivyāṃ cakravartinaḥ |

64.2६४.२

मन्वन्तरेषु सर्वेषु ह्यतीतानागतेषु वै ॥ (६४।२)

manvantareṣu sarveṣu hyatītānāgateṣu vai ||

65.1६५.१

भूतभव्यानि यानीह वर्तमानानि यानि च । (६५।१)

bhūtabhavyāni yānīha vartamānāni yāni ca |

65.2६५.२

त्रेतायुगानि तेष्वत्र जायन्ते चक्रवर्तिनः ॥ (६५।२)

tretāyugāni teṣvatra jāyante cakravartinaḥ ||

66.1६६.१

भद्राणीमानि तेषां च विभाव्यन्ते महीक्षिताम् । (६६।१)

bhadrāṇīmāni teṣāṃ ca vibhāvyante mahīkṣitām |

66.2६६.२

अत्यद्भुतानि चत्वारि बलं धर्मं सुखं धनम् ॥ (६६।२)

atyadbhutāni catvāri balaṃ dharmaṃ sukhaṃ dhanam ||

67.1६७.१

अन्योन्यस्याविरोधेन प्राप्यन्ते नृपतेः समम् । (६७।१)

anyonyasyāvirodhena prāpyante nṛpateḥ samam |

67.2६७.२

अर्थो धर्मश्च कामश्च यशो विजय एव च ॥ (६७।२)

artho dharmaśca kāmaśca yaśo vijaya eva ca ||

68.1६८.१

ऐश्वर्येणाणिमाद्येन प्रभुशक्तिबलान्विताः । (६८।१)

aiśvaryeṇāṇimādyena prabhuśaktibalānvitāḥ |

68.2६८.२

श्रुतेन तपसा चैव ऋषींस्तेऽभिभवन्ति हि ॥ (६८।२)

śrutena tapasā caiva ṛṣīṃste'bhibhavanti hi ||

69.1६९.१

बलेनाभिभवन्त्येते तेन दानवमानवान् । (६९।१)

balenābhibhavantyete tena dānavamānavān |

69.2६९.२

लक्षणैश्चैव जायन्ते शरीरस्थैरमानुषैः ॥ (६९।२)

lakṣaṇaiścaiva jāyante śarīrasthairamānuṣaiḥ ||

70.1७०.१

केशाः स्थिता ललाटेन जिह्वा च परिमार्जनी । (७०।१)

keśāḥ sthitā lalāṭena jihvā ca parimārjanī |

70.2७०.२

श्यामप्रभाश्चतुर्दंष्ट्राः सुवंशाश्चोर्ध्वरेतसः ॥ (७०।२)

śyāmaprabhāścaturdaṃṣṭrāḥ suvaṃśāścordhvaretasaḥ ||

71.1७१.१

आजानुबाहवश्चैव तालहस्तौ वृषाकृती । (७१।१)

ājānubāhavaścaiva tālahastau vṛṣākṛtī |

71.2७१.२

परिणाहप्रमाणाभ्यां सिंहस्कन्धाश्च मेधिनः ॥ (७१।२)

pariṇāhapramāṇābhyāṃ siṃhaskandhāśca medhinaḥ ||

72.1७२.१

पादयोश्चक्रमत्स्यौ तु शङ्खपद्मे च हस्तयोः । (७२।१)

pādayoścakramatsyau tu śaṅkhapadme ca hastayoḥ |

72.2७२.२

पञ्चाशीतिसहस्राणि जीवन्ति ह्यजरामयाः ॥ (७२।२)

pañcāśītisahasrāṇi jīvanti hyajarāmayāḥ ||

73.1७३.१

असङ्गा गतयस्तेषां चतस्रश्चक्रवर्तिनाम् । (७३।१)

asaṅgā gatayasteṣāṃ catasraścakravartinām |

73.2७३.२

अन्तरिक्षे समुद्रेषु पाताले पर्वतेषु च ॥ (७३।२)

antarikṣe samudreṣu pātāle parvateṣu ca ||

74.1७४.१

इज्या दानं तपः सत्यं त्रेताधर्मास्तु वै स्मृताः । (७४।१)

ijyā dānaṃ tapaḥ satyaṃ tretādharmāstu vai smṛtāḥ |

74.2७४.२

तदा प्रवर्तते धर्मो वर्णाश्रमविभागशः । (७४।२)

tadā pravartate dharmo varṇāśramavibhāgaśaḥ |

74.3७४.३

मर्यादास्थापनार्थं च दण्डनीतिः प्रवर्तते ॥ (७४।३)

maryādāsthāpanārthaṃ ca daṇḍanītiḥ pravartate ||

75.1७५.१

हृष्टपुष्टा जनाः सर्वे अरोगाः पूर्णमानसाः । (७५।१)

hṛṣṭapuṣṭā janāḥ sarve arogāḥ pūrṇamānasāḥ |

75.2७५.२

एको वेदश्चतुष्पादस्त्रेतायां तु विधिः स्मृतः । (७५।२)

eko vedaścatuṣpādastretāyāṃ tu vidhiḥ smṛtaḥ |

75.3७५.३

त्रीणि वर्षसहस्राणि जीवन्ते तत्र ताः प्रजाः ॥ (७५।३)

trīṇi varṣasahasrāṇi jīvante tatra tāḥ prajāḥ ||

76.1७६.१

पुत्रपौत्रसमाकीर्णा म्रियन्ते च क्रमेण ताः । (७६।१)

putrapautrasamākīrṇā mriyante ca krameṇa tāḥ |

76.2७६.२

एष त्रेतायुगे भावस्त्रेतासंख्यां निबोधत ॥ (७६।२)

eṣa tretāyuge bhāvastretāsaṃkhyāṃ nibodhata ||

77.1७७.१

त्रेतायुगस्वभावेन संध्यापादेन वर्तते । (७७।१)

tretāyugasvabhāvena saṃdhyāpādena vartate |

77.2७७.२

संध्यापादः स्वभावाच्च योऽंशः पादेन तिष्ठति ॥ (७७।२)

saṃdhyāpādaḥ svabhāvācca yo'ṃśaḥ pādena tiṣṭhati ||

Data courtesy of The Digital Corpus of Sanskrit.

MPur, 142

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit