MPur, 118
Select a line for its word-by-word analysis.
ऐरावती सरिच्छ्रेष्ठा यस्माद्देशाद्विनिर्गता । (२।१)
airāvatī saricchreṣṭhā yasmāddeśādvinirgatā |
शालैस्तालैस्तमालैश्च कर्णिकारैः सशामलैः । (३।१)
śālaistālaistamālaiśca karṇikāraiḥ saśāmalaiḥ |
न्यग्रोधैश्च तथाश्वत्थैः शिरीषैः शिंशपद्रुमैः ॥ (३।२)
nyagrodhaiśca tathāśvatthaiḥ śirīṣaiḥ śiṃśapadrumaiḥ ||
भूर्जैः समुञ्जकैर् बाणैर्वृक्षैः सप्तच्छदद्रुमैः ॥ (४।२)
bhūrjaiḥ samuñjakair bāṇairvṛkṣaiḥ saptacchadadrumaiḥ ||
महानिम्बैस्तथा निम्बैर्निर्गुण्डीभिर्हरिद्रुमैः । (५।१)
mahānimbaistathā nimbairnirguṇḍībhirharidrumaiḥ |
पद्मकैश्चन्दनैर्बिल्वैः कपित्थै रक्तचन्दनैः । (६।१)
padmakaiścandanairbilvaiḥ kapitthai raktacandanaiḥ |
माताम्ररिष्टकाक्षोटैर् अब्दकैश्च तथार्जुनैः ॥ (६।२)
mātāmrariṣṭakākṣoṭair abdakaiśca tathārjunaiḥ ||
हस्तिकर्णैः सुमनसैः कोविदारैः सुपुष्पितैः । (७।१)
hastikarṇaiḥ sumanasaiḥ kovidāraiḥ supuṣpitaiḥ |
खर्जूरैर्नारिकेलैश्च प्रियालाम्रातकेङ्गुदैः । (८।१)
kharjūrairnārikelaiśca priyālāmrātakeṅgudaiḥ |
तन्तुमालैर् धवैर्भव्यैः काश्मीरीपर्णिभिस्तथा ॥ (८।२)
tantumālair dhavairbhavyaiḥ kāśmīrīparṇibhistathā ||
मन्दारैः कोविदारैश्च किंशुकैः कुसुमांशुकैः ॥ (९।२)
mandāraiḥ kovidāraiśca kiṃśukaiḥ kusumāṃśukaiḥ ||
यवासैः शमिपर्णासैर्वेतसैर् अम्बुवेतसैः । (१०।१)
yavāsaiḥ śamiparṇāsairvetasair ambuvetasaiḥ |
रक्तातिरङ्गनारङ्गैर् हिङ्गुभिः सप्रियङ्गुभिः ॥ (१०।२)
raktātiraṅganāraṅgair hiṅgubhiḥ sapriyaṅgubhiḥ ||
रक्ताशोकैस् तथाशोकैर् आकल्लैर् अविचारकैः । (११।१)
raktāśokais tathāśokair ākallair avicārakaiḥ |
किरातैः किङ्किरातैश्च केतकैः श्वेतकेतकैः । (१२।१)
kirātaiḥ kiṅkirātaiśca ketakaiḥ śvetaketakaiḥ |
शोभाञ्जनैर् अञ्जनैश्च सुकलिङ्गनिकोटकैः ॥ (१२।२)
śobhāñjanair añjanaiśca sukaliṅganikoṭakaiḥ ||
सुवर्णचारुवसनैर् द्रुमश्रेष्ठैस् तथासनैः । (१३।१)
suvarṇacāruvasanair drumaśreṣṭhais tathāsanaiḥ |
जात्या चम्पकजात्या च तुम्बरैश्चाप्यतुम्बरैः ॥ (१४।२)
jātyā campakajātyā ca tumbaraiścāpyatumbaraiḥ ||
तथा सुपुष्पावरणैश्चव्यकैः कामिवल्लभैः ॥ (१५।२)
tathā supuṣpāvaraṇaiścavyakaiḥ kāmivallabhaiḥ ||
पुष्पाङ्कुरैश्च बकुलैः पारिभद्रहरिद्रैः । (१६।१)
puṣpāṅkuraiśca bakulaiḥ pāribhadraharidraiḥ |
धाराकदम्बैः कुटजैः कदम्बैर् गिरिकुटजैः ॥ (१६।२)
dhārākadambaiḥ kuṭajaiḥ kadambair girikuṭajaiḥ ||
आदित्यमुस्तकैः कुम्भैः कुङ्कुमैः कामवल्लभैः । (१७।१)
ādityamustakaiḥ kumbhaiḥ kuṅkumaiḥ kāmavallabhaiḥ |
कट्फलैर्बदरैर्नीपैर् दीपैरिव महोज्ज्वलैः ॥ (१७।२)
kaṭphalairbadarairnīpair dīpairiva mahojjvalaiḥ ||
रक्तैः पालीवनैः श्वेतैर्दाडिमैश्चम्पकद्रुमैः । (१८।१)
raktaiḥ pālīvanaiḥ śvetairdāḍimaiścampakadrumaiḥ |
बन्धूकैश्च सुबन्धूकैः कुञ्जकानां तु जातिभिः ॥ (१८।२)
bandhūkaiśca subandhūkaiḥ kuñjakānāṃ tu jātibhiḥ ||
कुरबकैर् हिमवरैर् जम्बूभिर् नृपजम्बुभिः ॥ (१९।२)
kurabakair himavarair jambūbhir nṛpajambubhiḥ ||
बीजपूरैः सकर्पूरैर्गुरुभिश्चागुरुद्रुमैः । (२०।१)
bījapūraiḥ sakarpūrairgurubhiścāgurudrumaiḥ |
बिम्बैश्च प्रतिबिम्बैश्च संतानकवितानकैः ॥ (२०।२)
bimbaiśca pratibimbaiśca saṃtānakavitānakaiḥ ||
तथा गुग्गुलवृक्षैश्च हिन्तालधवलेक्षुभिः । (२१।१)
tathā guggulavṛkṣaiśca hintāladhavalekṣubhiḥ |
तृणशून्यैः करवीरैरशोकैश् चक्रमर्दनैः ॥ (२१।२)
tṛṇaśūnyaiḥ karavīrairaśokaiś cakramardanaiḥ ||
पीलुभिर्धातकीभिश्च चिरिबिल्वैः समाकुलैः । (२२।१)
pīlubhirdhātakībhiśca ciribilvaiḥ samākulaiḥ |
तिन्तिडीकैस्तथा लोध्रैर्विडङ्गैः क्षीरिकाद्रुमैः ॥ (२२।२)
tintiḍīkaistathā lodhrairviḍaṅgaiḥ kṣīrikādrumaiḥ ||
अश्मन्तकैस्तथा कालैर्जम्बीरैः श्वैतकद्रुमैः । (२३।१)
aśmantakaistathā kālairjambīraiḥ śvaitakadrumaiḥ |
भल्लातकैरिन्द्रयवैर् वल्गुजैः सिद्धिसाधकैः ॥ (२३।२)
bhallātakairindrayavair valgujaiḥ siddhisādhakaiḥ ||
रुद्राक्षैर्द्राक्षसम्भूतैः सप्ताह्वैः पुत्रजीवकैः ॥ (२४।३)
rudrākṣairdrākṣasambhūtaiḥ saptāhvaiḥ putrajīvakaiḥ ||
शूकपत्त्रनिभैश्चान्यैः स्थलपत्त्रैश्च भागशः । (३९।१)
śūkapattranibhaiścānyaiḥ sthalapattraiśca bhāgaśaḥ |
पञ्चवर्णैः समाकीर्णैर् बहुवर्णैस्तथैव च ॥ (३९।२)
pañcavarṇaiḥ samākīrṇair bahuvarṇaistathaiva ca ||
द्रष्टुर्दृष्ट्या हितमुदैः कुमुदैश्चन्द्रसंनिभैः । (४०।१)
draṣṭurdṛṣṭyā hitamudaiḥ kumudaiścandrasaṃnibhaiḥ |
तथा वह्निशिखाकारैर्गजवक्त्रोत्पलैः शुभैः ॥ (४०।२)
tathā vahniśikhākārairgajavaktrotpalaiḥ śubhaiḥ ||
नीलोत्पलैः सकह्लारैर् गुञ्जातककसेरुकैः । (४१।१)
nīlotpalaiḥ sakahlārair guñjātakakaserukaiḥ |
जलजैः स्थलजैर्मूलैः फलैः पुष्पैर्विशेषतः । (४२।१)
jalajaiḥ sthalajairmūlaiḥ phalaiḥ puṣpairviśeṣataḥ |
विविधैश्चैव नीवारैर्मुनिभोज्यैर्नराधिप ॥ (४२।२)
vividhaiścaiva nīvārairmunibhojyairnarādhipa ||
न तद्धान्यं न तत्सस्यं न तच्छाकं न तत्फलम् । (४३।१)
na taddhānyaṃ na tatsasyaṃ na tacchākaṃ na tatphalam |
न तन्मूलं न तत्कन्दं न तत्पुष्पं नराधिप ॥ (४३।२)
na tanmūlaṃ na tatkandaṃ na tatpuṣpaṃ narādhipa ||
अनूपोत्थं वनोत्थं च तत्र यन्नास्ति पार्थिवः ॥ (४४।२)
anūpotthaṃ vanotthaṃ ca tatra yannāsti pārthivaḥ ||
मयूरान् शतपत्त्रांश्च कलविङ्कांश्च कोकिलान् ॥ (४६।२)
mayūrān śatapattrāṃśca kalaviṅkāṃśca kokilān ||
तथा कादम्बकान्हंसान्कोयष्टीन् खञ्जरीटकान् । (४७।१)
tathā kādambakānhaṃsānkoyaṣṭīn khañjarīṭakān |
कुररान्कालकूटांश्च खट्वाङ्गान् लुब्धकांस् तथा ॥ (४७।२)
kurarānkālakūṭāṃśca khaṭvāṅgān lubdhakāṃs tathā ||
गोक्ष्वेडकांस्तथा कुम्भान्धार्तराष्ट्राञ्शुकान्बकान् । (४८।१)
gokṣveḍakāṃstathā kumbhāndhārtarāṣṭrāñśukānbakān |
घातुकांश्चक्रवाकांश्च कटुकान्टिट्टिभान् भटान् ॥ (४८।२)
ghātukāṃścakravākāṃśca kaṭukānṭiṭṭibhān bhaṭān ||
पुत्रप्रियान् लोहपृष्ठान् गोचर्मगिरिवर्तकान् । (४९।१)
putrapriyān lohapṛṣṭhān gocarmagirivartakān |
लाववर्तकवार्ताकान् रक्तवर्त्मप्रभद्रकान् । (५०।१)
lāvavartakavārtākān raktavartmaprabhadrakān |
ताम्रचूडान्स्वर्णचूडान् कुक्कुटान् काष्ठकुक्कुटान् ॥ (५०।२)
tāmracūḍānsvarṇacūḍān kukkuṭān kāṣṭhakukkuṭān ||
भृङ्गराजान् सीरपादान् भूलिङ्गान् डिण्डिमान् नवान् ॥ (५१।२)
bhṛṅgarājān sīrapādān bhūliṅgān ḍiṇḍimān navān ||
मञ्जुलीतकदात्यूहान् भारद्वाजांस्तथा चषान् । (५२।१)
mañjulītakadātyūhān bhāradvājāṃstathā caṣān |
एतांश्चान्यांश्च सुबहून् पक्षिसंघान्मनोहरान् ॥ (५२।२)
etāṃścānyāṃśca subahūn pakṣisaṃghānmanoharān ||
श्वापदान्विविधाकारान् मृगांश्चैव महामृगान् । (५३।१)
śvāpadānvividhākārān mṛgāṃścaiva mahāmṛgān |
व्याघ्रान्केसरिणः सिंहान्द्वीपिनः शरभान्वृकान् ॥ (५३।२)
vyāghrānkesariṇaḥ siṃhāndvīpinaḥ śarabhānvṛkān ||
ऋक्षांस्तरक्षूंश्च बहून्गोलाङ्गूलान् सवानरान् । (५४।१)
ṛkṣāṃstarakṣūṃśca bahūngolāṅgūlān savānarān |
शशलोमान् सकादम्बान् मार्जारान् वायुवेगिनः ॥ (५४।२)
śaśalomān sakādambān mārjārān vāyuveginaḥ ||
मूषकान्नकुलान् कावान् सिंहान् द्रुममनोहरान् । (५५।१)
mūṣakānnakulān kāvān siṃhān drumamanoharān |
तथा मत्तांश्च मातंगान् महिषान् गवयान् वृषान् । (५५।२)
tathā mattāṃśca mātaṃgān mahiṣān gavayān vṛṣān |
उरभ्रांश्च तथा मेषान्सारङ्गानथ कूकुरान् । (५६।१)
urabhrāṃśca tathā meṣānsāraṅgānatha kūkurān |
सदंष्ट्रारामसरभान् क्रौञ्चाकारकशम्बरान् । (५७।१)
sadaṃṣṭrārāmasarabhān krauñcākārakaśambarān |
करालान्कृतमालांश्च कालपुच्छांश्च तोरणान् ॥ (५७।२)
karālānkṛtamālāṃśca kālapucchāṃśca toraṇān ||
दंष्ट्रान्खड्गान्वराहांश्च तुरंगान्खरगर्दभान् । (५८।१)
daṃṣṭrānkhaḍgānvarāhāṃśca turaṃgānkharagardabhān |
एतान् अद्विष्टान्मद्रेशो विरुद्धांश्च परस्परम् ॥ (५८।२)
etān adviṣṭānmadreśo viruddhāṃśca parasparam ||
अविरुद्धान्वने दृष्ट्वा विस्मयं परमं ययौ । (५९।१)
aviruddhānvane dṛṣṭvā vismayaṃ paramaṃ yayau |
तच्चाश्रमपदं पुण्यं बभूवात्रेः पुरा नृपम् ॥ (५९।२)
taccāśramapadaṃ puṇyaṃ babhūvātreḥ purā nṛpam ||
तत्प्रसादात्प्रभायुक्तं स्थावरैर्जङ्गमैस्तथा । (६०।१)
tatprasādātprabhāyuktaṃ sthāvarairjaṅgamaistathā |
हिंसन्ति हि न चान्योन्यं हिंसकास्तु परस्परम् ॥ (६०।२)
hiṃsanti hi na cānyonyaṃ hiṃsakāstu parasparam ||
क्रव्यादाः प्राणिनस्तत्र सर्वे क्षीरफलाशनाः । (६१।१)
kravyādāḥ prāṇinastatra sarve kṣīraphalāśanāḥ |
निर्मितास्तत्र चात्यर्थमत्रिणा सुमहात्मना ॥ (६१।२)
nirmitāstatra cātyarthamatriṇā sumahātmanā ||
पयः क्षरन्ति ते दिव्यम् अमृतस्वादुकण्टकम् ॥ (६२।२)
payaḥ kṣaranti te divyam amṛtasvādukaṇṭakam ||
क्वचिद्राजन्महिष्यश्च क्वचिदाजाश्च सर्वशः । (६३।१)
kvacidrājanmahiṣyaśca kvacidājāśca sarvaśaḥ |
शिलाः क्षीरेण सम्पूर्णा दध्ना चान्यत्र वा बहिः ॥ (६३।२)
śilāḥ kṣīreṇa sampūrṇā dadhnā cānyatra vā bahiḥ ||
सरांसि तत्र दिव्यानि नद्यश्च विमलोदकाः ॥ (६४।२)
sarāṃsi tatra divyāni nadyaśca vimalodakāḥ ||
हिमपातो न तत्रास्ति समन्तात् पञ्चयोजनम् । (६६।१)
himapāto na tatrāsti samantāt pañcayojanam |
तत्रास्ति राजञ्छिखरं पर्वतेन्द्रस्य पाण्डुरम् । (६७।१)
tatrāsti rājañchikharaṃ parvatendrasya pāṇḍuram |
हिमपातं घना यत्र कुर्वन्ति सहिताः सदा ॥ (६७।२)
himapātaṃ ghanā yatra kurvanti sahitāḥ sadā ||
तत्रास्ति चापरं शृङ्गं यत्र तोयघना घनाः । (६८।१)
tatrāsti cāparaṃ śṛṅgaṃ yatra toyaghanā ghanāḥ |
नित्यमेवाभिवर्षन्ति शिलाभिः शिरवरं वरम् ॥ (६८।२)
nityamevābhivarṣanti śilābhiḥ śiravaraṃ varam ||
सुरमुख्योपयोगित्वाच्छाखिनां सफलाः फलाः ॥ (६९।२)
suramukhyopayogitvācchākhināṃ saphalāḥ phalāḥ ||
हिमपुञ्जाः कृतास्तत्र चन्द्रबिम्बसमप्रभाः ॥ (७१।२)
himapuñjāḥ kṛtāstatra candrabimbasamaprabhāḥ ||
तदाश्रमं श्रमशमनं मनोहरं मनोहरैः कुसुमशतैरलंकृतम् । (७४।१)
tadāśramaṃ śramaśamanaṃ manoharaṃ manoharaiḥ kusumaśatairalaṃkṛtam |
कृतं स्वयं रुचिरमथात्रिणा शुभं शुभावहं च हि ददृशे स मद्रराट् ॥ (७४।२)
kṛtaṃ svayaṃ ruciramathātriṇā śubhaṃ śubhāvahaṃ ca hi dadṛśe sa madrarāṭ ||
Data courtesy of The Digital Corpus of Sanskrit.