MPur, 63
Select a line for its word-by-word analysis.
माघमासे तु सम्प्राप्ते तृतीयां शुक्लपक्षतः । (२।१)
māghamāse tu samprāpte tṛtīyāṃ śuklapakṣataḥ |
प्रातर्गव्येन पयसा तिलैः स्नानं समाचरेत् ॥ (२।२)
prātargavyena payasā tilaiḥ snānaṃ samācaret ||
ललितायै नमो देव्याः पादौ गुल्फौ ततो ऽर्चयेत् । (४।१)
lalitāyai namo devyāḥ pādau gulphau tato 'rcayet |
जङ्घां जानुं तथा शान्त्यै तथैवोरुं श्रियै नमः ॥ (४।२)
jaṅghāṃ jānuṃ tathā śāntyai tathaivoruṃ śriyai namaḥ ||
भुजं भुजाग्रं माधव्यै कमलायै मुखस्मिते । (६।१)
bhujaṃ bhujāgraṃ mādhavyai kamalāyai mukhasmite |
मुकुटं विश्ववासिन्यै शिरः कान्त्यै तथार्चयेत् । (७।१)
mukuṭaṃ viśvavāsinyai śiraḥ kāntyai tathārcayet |
नेत्रे चन्द्रार्धधारिण्यै तुष्ट्यै च वदनं पुनः । (८।१)
netre candrārdhadhāriṇyai tuṣṭyai ca vadanaṃ punaḥ |
उत्कण्ठिन्यै नमः कण्ठममृतायै नमः स्तनौ ॥ (८।२)
utkaṇṭhinyai namaḥ kaṇṭhamamṛtāyai namaḥ stanau ||
रम्भायै वामकुक्षिं च विशोकायै नमः कटिम् । (९।१)
rambhāyai vāmakukṣiṃ ca viśokāyai namaḥ kaṭim |
जानुजङ्घे नमो गौर्यै गायत्र्यै घुटिके नमः ॥ (१०।२)
jānujaṅghe namo gauryai gāyatryai ghuṭike namaḥ ||
नमो भवान्यै कामिन्यै कामदेव्यै जगत्प्रिये ॥ (११।२)
namo bhavānyai kāminyai kāmadevyai jagatpriye ||
एवं सम्पूज्य विधिवद्द्विजदाम्पत्यम् अर्चयेत् । (१२।२)
evaṃ sampūjya vidhivaddvijadāmpatyam arcayet |
जलपूरितं तथा कुम्भं शुक्लाम्बरयुगद्वयम् । (१३।१)
jalapūritaṃ tathā kumbhaṃ śuklāmbarayugadvayam |
दत्त्वा सुवर्णकमलं गन्धमाल्यैः समर्चयेत् ॥ (१३।२)
dattvā suvarṇakamalaṃ gandhamālyaiḥ samarcayet ||
लवणं वर्जयेन्माघे फाल्गुने च गुडं पुनः । (१५।१)
lavaṇaṃ varjayenmāghe phālgune ca guḍaṃ punaḥ |
तैलं राजिं तथा चैत्रे वर्ज्यं च मधु माधवे ॥ (१५।२)
tailaṃ rājiṃ tathā caitre varjyaṃ ca madhu mādhave ||
श्रावणे वर्जयेत्क्षीरं दधि भाद्रपदे तथा ॥ (१६।२)
śrāvaṇe varjayetkṣīraṃ dadhi bhādrapade tathā ||
घृतमाश्वयुजे तद्वदूर्जे वर्ज्यं च माक्षिकम् । (१७।१)
ghṛtamāśvayuje tadvadūrje varjyaṃ ca mākṣikam |
धान्यकं मार्गशीर्षे तु पौषे वर्ज्या च शर्करा ॥ (१७।२)
dhānyakaṃ mārgaśīrṣe tu pauṣe varjyā ca śarkarā ||
व्रतान्ते करकं पूर्णमेतेषां मासि मासि च । (१८।१)
vratānte karakaṃ pūrṇameteṣāṃ māsi māsi ca |
दद्याद्द्विकालवेलायां पूर्णपात्रेण संयुतम् ॥ (१८।२)
dadyāddvikālavelāyāṃ pūrṇapātreṇa saṃyutam ||
लड्डुकाञ्छ्वेतवर्णांश्च संयावमथ पूरिकाः । (१९।१)
laḍḍukāñchvetavarṇāṃśca saṃyāvamatha pūrikāḥ |
घारिकान् अप्यपूपांश्च पिष्टापूपांश्च मण्डकान् ॥ (१९।२)
ghārikān apyapūpāṃśca piṣṭāpūpāṃśca maṇḍakān ||
क्षीरं शाकं च दध्यन्नमिण्डर्यो ऽशोकवर्तिकाः । (२०।१)
kṣīraṃ śākaṃ ca dadhyannamiṇḍaryo 'śokavartikāḥ |
कुमुदा माधवी गौरी रम्भा भद्रा जया शिवा । (२१।१)
kumudā mādhavī gaurī rambhā bhadrā jayā śivā |
क्रमान्माघादि सर्वत्र प्रीयतामिति कीर्तयेत् । (२२।१)
kramānmāghādi sarvatra prīyatāmiti kīrtayet |
पुनर्माघे तु सम्प्राप्ते शर्करां करकोपरि । (२३।१)
punarmāghe tu samprāpte śarkarāṃ karakopari |
कृत्वा तु काञ्चनीं गौरीं पञ्चरत्नसमन्विताम् ॥ (२३।२)
kṛtvā tu kāñcanīṃ gaurīṃ pañcaratnasamanvitām ||
हैमीमङ्गुष्ठमात्रां च साक्षसूत्रकमण्डलुम् । (२४।१)
haimīmaṅguṣṭhamātrāṃ ca sākṣasūtrakamaṇḍalum |
तद्वद्गोमिथुनं शुक्लं सुवर्णास्यं सिताम्बरम् । (२५।१)
tadvadgomithunaṃ śuklaṃ suvarṇāsyaṃ sitāmbaram |
कुर्यात्स सर्वपापेभ्यस् तत्क्षणादेव मुच्यते ॥ (२६।२)
kuryātsa sarvapāpebhyas tatkṣaṇādeva mucyate ||
अग्निष्टोमसहस्रस्य यत्फलं तदवाप्नुयात् ॥ (२७।३)
agniṣṭomasahasrasya yatphalaṃ tadavāpnuyāt ||
विधवा या तथा नारी सापि तत्फलमाप्नुयात् । (२८।२)
vidhavā yā tathā nārī sāpi tatphalamāpnuyāt |
इति पठति शृणोति श्रावयेद्यः प्रसङ्गात्कलिकलुषविमुक्तः पार्वतीलोकमेति । (२९।१)
iti paṭhati śṛṇoti śrāvayedyaḥ prasaṅgātkalikaluṣavimuktaḥ pārvatīlokameti |
मतिमपि च नराणां यो ददाति प्रियार्थं विबुधपतिविमाने नायकः स्यादमोघः ॥ (२९।२)
matimapi ca narāṇāṃ yo dadāti priyārthaṃ vibudhapativimāne nāyakaḥ syādamoghaḥ ||
Data courtesy of The Digital Corpus of Sanskrit.