MPur, 18
Select a line for its word-by-word analysis.
मृते पुत्रैर्यथा कार्यमाशौचं च पितर्यपि ॥ (१।३)
mṛte putrairyathā kāryamāśaucaṃ ca pitaryapi ||
क्षत्रियेषु दश द्वे च पक्षं वैश्येषु चैव हि ॥ (२।२)
kṣatriyeṣu daśa dve ca pakṣaṃ vaiśyeṣu caiva hi ||
नैशं वाकृतचूडस्य त्रिरात्रं परतः स्मृतम् ॥ (३।२)
naiśaṃ vākṛtacūḍasya trirātraṃ parataḥ smṛtam ||
तथास्थिसंचयाद् ऊर्ध्वमङ्गस्पर्शो विधीयते ॥ (४।२)
tathāsthisaṃcayād ūrdhvamaṅgasparśo vidhīyate ||
पाथेयं तस्य तत्प्रोक्तं यतः प्रीतिकरं महत् ॥ (५।२)
pātheyaṃ tasya tatproktaṃ yataḥ prītikaraṃ mahat ||
तस्मात्प्रेतपुरं प्रेतो द्वादशाहं न नीयते । (६।१)
tasmātpretapuraṃ preto dvādaśāhaṃ na nīyate |
गृहं पुत्रं कलत्रं च द्वादशाहं प्रपश्यति ॥ (६।२)
gṛhaṃ putraṃ kalatraṃ ca dvādaśāhaṃ prapaśyati ||
क्षत्रादिः सूतकान्ते तु भोजयेदयुजो द्विजान् ॥ (८।२)
kṣatrādiḥ sūtakānte tu bhojayedayujo dvijān ||
द्वितीयेऽह्नि पुनस्तद्वदेकोद्दिष्टं समाचरेत् । (९।१)
dvitīye'hni punastadvadekoddiṣṭaṃ samācaret |
एकं पवित्रमेको ऽर्घ एकः पिण्डो विधीयते । (१०।१)
ekaṃ pavitrameko 'rgha ekaḥ piṇḍo vidhīyate |
स्वदितं विकिरेद्ब्रूयाद्विसर्गे चाभिरम्यताम् । (११।१)
svaditaṃ vikiredbrūyādvisarge cābhiramyatām |
शेषं पूर्ववदत्रापि कार्यं वेदविदा पितुः ॥ (११।२)
śeṣaṃ pūrvavadatrāpi kāryaṃ vedavidā pituḥ ||
सूतकान्ताद्द्वितीयेऽह्नि शय्यां दद्याद्विलक्षणाम् ॥ (१२।२)
sūtakāntāddvitīye'hni śayyāṃ dadyādvilakṣaṇām ||
काञ्चनं पुरुषं तद्वत्फलवस्त्रसमन्विताम् । (१३।१)
kāñcanaṃ puruṣaṃ tadvatphalavastrasamanvitām |
संपूज्य द्विजदाम्पत्यं नानाभरणभूषणैः ॥ (१३।२)
saṃpūjya dvijadāmpatyaṃ nānābharaṇabhūṣaṇaiḥ ||
वृषोत्सर्गं प्रकुर्वीत देया च कपिला शुभा । (१४।१)
vṛṣotsargaṃ prakurvīta deyā ca kapilā śubhā |
उदकुम्भश्च दातव्यो भक्ष्यभोज्यसमन्वितः ॥ (१४।२)
udakumbhaśca dātavyo bhakṣyabhojyasamanvitaḥ ||
ततः संवत्सरे पूर्णे सपिण्डीकरणं भवेत् ॥ (१५।२)
tataḥ saṃvatsare pūrṇe sapiṇḍīkaraṇaṃ bhavet ||
सपिण्डीकरणादूर्ध्वं प्रेतः पार्वणभाग्भवेत् । (१६।१)
sapiṇḍīkaraṇādūrdhvaṃ pretaḥ pārvaṇabhāgbhavet |
वृद्धिपूर्वेषु योग्यश्च गृहस्थश्च भवेत्ततः ॥ (१६।२)
vṛddhipūrveṣu yogyaśca gṛhasthaśca bhavettataḥ ||
सपिण्डीकरणे श्राद्धे देवपूर्वं नियोजयेत् । (१७।१)
sapiṇḍīkaraṇe śrāddhe devapūrvaṃ niyojayet |
पितॄन् निवासयेत्तत्र पृथक्प्रेतं विनिर्दिशेत् ॥ (१७।२)
pitṝn nivāsayettatra pṛthakpretaṃ vinirdiśet ||
गन्धोदकतिलैर्युक्तं कुर्यात्पात्रचतुष्टयम् । (१८।१)
gandhodakatilairyuktaṃ kuryātpātracatuṣṭayam |
अर्घार्थं पितृपात्रेषु प्रेतपात्रं प्रसेचयेत् ॥ (१८।२)
arghārthaṃ pitṛpātreṣu pretapātraṃ prasecayet ||
तद्वत्संकल्प्य चतुरः पिण्डान्पिण्डप्रदस्तथा । (१९।१)
tadvatsaṃkalpya caturaḥ piṇḍānpiṇḍapradastathā |
ये समाना इति द्वाभ्यामन्त्यं तु विभजेत्त्रिधा ॥ (१९।२)
ye samānā iti dvābhyāmantyaṃ tu vibhajettridhā ||
चतुर्थस्य पुनः कार्यं न कदाचिदतो भवेत् । (२०।१)
caturthasya punaḥ kāryaṃ na kadācidato bhavet |
अग्निष्वात्तादिमध्यत्वं प्राप्नोत्यमृतमुत्तमम् । (२१।१)
agniṣvāttādimadhyatvaṃ prāpnotyamṛtamuttamam |
सपिण्डीकरणादूर्ध्वं तस्मै तस्मान्न दीयते ॥ (२१।२)
sapiṇḍīkaraṇādūrdhvaṃ tasmai tasmānna dīyate ||
पितृष्वेव तु दातव्यं तत्पिण्डो येषु संस्थितः । (२२।१)
pitṛṣveva tu dātavyaṃ tatpiṇḍo yeṣu saṃsthitaḥ |
ततः प्रभृति संक्रान्ताव् उपरागादिपर्वसु ॥ (२२।२)
tataḥ prabhṛti saṃkrāntāv uparāgādiparvasu ||
त्रिपिण्डमाचरेच्छ्राद्धमेकोद्दिष्टे मृते ऽहनि । (२३।१)
tripiṇḍamācarecchrāddhamekoddiṣṭe mṛte 'hani |
एकोद्दिष्टं परित्यज्य मृताहे यः समाचरेत् ॥ (२३।२)
ekoddiṣṭaṃ parityajya mṛtāhe yaḥ samācaret ||
मृताहे पार्वणं कुर्वन्नधोऽधो याति मानवः ॥ (२४।२)
mṛtāhe pārvaṇaṃ kurvannadho'dho yāti mānavaḥ ||
संपृक्तेष्वाकुलीभावः प्रेतेषु तु गतो भवेत् । (२५।१)
saṃpṛkteṣvākulībhāvaḥ preteṣu tu gato bhavet |
प्रतिसंवत्सरं तस्मादेकोद्दिष्टं समाचरेत् ॥ (२५।२)
pratisaṃvatsaraṃ tasmādekoddiṣṭaṃ samācaret ||
यावदब्दं तु यो दद्यादुदकुम्भं विमत्सरः । (२६।१)
yāvadabdaṃ tu yo dadyādudakumbhaṃ vimatsaraḥ |
प्रेतायान्नसमायुक्तं सो ऽश्वमेधफलं लभेत् ॥ (२६।२)
pretāyānnasamāyuktaṃ so 'śvamedhaphalaṃ labhet ||
आमश्राद्धं यदा कुर्याद्विधिज्ञः श्राद्धदस्तदा । (२७।१)
āmaśrāddhaṃ yadā kuryādvidhijñaḥ śrāddhadastadā |
तेनाग्नौकरणं कुर्यात्पिण्डांस्तेनैव निर्वपेत् ॥ (२७।२)
tenāgnaukaraṇaṃ kuryātpiṇḍāṃstenaiva nirvapet ||
यदा प्राप्स्यति कालेन तदा मुच्येत बन्धनात् ॥ (२८।२)
yadā prāpsyati kālena tadā mucyeta bandhanāt ||
मुक्तोऽपि लेपभागित्वं प्राप्नोति कुशमार्जनात् । (२९।१)
mukto'pi lepabhāgitvaṃ prāpnoti kuśamārjanāt |
लेपभाजश्चतुर्थाद्याः पित्राद्याः पिण्डभागिनः । (२९।२)
lepabhājaścaturthādyāḥ pitrādyāḥ piṇḍabhāginaḥ |
पिण्डदः सप्तमस्तेषां सापिण्ड्यं साप्तपौरुषम् ॥ (२९।३)
piṇḍadaḥ saptamasteṣāṃ sāpiṇḍyaṃ sāptapauruṣam ||
Data courtesy of The Digital Corpus of Sanskrit.