MPur, 81
Select a line for its word-by-word analysis.
किम् अभीष्टवियोगशोकसंघादलम् उद्धर्तुमुपोषणं व्रतं वा । (१।२)
kim abhīṣṭaviyogaśokasaṃghādalam uddhartumupoṣaṇaṃ vrataṃ vā |
विभवोद्भवकारि भूतलेऽस्मिन्भवभीतेरपि सूदनं च पुंसः ॥ (१।३)
vibhavodbhavakāri bhūtale'sminbhavabhīterapi sūdanaṃ ca puṃsaḥ ||
परिपृष्टमिदं जगत्प्रियं ते विबुधानामपि दुर्लभं महत्त्वात् । (२।२)
paripṛṣṭamidaṃ jagatpriyaṃ te vibudhānāmapi durlabhaṃ mahattvāt |
तव भक्तिमतस्तथापि वक्ष्ये व्रतमिन्द्रासुरमानवेषु गुह्यम् ॥ (२।३)
tava bhaktimatastathāpi vakṣye vratamindrāsuramānaveṣu guhyam ||
श्रियं वाभ्यर्च्य विधिवद्भोक्ष्यामि त्वपरेऽहनि ॥ (४।३)
śriyaṃ vābhyarcya vidhivadbhokṣyāmi tvapare'hani ||
स्नानं सर्वौषधैः कुर्यात्पञ्चगव्यजलेन तु । (५।२)
snānaṃ sarvauṣadhaiḥ kuryātpañcagavyajalena tu |
शुक्लमाल्याम्बरधरः पूजयेच्छ्रीशमुत्पलैः ॥ (५।३)
śuklamālyāmbaradharaḥ pūjayecchrīśamutpalaiḥ ||
वैकुण्ठाय नमः कण्ठमास्यं यज्ञमुखाय वै ॥ (९।२)
vaikuṇṭhāya namaḥ kaṇṭhamāsyaṃ yajñamukhāya vai ||
नमः सर्वात्मने तद्वच्छिर इत्यभिपूजयेत् ॥ (११।२)
namaḥ sarvātmane tadvacchira ityabhipūjayet ||
एवं सम्पूज्य गोविन्दं फलमाल्यानुलेपनैः । (१२।१)
evaṃ sampūjya govindaṃ phalamālyānulepanaiḥ |
ततस्तु मण्डलं कृत्वा स्थण्डिलं कारयेन्मुदा ॥ (१२।२)
tatastu maṇḍalaṃ kṛtvā sthaṇḍilaṃ kārayenmudā ||
चतुरस्रं समन्ताच्च रत्निमात्रमुदक्प्लवम् । (१३।१)
caturasraṃ samantācca ratnimātramudakplavam |
श्लक्ष्णं हृद्यं च परितो वप्रत्रयसमावृतम् ॥ (१३।२)
ślakṣṇaṃ hṛdyaṃ ca parito vapratrayasamāvṛtam ||
अङ्गुलेनोच्छ्रिता वप्रास्तद्विस्तारस्तु द्व्यङ्गुलः । (१४।१)
aṅgulenocchritā vaprāstadvistārastu dvyaṅgulaḥ |
स्थण्डिलस्योपरिष्टाच्च भित्तिरष्टाङ्गुला भवेत् ॥ (१४।२)
sthaṇḍilasyopariṣṭācca bhittiraṣṭāṅgulā bhavet ||
नदीवालुकया शूर्पे लक्ष्म्याः प्रतिकृतिं न्यसेत् । (१५।१)
nadīvālukayā śūrpe lakṣmyāḥ pratikṛtiṃ nyaset |
स्थण्डिले शूर्पमारोप्य लक्ष्मीमित्यर्चयेद्बुधः ॥ (१५।२)
sthaṇḍile śūrpamāropya lakṣmīmityarcayedbudhaḥ ||
नमो देव्यै नमः शान्त्यै नमो लक्ष्म्यै नमः श्रियै । (१६।१)
namo devyai namaḥ śāntyai namo lakṣmyai namaḥ śriyai |
नमः पुष्ट्यै नमस्तुष्ट्यै वृष्ट्यै हृष्ट्यै नमो नमः ॥ (१६।२)
namaḥ puṣṭyai namastuṣṭyai vṛṣṭyai hṛṣṭyai namo namaḥ ||
विशोका चास्तु सम्पत्त्यै विशोका सर्वसिद्धये ॥ (१७।२)
viśokā cāstu sampattyai viśokā sarvasiddhaye ||
ततः शुक्लाम्बरैः शूर्पं वेष्ट्य सम्पूजयेत्फलैः । (१८।१)
tataḥ śuklāmbaraiḥ śūrpaṃ veṣṭya sampūjayetphalaiḥ |
वस्त्रैर्नानाविधैस्तद्वत्सुवर्णकमलेन च ॥ (१८।२)
vastrairnānāvidhaistadvatsuvarṇakamalena ca ||
यामत्रये व्यतीते तु सुप्त्वाप्युत्थाय मानवः । (२०।१)
yāmatraye vyatīte tu suptvāpyutthāya mānavaḥ |
अभिगम्य च विप्राणां मिथुनानि तदार्चयेत् ॥ (२०।२)
abhigamya ca viprāṇāṃ mithunāni tadārcayet ||
शक्तितस् त्रीणि चैकं वा वस्त्रमाल्यानुलेपनैः । (२१।१)
śaktitas trīṇi caikaṃ vā vastramālyānulepanaiḥ |
प्रभाते च ततः स्नानं कृत्वा दाम्पत्यमर्चयेत् ॥ (२२।२)
prabhāte ca tataḥ snānaṃ kṛtvā dāmpatyamarcayet ||
भोजनं च यथाशक्त्या वित्तशाठ्यविवर्जितः । (२३।१)
bhojanaṃ ca yathāśaktyā vittaśāṭhyavivarjitaḥ |
भुक्त्वा श्रुत्वा पुराणानि तद्दिनं चातिवाहयेत् ॥ (२३।२)
bhuktvā śrutvā purāṇāni taddinaṃ cātivāhayet ||
यथा न लक्ष्मीर्देवेश त्वां परित्यज्य गच्छति । (२५।१)
yathā na lakṣmīrdeveśa tvāṃ parityajya gacchati |
यथा देवेन रहिता न लक्ष्मीर्जायते क्वचित् । (२६।१)
yathā devena rahitā na lakṣmīrjāyate kvacit |
तथा विशोकता मेऽस्तु भक्तिरग्र्या च केशवे ॥ (२६।२)
tathā viśokatā me'stu bhaktiragryā ca keśave ||
शूर्पं च लक्ष्म्या सहितं दातव्यं भूतिमिच्छता ॥ (२७।२)
śūrpaṃ ca lakṣmyā sahitaṃ dātavyaṃ bhūtimicchatā ||
कदम्बं कुब्जकं जातिः शस्तान्येतानि सर्वदा ॥ (२८।३)
kadambaṃ kubjakaṃ jātiḥ śastānyetāni sarvadā ||
Data courtesy of The Digital Corpus of Sanskrit.