MPur, 99
Select a line for its word-by-word analysis.
कार्त्तिके चैत्रवैशाखे मार्गशीर्षे च फाल्गुने । (२।१)
kārttike caitravaiśākhe mārgaśīrṣe ca phālgune |
आषाढे वा दशम्यां तु शुक्लायां लघुभुङ्नरः । (२।२)
āṣāḍhe vā daśamyāṃ tu śuklāyāṃ laghubhuṅnaraḥ |
कृत्वा सायन्तनीं संध्यां गृह्णीयान्नियमं बुधः ॥ (२।३)
kṛtvā sāyantanīṃ saṃdhyāṃ gṛhṇīyānniyamaṃ budhaḥ ||
द्वादश्यां द्विजसंयुक्तः करिष्ये भोजनं विभो ॥ (३।२)
dvādaśyāṃ dvijasaṃyuktaḥ kariṣye bhojanaṃ vibho ||
नमः शिवायेत्यूरू च विश्वमूर्ते नमः कटिम् ॥ (६।२)
namaḥ śivāyetyūrū ca viśvamūrte namaḥ kaṭim ||
माधवायेत्युरो विष्णोः कण्ठम् उत्कण्ठिने नमः । (८।१)
mādhavāyetyuro viṣṇoḥ kaṇṭham utkaṇṭhine namaḥ |
शिरः सर्वात्मने ब्रह्मन्नम इत्यभिपूजयेत् ॥ (९।३)
śiraḥ sarvātmane brahmannama ityabhipūjayet ||
मत्स्यमुत्पलसंयुक्तं हैमं कृत्वा तु शक्तितः । (१०।१)
matsyamutpalasaṃyuktaṃ haimaṃ kṛtvā tu śaktitaḥ |
गुडपात्रं तिलैर्युक्तं सितवस्त्राभिवेष्टितम् । (११।१)
guḍapātraṃ tilairyuktaṃ sitavastrābhiveṣṭitam |
प्रभातायां तु शर्वर्यां ब्राह्मणाय कुटुम्बिने । (१२।१)
prabhātāyāṃ tu śarvaryāṃ brāhmaṇāya kuṭumbine |
सकाञ्चनोत्पलं देवं सोदकुम्भं निवेदयेत् ॥ (१२।२)
sakāñcanotpalaṃ devaṃ sodakumbhaṃ nivedayet ||
दत्तात्रेयं तथा व्यासमुत्पलेन समन्वितम् । (१४।२)
dattātreyaṃ tathā vyāsamutpalena samanvitam |
समाप्यैवं यथाशक्त्या द्वादश द्वादशीः पुनः । (१५।१)
samāpyaivaṃ yathāśaktyā dvādaśa dvādaśīḥ punaḥ |
शय्यां दद्यान्मुनिश्रेष्ठ गुरवे धेनुसंयुताम् ॥ (१६।०)
śayyāṃ dadyānmuniśreṣṭha gurave dhenusaṃyutām ||
ग्रामं च शक्तिमान्दद्यात्क्षेत्रं वा भवनान्वितम् । (१७।१)
grāmaṃ ca śaktimāndadyātkṣetraṃ vā bhavanānvitam |
गुरुं सम्पूज्य विधिवद्वस्त्रालंकारभूषणैः ॥ (१७।२)
guruṃ sampūjya vidhivadvastrālaṃkārabhūṣaṇaiḥ ||
अन्यानपि यथाशक्त्या भोजयित्वा द्विजोत्तमान् । (१८।१)
anyānapi yathāśaktyā bhojayitvā dvijottamān |
तर्पयेद् वस्त्रगोदानै रत्नौघधनसंचयैः । (१८।२)
tarpayed vastragodānai ratnaughadhanasaṃcayaiḥ |
अल्पवित्तो यथाशक्त्या स्तोकं स्तोकं समाचरेत् ॥ (१८।३)
alpavitto yathāśaktyā stokaṃ stokaṃ samācaret ||
यश्चाप्यतीव निःस्वः स्याद्भक्तिमान्माधवं प्रति । (१९।१)
yaścāpyatīva niḥsvaḥ syādbhaktimānmādhavaṃ prati |
पुष्पार्चनविधानेन स कुर्याद्वत्सरद्वयम् । (१९।२)
puṣpārcanavidhānena sa kuryādvatsaradvayam |
कुर्यात्पापविनिर्मुक्तः पितॄणां तारयेच्छतम् ॥ (१९।४)
kuryātpāpavinirmuktaḥ pitṝṇāṃ tārayecchatam ||
न च व्याधिर्भवेत्तस्य न दारिद्र्यं न बन्धनम् । (२०।२)
na ca vyādhirbhavettasya na dāridryaṃ na bandhanam |
वैष्णवो वाथ शैवो वा भवेज्जन्मनि जन्मनि ॥ (२०।३)
vaiṣṇavo vātha śaivo vā bhavejjanmani janmani ||
तावत्स्वर्गे वसेद्ब्रह्मन्भूपतिश्च पुनर्भवेत् ॥ (२१।२)
tāvatsvarge vasedbrahmanbhūpatiśca punarbhavet ||
Data courtesy of The Digital Corpus of Sanskrit.