मत्स्यपुराणMatsyapurāṇa

MPur, 55

54 of 175 · 68 verses

Select a line for its word-by-word analysis.

1.1१.१

नारद उवाच । (१।१)

nārada uvāca

1.2१.२

उपवासेष्वशक्तस्य तदेव फलमिच्छतः । (१।२)

upavāseṣvaśaktasya tadeva phalamicchataḥ |

1.3१.३

अनभ्यासेन रोगाद्वा किमिष्टं व्रतमुत्तमम् ॥ (१।३)

anabhyāsena rogādvā kimiṣṭaṃ vratamuttamam ||

2.1२.१

ईश्वर उवाच । (२।१)

īśvara uvāca

2.2२.२

उपवासे ऽप्यशक्तानां नक्तं भोजनमिष्यते । (२।२)

upavāse 'pyaśaktānāṃ naktaṃ bhojanamiṣyate |

2.3२.३

यस्मिन्व्रते तदप्यत्र श्रूयतामक्षयं महत् ॥ (२।३)

yasminvrate tadapyatra śrūyatāmakṣayaṃ mahat ||

3.1३.१

आदित्यशयनं नाम यथावच्छंकरार्चनम् । (३।१)

ādityaśayanaṃ nāma yathāvacchaṃkarārcanam |

3.2३.२

येषु नक्षत्रयोगेषु पुराणज्ञाः प्रचक्षते ॥ (३।२)

yeṣu nakṣatrayogeṣu purāṇajñāḥ pracakṣate ||

4.1४.१

यदा हस्तेन सप्तम्यामादित्यस्य दिनं भवेत् । (४।१)

yadā hastena saptamyāmādityasya dinaṃ bhavet |

4.2४.२

सूर्यस्य चाथ संक्रान्तिस्तिथिः सा सार्वकामिकी ॥ (४।२)

sūryasya cātha saṃkrāntistithiḥ sā sārvakāmikī ||

5.1५.१

उमामहेश्वरस्यार्चामर्चयेत्सूर्यनामभिः । (५।१)

umāmaheśvarasyārcāmarcayetsūryanāmabhiḥ |

5.2५.२

सूर्यार्चां शिवलिङ्गे च प्रकुर्वन् पूजयेद्यतः ॥ (५।२)

sūryārcāṃ śivaliṅge ca prakurvan pūjayedyataḥ ||

6.1६.१

उमापते रवेर्वापि न भेदो दृश्यते क्वचित् । (६।१)

umāpate ravervāpi na bhedo dṛśyate kvacit |

6.2६.२

यस्मात्तस्मान्मुनिश्रेष्ठ गृहे शम्भुं समर्चयेत् ॥ (६।२)

yasmāttasmānmuniśreṣṭha gṛhe śambhuṃ samarcayet ||

7.1७.१

हस्ते च सूर्याय नमोऽस्तु पादावर्काय चित्रासु च गुल्फदेशम् । (७।१)

haste ca sūryāya namo'stu pādāvarkāya citrāsu ca gulphadeśam |

7.2७.२

स्वातीषु जङ्घे पुरुषोत्तमाय धात्रे विशाखासु च जानुदेशम् ॥ (७।२)

svātīṣu jaṅghe puruṣottamāya dhātre viśākhāsu ca jānudeśam ||

8.1८.१

तथानुराधासु नमोऽभिपूज्यमूरुद्वयं चैव सहस्रभानोः । (८।१)

tathānurādhāsu namo'bhipūjyamūrudvayaṃ caiva sahasrabhānoḥ |

8.2८.२

ज्येष्ठास्वनङ्गाय नमोऽस्तु गुह्यमिन्द्राय सोमाय कटी च मूले ॥ (८।२)

jyeṣṭhāsvanaṅgāya namo'stu guhyamindrāya somāya kaṭī ca mūle ||

9.1९.१

पूर्वोत्तराषाढयुगे च नाभिं त्वष्ट्रे नमः सप्ततरंगमाय । (९।१)

pūrvottarāṣāḍhayuge ca nābhiṃ tvaṣṭre namaḥ saptataraṃgamāya |

9.2९.२

तीक्ष्णांशवे च श्रवणे च कुक्षौ पृष्ठं धनिष्ठासु विकर्तनाय ॥ (९।२)

tīkṣṇāṃśave ca śravaṇe ca kukṣau pṛṣṭhaṃ dhaniṣṭhāsu vikartanāya ||

10.1१०.१

चक्षुःस्थलं ध्वान्तविनाशनाय जलाधिपर्क्षे परिपूजनीयम् । (१०।१)

cakṣuḥsthalaṃ dhvāntavināśanāya jalādhiparkṣe paripūjanīyam |

10.2१०.२

पूर्वोत्तराभाद्रपदाद्वये च बाहू नमश्चण्डकराय पूज्यौ ॥ (१०।२)

pūrvottarābhādrapadādvaye ca bāhū namaścaṇḍakarāya pūjyau ||

11.1११.१

साम्नामधीशाय करद्वयं च संपूजनीयं द्विज रेवतीषु । (११।१)

sāmnāmadhīśāya karadvayaṃ ca saṃpūjanīyaṃ dvija revatīṣu |

11.2११.२

नखानि पूज्यानि तथाश्विनीषु नमोऽस्तु सप्ताश्वधुरंधराय ॥ (११।२)

nakhāni pūjyāni tathāśvinīṣu namo'stu saptāśvadhuraṃdharāya ||

12.1१२.१

कठोरधाम्ने भरणीषु कण्ठं दिवाकरायेत्यभिपूजनीया । (१२।१)

kaṭhoradhāmne bharaṇīṣu kaṇṭhaṃ divākarāyetyabhipūjanīyā |

12.2१२.२

ग्रीवाग्निऋक्षे ऽधरमम्बुजेशे सम्पूजयेन्नारद रोहिणीषु ॥ (१२।२)

grīvāgniṛkṣe 'dharamambujeśe sampūjayennārada rohiṇīṣu ||

13.1१३.१

मृगोत्तमाङ्गे दशना मुरारेः संपूजनीया हरये नमस्ते । (१३।१)

mṛgottamāṅge daśanā murāreḥ saṃpūjanīyā haraye namaste |

13.2१३.२

नमः सवित्रे रसनां शंकरे च नासाभिपूज्या च पुनर्वसौ च ॥ (१३।२)

namaḥ savitre rasanāṃ śaṃkare ca nāsābhipūjyā ca punarvasau ca ||

14.1१४.१

ललाटमम्भोरुहवल्लभाय पुष्येऽलका वेदशरीरधारिणे । (१४।१)

lalāṭamambhoruhavallabhāya puṣye'lakā vedaśarīradhāriṇe |

14.2१४.२

सार्पेऽथ मौलिं विबुधप्रियाय मघासु कर्णाविति गोगणेशे ॥ (१४।२)

sārpe'tha mauliṃ vibudhapriyāya maghāsu karṇāviti gogaṇeśe ||

15.1१५.१

पूर्वासु गोब्राह्मणवन्दनाय नेत्राणि संपूज्यतमानि शम्भोः । (१५।१)

pūrvāsu gobrāhmaṇavandanāya netrāṇi saṃpūjyatamāni śambhoḥ |

15.2१५.२

अथोत्तराफल्गुनिभे भ्रुवौ च विश्वेश्वरायेति च पूजनीये ॥ (१५।२)

athottarāphalgunibhe bhruvau ca viśveśvarāyeti ca pūjanīye ||

16.1१६.१

नमोऽस्तु पाशाङ्कुशशूलपद्मकपालसर्पेन्दुधनुर्धराय । (१६।१)

namo'stu pāśāṅkuśaśūlapadmakapālasarpendudhanurdharāya |

16.2१६.२

गजासुरानङ्गपुरान्धकादिविनाशमूलाय नमः शिवाय ॥ (१६।२)

gajāsurānaṅgapurāndhakādivināśamūlāya namaḥ śivāya ||

17.1१७.१

इत्यादि चास्त्राणि च पूज्य नित्यं विश्वेश्वरायेति शिवोऽभिपूज्यः । (१७।१)

ityādi cāstrāṇi ca pūjya nityaṃ viśveśvarāyeti śivo'bhipūjyaḥ |

17.2१७.२

भोक्तव्यमत्रैवमतैलशाकममांसमक्षारमभुक्तशेषम् ॥ (१७।२)

bhoktavyamatraivamatailaśākamamāṃsamakṣāramabhuktaśeṣam ||

18.1१८.१

इत्येवं द्विज नक्तानि कृत्वा दद्यात् पुनर्वसौ । (१८।१)

ityevaṃ dvija naktāni kṛtvā dadyāt punarvasau |

18.2१८.२

शालेयतण्डुलप्रस्थमौदुम्बरमये घृतम् ॥ (१८।२)

śāleyataṇḍulaprasthamaudumbaramaye ghṛtam ||

19.1१९.१

संस्थाप्य पात्रे विप्राय सहिरण्यं निवेदयेत् । (१९।१)

saṃsthāpya pātre viprāya sahiraṇyaṃ nivedayet |

19.2१९.२

सप्तमे वस्त्रयुग्मं च पारणे त्वधिकं भवेत् ॥ (१९।२)

saptame vastrayugmaṃ ca pāraṇe tvadhikaṃ bhavet ||

20.1२०.१

चतुर्दशे तु सम्प्राप्ते पारणे नारदाब्दिके । (२०।१)

caturdaśe tu samprāpte pāraṇe nāradābdike |

20.2२०.२

ब्राह्मणान्भोजयेद्भक्त्या गुडक्षीरघृतादिभिः ॥ (२०।२)

brāhmaṇānbhojayedbhaktyā guḍakṣīraghṛtādibhiḥ ||

21.1२१.१

कृत्वा तु काञ्चनं पद्ममष्टपत्त्रं सकर्णिकम् । (२१।१)

kṛtvā tu kāñcanaṃ padmamaṣṭapattraṃ sakarṇikam |

21.2२१.२

शुद्धमष्टाङ्गुलं तच्च पद्मरागदलान्वितम् ॥ (२१।२)

śuddhamaṣṭāṅgulaṃ tacca padmarāgadalānvitam ||

22.1२२.१

शय्यां विलक्षणां कृत्वा विरुद्धग्रन्थिवर्जिताम् । (२२।१)

śayyāṃ vilakṣaṇāṃ kṛtvā viruddhagranthivarjitām |

22.2२२.२

सोपधानकविश्रामस्वास्तरव्यजनानि च ॥ (२२।२)

sopadhānakaviśrāmasvāstaravyajanāni ca ||

23.1२३.१

भाजनोपानहछत्त्रचामरासनदर्पणैः । (२३।१)

bhājanopānahachattracāmarāsanadarpaṇaiḥ |

23.2२३.२

भूषणैरपि संयुक्तां फलवस्त्रानुलेपनैः ॥ (२३।२)

bhūṣaṇairapi saṃyuktāṃ phalavastrānulepanaiḥ ||

24.1२४.१

तस्यां विधाय तत्पद्ममलंकृत्य गुणान्वितम् । (२४।१)

tasyāṃ vidhāya tatpadmamalaṃkṛtya guṇānvitam |

24.2२४.२

कपिलां वस्त्रसंयुक्तां सुशीलां च पयस्विनीम् ॥ (२४।२)

kapilāṃ vastrasaṃyuktāṃ suśīlāṃ ca payasvinīm ||

25.1२५.१

रौप्यखुरीं हेमशृङ्गीं सवत्सां कांस्यदोहनाम् । (२५।१)

raupyakhurīṃ hemaśṛṅgīṃ savatsāṃ kāṃsyadohanām |

25.2२५.२

दद्यान्मन्त्रेण पूर्वाह्णे न चैनामभिलङ्घयेत् ॥ (२५।२)

dadyānmantreṇa pūrvāhṇe na caināmabhilaṅghayet ||

26.1२६.१

यथैवादित्यशयनमशून्यं तव सर्वदा । (२६।१)

yathaivādityaśayanamaśūnyaṃ tava sarvadā |

26.2२६.२

कान्त्या धृत्या श्रिया रत्या तथा मे सन्तु सिद्धयः ॥ (२६।२)

kāntyā dhṛtyā śriyā ratyā tathā me santu siddhayaḥ ||

27.1२७.१

यथा न देवाः श्रेयांसं त्वदन्यमनघं विदुः । (२७।१)

yathā na devāḥ śreyāṃsaṃ tvadanyamanaghaṃ viduḥ |

27.2२७.२

तथा माम् उद्धराशेषदुःखसंसारसागरात् ॥ (२७।२)

tathā mām uddharāśeṣaduḥkhasaṃsārasāgarāt ||

28.1२८.१

ततः प्रदक्षिणीकृत्य प्रणिपत्य विसर्जयेत् । (२८।१)

tataḥ pradakṣiṇīkṛtya praṇipatya visarjayet |

28.2२८.२

शय्यागवादि तत्सर्वं द्विजस्य भवनं नयेत् ॥ (२८।२)

śayyāgavādi tatsarvaṃ dvijasya bhavanaṃ nayet ||

29.1२९.१

नैतद्विशीलाय न दाम्भिकाय कुतर्कदुष्टाय विनिन्दकाय । (२९।१)

naitadviśīlāya na dāmbhikāya kutarkaduṣṭāya vinindakāya |

29.2२९.२

प्रकाशनीयं व्रतमिन्दुमौलेर्यश्चापि निन्दामधिकां विधत्ते ॥ (२९।२)

prakāśanīyaṃ vratamindumauleryaścāpi nindāmadhikāṃ vidhatte ||

30.1३०.१

भक्ताय दान्ताय च गुह्यमेतदाख्येयम् आनन्दकरं शिवस्य । (३०।१)

bhaktāya dāntāya ca guhyametadākhyeyam ānandakaraṃ śivasya |

30.2३०.२

इदं महापातकभिन् नराणाम् अप्यक्षरं वेदविदो वदन्ति ॥ (३०।२)

idaṃ mahāpātakabhin narāṇām apyakṣaraṃ vedavido vadanti ||

31.1३१.१

न बन्धुपुत्रेण धनैर्वियुक्तः पत्नीभिरानन्दकरः सुराणाम् । (३१।१)

na bandhuputreṇa dhanairviyuktaḥ patnībhirānandakaraḥ surāṇām |

31.2३१.२

नाभ्येति रोगं न च शोकदुःखं या वाथ नारी कुरुतेऽतिभक्त्या ॥ (३१।२)

nābhyeti rogaṃ na ca śokaduḥkhaṃ yā vātha nārī kurute'tibhaktyā ||

32.1३२.१

इदं वसिष्ठेन पुरार्जुनेन कृतं कुबेरेण पुरंदरेण । (३२।१)

idaṃ vasiṣṭhena purārjunena kṛtaṃ kubereṇa puraṃdareṇa |

32.2३२.२

यत्कीर्तनेनाप्यखिलानि नाशमायान्ति पापानि न संशयोऽस्ति ॥ (३२।२)

yatkīrtanenāpyakhilāni nāśamāyānti pāpāni na saṃśayo'sti ||

33.1३३.१

इति पठति शृणोति वा य इत्थं रविशयनं पुरुहूतवल्लभः स्यात् । (३३।१)

iti paṭhati śṛṇoti vā ya itthaṃ raviśayanaṃ puruhūtavallabhaḥ syāt |

33.2३३.२

अपि नरकगतान्पितॄन् अशेषानपि दिवमानयतीह यः करोति ॥ (३३।२)

api narakagatānpitṝn aśeṣānapi divamānayatīha yaḥ karoti ||

Data courtesy of The Digital Corpus of Sanskrit.

MPur, 55

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit