मत्स्यपुराणMatsyapurāṇa

MPur, 58

57 of 175 · 124 verses

Select a line for its word-by-word analysis.

1.1१.१

सूत उवाच । (१।१)

sūta uvāca

1.2१.२

जलाशयगतं विष्णुमुवाच रविनन्दनः । (१।२)

jalāśayagataṃ viṣṇumuvāca ravinandanaḥ |

1.3१.३

तडागारामकूपानां वापीषु नलिनीषु च ॥ (१।३)

taḍāgārāmakūpānāṃ vāpīṣu nalinīṣu ca ||

2.1२.१

विधिं पृच्छामि देवेशे देवतायतनेषु च । (२।१)

vidhiṃ pṛcchāmi deveśe devatāyataneṣu ca |

2.2२.२

के तत्र चर्त्विजो नाथ वेदी वा कीदृशी भवेत् ॥ (२।२)

ke tatra cartvijo nātha vedī vā kīdṛśī bhavet ||

3.1३.१

दक्षिणावलयः कालः स्थानमाचार्य एव च । (३।१)

dakṣiṇāvalayaḥ kālaḥ sthānamācārya eva ca |

3.2३.२

द्रव्याणि कानि शस्तानि सर्वमाचक्ष्व तत्त्वतः ॥ (३।२)

dravyāṇi kāni śastāni sarvamācakṣva tattvataḥ ||

4.1४.१

मत्स्य उवाच । (४।१)

matsya uvāca

4.2४.२

शृणु राजन् महाबाहो तडागादिषु यो विधिः । (४।२)

śṛṇu rājan mahābāho taḍāgādiṣu yo vidhiḥ |

4.3४.३

पुराणेष्वितिहासोऽयं पठ्यते वेदवादिभिः ॥ (४।३)

purāṇeṣvitihāso'yaṃ paṭhyate vedavādibhiḥ ||

5.1५.१

प्राप्य पक्षं शुभं शुक्लमतीते चोत्तरायणे । (५।१)

prāpya pakṣaṃ śubhaṃ śuklamatīte cottarāyaṇe |

5.2५.२

पुण्येऽह्नि विप्रकथिते कृत्वा ब्राह्मणवाचनम् ॥ (५।२)

puṇye'hni viprakathite kṛtvā brāhmaṇavācanam ||

6.1६.१

प्रागुदक्प्रवणे देशे तडागस्य समीपतः । (६।१)

prāgudakpravaṇe deśe taḍāgasya samīpataḥ |

6.2६.२

चतुर्हस्तां शुभां वेदीं चतुरस्रां चतुर्मुखाम् ॥ (६।२)

caturhastāṃ śubhāṃ vedīṃ caturasrāṃ caturmukhām ||

7.1७.१

तथा षोडशहस्तः स्यान्मण्डपश्च चतुर्मुखः । (७।१)

tathā ṣoḍaśahastaḥ syānmaṇḍapaśca caturmukhaḥ |

7.2७.२

वेद्याश्च परितो गर्ता रत्निमात्रास्त्रिमेखलाः ॥ (७।२)

vedyāśca parito gartā ratnimātrāstrimekhalāḥ ||

8.1८.१

नव सप्ताथ वा पञ्च नातिरिक्ता नृपात्मज । (८।१)

nava saptātha vā pañca nātiriktā nṛpātmaja |

8.2८.२

वितस्तिमात्रा योनिः स्यात्षट्सप्ताङ्गुलिविस्तृता ॥ (८।२)

vitastimātrā yoniḥ syātṣaṭsaptāṅgulivistṛtā ||

9.1९.१

गर्ताश्च तत्र सप्त स्युस्त्रिपर्वोच्छ्रितमेखलाः । (९।१)

gartāśca tatra sapta syustriparvocchritamekhalāḥ |

9.2९.२

सर्वतस्तु सवर्णाः स्युः पताकाध्वजसंयुताः ॥ (९।२)

sarvatastu savarṇāḥ syuḥ patākādhvajasaṃyutāḥ ||

10.1१०.१

अश्वत्थोदुम्बरप्लक्षवटशाखाकृतानि तु । (१०।१)

aśvatthodumbaraplakṣavaṭaśākhākṛtāni tu |

10.2१०.२

मण्डपस्य प्रतिदिशं द्वाराण्येतानि कारयेत् ॥ (१०।२)

maṇḍapasya pratidiśaṃ dvārāṇyetāni kārayet ||

11.1११.१

शुभास्तत्राष्ट होतारो द्वारपालास्तथाष्ट वै । (११।१)

śubhāstatrāṣṭa hotāro dvārapālāstathāṣṭa vai |

11.2११.२

अष्टौ तु जापकाः कार्या ब्राह्मणा वेदपारगाः ॥ (११।२)

aṣṭau tu jāpakāḥ kāryā brāhmaṇā vedapāragāḥ ||

12.1१२.१

सर्वलक्षणसम्पूर्णो मन्त्रविद्विजितेन्द्रियः । (१२।१)

sarvalakṣaṇasampūrṇo mantravidvijitendriyaḥ |

12.2१२.२

कुलशीलसमायुक्तः पुरोधाः स्याद्द्विजोत्तमः ॥ (१२।२)

kulaśīlasamāyuktaḥ purodhāḥ syāddvijottamaḥ ||

13.1१३.१

प्रतिगर्तेषु कलशी यज्ञोपकरणानि च । (१३।१)

pratigarteṣu kalaśī yajñopakaraṇāni ca |

13.2१३.२

व्यजनं चामरे शुभ्रे ताम्रपात्रे सुविस्तृते ॥ (१३।२)

vyajanaṃ cāmare śubhre tāmrapātre suvistṛte ||

14.1१४.१

ततस्त्वनेकवर्णाः स्युश्चरवः प्रतिदैवतम् । (१४।१)

tatastvanekavarṇāḥ syuścaravaḥ pratidaivatam |

14.2१४.२

आचार्यः प्रक्षिपेद्भूमावनुमन्त्र्य विचक्षणः ॥ (१४।२)

ācāryaḥ prakṣipedbhūmāvanumantrya vicakṣaṇaḥ ||

15.1१५.१

त्र्यरत्निमात्रो यूपः स्यात्क्षारवृक्षविनिर्मितः । (१५।१)

tryaratnimātro yūpaḥ syātkṣāravṛkṣavinirmitaḥ |

15.2१५.२

यजमानप्रमाणो वा संस्थाप्यो भूतिमिच्छता ॥ (१५।२)

yajamānapramāṇo vā saṃsthāpyo bhūtimicchatā ||

16.1१६.१

हेमालंकारिणः कार्याः पञ्चविंशतिऋत्विजः । (१६।१)

hemālaṃkāriṇaḥ kāryāḥ pañcaviṃśatiṛtvijaḥ |

16.2१६.२

कुण्डलानि च हैमानि केयूरकटकानि च ॥ (१६।२)

kuṇḍalāni ca haimāni keyūrakaṭakāni ca ||

17.1१७.१

तथाङ्गुल्यः पवित्राणि वासांसि विविधानि च । (१७।१)

tathāṅgulyaḥ pavitrāṇi vāsāṃsi vividhāni ca |

17.2१७.२

पूजयेत्तु समं सर्वानाचार्यो द्विगुणं पुनः । (१७।२)

pūjayettu samaṃ sarvānācāryo dviguṇaṃ punaḥ |

17.3१७.३

दद्याच्छयनसंयुक्तमात्मनश्चापि यत्प्रियम् ॥ (१७।३)

dadyācchayanasaṃyuktamātmanaścāpi yatpriyam ||

18.1१८.१

सौवर्णकूर्ममकरौ राजतौ मत्स्यदुन्दुभौ । (१८।१)

sauvarṇakūrmamakarau rājatau matsyadundubhau |

18.2१८.२

ताम्रौ कुलीरमण्डूकावायसः शिशुमारकः । (१८।२)

tāmrau kulīramaṇḍūkāvāyasaḥ śiśumārakaḥ |

18.3१८.३

एवमासाद्य तत्सर्वमादावेव विशां पते ॥ (१८।३)

evamāsādya tatsarvamādāveva viśāṃ pate ||

19.1१९.१

शुक्लमाल्याम्बरधरः शुक्लगन्धानुलेपनः । (१९।१)

śuklamālyāmbaradharaḥ śuklagandhānulepanaḥ |

19.2१९.२

सर्वौषध्युदकैस्तत्र स्नापितो वेदपारगैः ॥ (१९।२)

sarvauṣadhyudakaistatra snāpito vedapāragaiḥ ||

20.1२०.१

यजमानः सपत्नीकः पुत्रपौत्रसमन्वितः । (२०।१)

yajamānaḥ sapatnīkaḥ putrapautrasamanvitaḥ |

20.2२०.२

पश्चिमं द्वारमासाद्य प्रविशेद्यागमण्डपम् ॥ (२०।२)

paścimaṃ dvāramāsādya praviśedyāgamaṇḍapam ||

21.1२१.१

ततो मङ्गलशब्देन भेरीणां निःस्वनेन च । (२१।१)

tato maṅgalaśabdena bherīṇāṃ niḥsvanena ca |

21.2२१.२

अञ्जसा मण्डलं कुर्यात्पञ्चवर्णेन तत्त्ववित् ॥ (२१।२)

añjasā maṇḍalaṃ kuryātpañcavarṇena tattvavit ||

22.1२२.१

षोडशारं ततश्चक्रं पद्मगर्भं चतुर्मुखम् । (२२।१)

ṣoḍaśāraṃ tataścakraṃ padmagarbhaṃ caturmukham |

22.2२२.२

चतुरस्रं च परितो वृत्तं मध्ये सुशोभनम् ॥ (२२।२)

caturasraṃ ca parito vṛttaṃ madhye suśobhanam ||

23.1२३.१

वेद्याश्चोपरि तत्कृत्वा ग्रहांल्लोकपतींस्ततः । (२३।१)

vedyāścopari tatkṛtvā grahāṃllokapatīṃstataḥ |

23.2२३.२

विन्यसेन्मन्त्रतः सर्वान् प्रतिदिक्षु विचक्षणः ॥ (२३।२)

vinyasenmantrataḥ sarvān pratidikṣu vicakṣaṇaḥ ||

24.1२४.१

कूर्मादि स्थापयेन्मध्ये वारुणं मन्त्रमाश्रितः । (२४।१)

kūrmādi sthāpayenmadhye vāruṇaṃ mantramāśritaḥ |

24.2२४.२

ब्रह्माणं च शिवं विष्णुं तत्रैव स्थापयेद्बुधः ॥ (२४।२)

brahmāṇaṃ ca śivaṃ viṣṇuṃ tatraiva sthāpayedbudhaḥ ||

25.1२५.१

विनायकं च विन्यस्य कमलामम्बिकां तथा । (२५।१)

vināyakaṃ ca vinyasya kamalāmambikāṃ tathā |

25.2२५.२

शान्त्यर्थं सर्वलोकानां भूतग्रामं न्यसेत्ततः ॥ (२५।२)

śāntyarthaṃ sarvalokānāṃ bhūtagrāmaṃ nyasettataḥ ||

26.1२६.१

पुष्पभक्ष्यफलैर्युक्तमेवं कृत्वाधिवासनम् । (२६।१)

puṣpabhakṣyaphalairyuktamevaṃ kṛtvādhivāsanam |

26.2२६.२

कुम्भान् सजलगर्भांस्तान्वासोभिः परिवेष्टयेत् ॥ (२६।२)

kumbhān sajalagarbhāṃstānvāsobhiḥ pariveṣṭayet ||

27.1२७.१

पुष्पगन्धैरलंकृत्य द्वारपालान्समन्ततः । (२७।१)

puṣpagandhairalaṃkṛtya dvārapālānsamantataḥ |

27.2२७.२

पठध्वमिति तान्ब्रूयादाचार्यस्त्वभिपूजयेत् ॥ (२७।२)

paṭhadhvamiti tānbrūyādācāryastvabhipūjayet ||

28.1२८.१

बह्वृचौ पूर्वतः स्थाप्यौ दक्षिणेन यजुर्विदौ । (२८।१)

bahvṛcau pūrvataḥ sthāpyau dakṣiṇena yajurvidau |

28.2२८.२

सामगौ पश्चिमे तद्वदुत्तरेण त्वथर्वणौ ॥ (२८।२)

sāmagau paścime tadvaduttareṇa tvatharvaṇau ||

29.1२९.१

उदङ्मुखो दक्षिणतो यजमान उपाविशेत् । (२९।१)

udaṅmukho dakṣiṇato yajamāna upāviśet |

29.2२९.२

यजध्वमिति तान्ब्रूयाद्धौत्रिकान्पुनरेव तु ॥ (२९।२)

yajadhvamiti tānbrūyāddhautrikānpunareva tu ||

30.1३०.१

उत्कृष्टान्मन्त्रजापेन तिष्ठध्वमिति जापकान् । (३०।१)

utkṛṣṭānmantrajāpena tiṣṭhadhvamiti jāpakān |

30.2३०.२

एवमादिश्य तान्सर्वान्पर्युक्ष्याग्निं स मन्त्रवित् ॥ (३०।२)

evamādiśya tānsarvānparyukṣyāgniṃ sa mantravit ||

31.1३१.१

जुहुयाद्वारुणैर्मन्त्रैराज्यं च समिधस्तथा । (३१।१)

juhuyādvāruṇairmantrairājyaṃ ca samidhastathā |

31.2३१.२

ऋत्विग्भिश्चाथ होतव्यं वारुणैरेव सर्वतः ॥ (३१।२)

ṛtvigbhiścātha hotavyaṃ vāruṇaireva sarvataḥ ||

32.1३२.१

ग्रहेभ्यो विधिवद्धुत्वा तथेन्द्रायेश्वराय च । (३२।१)

grahebhyo vidhivaddhutvā tathendrāyeśvarāya ca |

32.2३२.२

मरुद्भ्यो लोकपालेभ्यो विधिवद्विश्वकर्मणे ॥ (३२।२)

marudbhyo lokapālebhyo vidhivadviśvakarmaṇe ||

33.1३३.१

रात्रिसूक्तं च रौद्रं च पावमानं सुमङ्गलम् । (३३।१)

rātrisūktaṃ ca raudraṃ ca pāvamānaṃ sumaṅgalam |

33.2३३.२

जपेयुः पौरुषं सूक्तं पूर्वतो बह्वृचः पृथक् ॥ (३३।२)

japeyuḥ pauruṣaṃ sūktaṃ pūrvato bahvṛcaḥ pṛthak ||

34.1३४.१

शाक्रं रौद्रं च सौम्यं च कूष्माण्डं जातवेदसम् । (३४।१)

śākraṃ raudraṃ ca saumyaṃ ca kūṣmāṇḍaṃ jātavedasam |

34.2३४.२

सौरसूक्तं जपेन्मन्त्रं दक्षिणेन यजुर्विदः ॥ (३४।२)

saurasūktaṃ japenmantraṃ dakṣiṇena yajurvidaḥ ||

35.1३५.१

वैराज्यं पौरुषं सूक्तं सौवर्णं रुद्रसंहिताम् । (३५।१)

vairājyaṃ pauruṣaṃ sūktaṃ sauvarṇaṃ rudrasaṃhitām |

35.2३५.२

शैशवं पञ्चनिधनं गायत्रं ज्येष्ठसाम च ॥ (३५।२)

śaiśavaṃ pañcanidhanaṃ gāyatraṃ jyeṣṭhasāma ca ||

36.1३६.१

वामदेव्यं बृहत्साम रौरवं सरथंतरम् । (३६।१)

vāmadevyaṃ bṛhatsāma rauravaṃ sarathaṃtaram |

36.2३६.२

गवां व्रतं च काण्वं च रक्षोघ्नं वयसस्तथा । (३६।२)

gavāṃ vrataṃ ca kāṇvaṃ ca rakṣoghnaṃ vayasastathā |

36.3३६.३

गायेयुः सामगा राजन्पश्चिमं द्वारमाश्रिताः ॥ (३६।३)

gāyeyuḥ sāmagā rājanpaścimaṃ dvāramāśritāḥ ||

37.1३७.१

अथर्वणश्चोत्तरतः शान्तिकं पौष्टिकं तथा । (३७।१)

atharvaṇaścottarataḥ śāntikaṃ pauṣṭikaṃ tathā |

37.2३७.२

जपेयुर्मनसा देवमाश्रित्य वरुणं प्रभुम् ॥ (३७।२)

japeyurmanasā devamāśritya varuṇaṃ prabhum ||

38.1३८.१

पूर्वेद्युरमितो रात्रावेवं कृत्वाधिवासनम् । (३८।१)

pūrvedyuramito rātrāvevaṃ kṛtvādhivāsanam |

38.2३८.२

गजाश्वरथ्यावल्मीकात्संगमाद्ध्रदगोकुलात् । (३८।२)

gajāśvarathyāvalmīkātsaṃgamāddhradagokulāt |

38.3३८.३

मृदमादाय कुम्भेषु प्रक्षिपेच्चत्वरात्तथा ॥ (३८।३)

mṛdamādāya kumbheṣu prakṣipeccatvarāttathā ||

39.1३९.१

रोचनां च ससिद्धार्थां गन्धं गुग्गुलमेव च । (३९।१)

rocanāṃ ca sasiddhārthāṃ gandhaṃ guggulameva ca |

39.2३९.२

स्नपनं तस्य कर्तव्यं पञ्चगव्यसमन्वितम् ॥ (३९।२)

snapanaṃ tasya kartavyaṃ pañcagavyasamanvitam ||

40.1४०.१

प्रत्येकं तु महामन्त्रैर् एव कृत्वा विधानतः । (४०।१)

pratyekaṃ tu mahāmantrair eva kṛtvā vidhānataḥ |

40.2४०.२

एवं क्षपातिवाह्याथ विधियुक्तेन कर्मणा ॥ (४०।२)

evaṃ kṣapātivāhyātha vidhiyuktena karmaṇā ||

41.1४१.१

ततः प्रभाते विमले संजातेऽथ शतं गवाम् । (४१।१)

tataḥ prabhāte vimale saṃjāte'tha śataṃ gavām |

41.2४१.२

ब्राह्मणेभ्यः प्रदातव्यमष्टषष्टिश्च वा पुनः । (४१।२)

brāhmaṇebhyaḥ pradātavyamaṣṭaṣaṣṭiśca vā punaḥ |

41.3४१.३

पञ्चाशद्वाथ षट्त्रिंशत्पञ्चविंशतिरप्यथ ॥ (४१।३)

pañcāśadvātha ṣaṭtriṃśatpañcaviṃśatirapyatha ||

42.1४२.१

ततः सांवत्सरप्रोक्ते शुभे लग्ने सुशोभने । (४२।१)

tataḥ sāṃvatsaraprokte śubhe lagne suśobhane |

42.2४२.२

वेदशब्दैश्च गान्धर्वैर्वाद्यैश्च विविधैः पुनः ॥ (४२।२)

vedaśabdaiśca gāndharvairvādyaiśca vividhaiḥ punaḥ ||

43.1४३.१

कनकालंकृतां कृत्वा जले गामवतारयेत् । (४३।१)

kanakālaṃkṛtāṃ kṛtvā jale gāmavatārayet |

43.2४३.२

सामगाय च सा देया ब्राह्मणाय विशां पते ॥ (४३।२)

sāmagāya ca sā deyā brāhmaṇāya viśāṃ pate ||

44.1४४.१

पात्रीमादाय सौवर्णीं पञ्चरत्नसमन्विताम् । (४४।१)

pātrīmādāya sauvarṇīṃ pañcaratnasamanvitām |

44.2४४.२

ततो निक्षिप्य मकरमत्स्यादींश्चैव सर्वशः । (४४।२)

tato nikṣipya makaramatsyādīṃścaiva sarvaśaḥ |

44.3४४.३

धृतां चतुर्विधैर् विप्रैर्वेदवेदाङ्गपारगैः ॥ (४४।३)

dhṛtāṃ caturvidhair viprairvedavedāṅgapāragaiḥ ||

45.1४५.१

महानदीजलोपेतां दध्यक्षतसमन्विताम् । (४५।१)

mahānadījalopetāṃ dadhyakṣatasamanvitām |

45.2४५.२

उत्तराभिमुखीं धेनुं जलमध्ये तु कारयेत् ॥ (४५।२)

uttarābhimukhīṃ dhenuṃ jalamadhye tu kārayet ||

46.1४६.१

अथर्वणेन संस्नातां पुनर्मामेत्यथेति च । (४६।१)

atharvaṇena saṃsnātāṃ punarmāmetyatheti ca |

46.2४६.२

आपो हि ष्ठेति मन्त्रेण क्षिप्त्वागत्य च मण्डपम् ॥ (४६।२)

āpo hi ṣṭheti mantreṇa kṣiptvāgatya ca maṇḍapam ||

47.1४७.१

पूजयित्वा सरस्तत्र बलिं दद्यात्समन्ततः । (४७।१)

pūjayitvā sarastatra baliṃ dadyātsamantataḥ |

47.2४७.२

पुनर्दिनानि होतव्यं चत्वारि मुनिसत्तमाः ॥ (४७।२)

punardināni hotavyaṃ catvāri munisattamāḥ ||

48.1४८.१

चतुर्थीकर्म कर्तव्यं देया तत्रापि शक्तितः । (४८।१)

caturthīkarma kartavyaṃ deyā tatrāpi śaktitaḥ |

48.2४८.२

दक्षिणा राजशार्दूल वरुणक्ष्मापणं ततः ॥ (४८।२)

dakṣiṇā rājaśārdūla varuṇakṣmāpaṇaṃ tataḥ ||

49.1४९.१

कृत्वा तु यज्ञपात्राणि यज्ञोपकरणानि च । (४९।१)

kṛtvā tu yajñapātrāṇi yajñopakaraṇāni ca |

49.2४९.२

ऋत्विग्भ्यस्तु समं दत्त्वा मण्डपं विभजेत्पुनः । (४९।२)

ṛtvigbhyastu samaṃ dattvā maṇḍapaṃ vibhajetpunaḥ |

49.3४९.३

हेमपात्रीं च शय्यां च स्थापकाय निवेदयेत् ॥ (४९।३)

hemapātrīṃ ca śayyāṃ ca sthāpakāya nivedayet ||

50.1५०.१

ततः सहस्रं विप्राणामथवाष्टशतं तथा । (५०।१)

tataḥ sahasraṃ viprāṇāmathavāṣṭaśataṃ tathā |

50.2५०.२

भोजनीयं यथाशक्ति पञ्चाशद्वाथ विंशतिः । (५०।२)

bhojanīyaṃ yathāśakti pañcāśadvātha viṃśatiḥ |

50.3५०.३

एवमेष पुराणेषु तडागविधिरुच्यते ॥ (५०।३)

evameṣa purāṇeṣu taḍāgavidhirucyate ||

51.1५१.१

कूपवापीषु सर्वासु तथा पुष्करीषु च । (५१।१)

kūpavāpīṣu sarvāsu tathā puṣkarīṣu ca |

51.2५१.२

एष एव विधिर्दृष्टः प्रतिष्ठासु तथैव च ॥ (५१।२)

eṣa eva vidhirdṛṣṭaḥ pratiṣṭhāsu tathaiva ca ||

52.1५२.१

मन्त्रतस्तु विशेषः स्यात्प्रासादाद्यानभूमिषु । (५२।१)

mantratastu viśeṣaḥ syātprāsādādyānabhūmiṣu |

52.2५२.२

अयं त्वशक्तावर्धेन विधिर्दृष्टः स्वयम्भुवा । (५२।२)

ayaṃ tvaśaktāvardhena vidhirdṛṣṭaḥ svayambhuvā |

52.3५२.३

अल्पेष्वेकाग्निवत्कृत्वा वित्तशाठ्यादृते नृणाम् ॥ (५२।३)

alpeṣvekāgnivatkṛtvā vittaśāṭhyādṛte nṛṇām ||

53.1५३.१

प्रावृट्काले स्थिते तोये ह्यग्निष्टोमफलं स्मृतम् । (५३।१)

prāvṛṭkāle sthite toye hyagniṣṭomaphalaṃ smṛtam |

53.2५३.२

शरत्काले स्थितं यत्स्यात्तदुक्तफलदायकम् । (५३।२)

śaratkāle sthitaṃ yatsyāttaduktaphaladāyakam |

53.3५३.३

वाजपेयातिरात्राभ्यां हेमन्ते शिशिरे स्थितम् ॥ (५३।३)

vājapeyātirātrābhyāṃ hemante śiśire sthitam ||

54.1५४.१

अश्वमेधसमं प्राहुर्वसन्तसमये स्थितम् । (५४।१)

aśvamedhasamaṃ prāhurvasantasamaye sthitam |

54.2५४.२

ग्रीष्मेऽपि तत्स्थितं तोयं राजसूयाद्विशिष्यते ॥ (५४।२)

grīṣme'pi tatsthitaṃ toyaṃ rājasūyādviśiṣyate ||

55.1५५.१

एतान् महाराज विशेषधर्मान्करोति योऽप्यागमशुद्धबुद्धिः । (५५।१)

etān mahārāja viśeṣadharmānkaroti yo'pyāgamaśuddhabuddhiḥ |

55.2५५.२

स याति रुद्रालयमाशु पूतः कल्पाननेकान्दिवि मोदते च ॥ (५५।२)

sa yāti rudrālayamāśu pūtaḥ kalpānanekāndivi modate ca ||

56.1५६.१

अनेकलोकान्स महत्तमादीन् भुक्त्वा परार्धद्वयमङ्गनाभिः । (५६।१)

anekalokānsa mahattamādīn bhuktvā parārdhadvayamaṅganābhiḥ |

56.2५६.२

सहैव विष्णोः परमं पदं यत्प्राप्नोति तद्यागफलेन भूयः ॥ (५६।२)

sahaiva viṣṇoḥ paramaṃ padaṃ yatprāpnoti tadyāgaphalena bhūyaḥ ||

Data courtesy of The Digital Corpus of Sanskrit.

MPur, 58

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit