मत्स्यपुराणMatsyapurāṇa

MPur, 17

16 of 175 · 144 verses

Select a line for its word-by-word analysis.

1.1१.१

सूत उवाच । (१।१)

sūta uvāca

1.2१.२

अतः परं प्रवक्ष्यामि विष्णुना यदुदीरितम् । (१।२)

ataḥ paraṃ pravakṣyāmi viṣṇunā yadudīritam |

1.3१.३

श्राद्धं साधारणं नाम भुक्तिमुक्तिफलप्रदम् ॥ (१।३)

śrāddhaṃ sādhāraṇaṃ nāma bhuktimuktiphalapradam ||

2.1२.१

अयने विषुवे युग्मे सामान्ये चार्कसंक्रमे । (२।१)

ayane viṣuve yugme sāmānye cārkasaṃkrame |

2.2२.२

अमावास्याष्टकाकृष्णपक्षे पञ्चदशीषु च ॥ (२।२)

amāvāsyāṣṭakākṛṣṇapakṣe pañcadaśīṣu ca ||

3.1३.१

आर्द्रामघारोहिणीषु द्रव्यब्राह्मणसंगमे । (३।१)

ārdrāmaghārohiṇīṣu dravyabrāhmaṇasaṃgame |

3.2३.२

गजच्छायाव्यतीपाते विष्टिवैधृतिवासरे ॥ (३।२)

gajacchāyāvyatīpāte viṣṭivaidhṛtivāsare ||

4.1४.१

वैशाखस्य तृतीयायां नवमी कार्त्तिकस्य च । (४।१)

vaiśākhasya tṛtīyāyāṃ navamī kārttikasya ca |

4.2४.२

पञ्चदशी च माघस्य नभस्ये च त्रयोदशी ॥ (४।२)

pañcadaśī ca māghasya nabhasye ca trayodaśī ||

5.1५.१

युगादयः स्मृता ह्य् एता दत्तस्याक्षय्यकारिकाः । (५।१)

yugādayaḥ smṛtā hy etā dattasyākṣayyakārikāḥ |

5.2५.२

तथा मन्वन्तरादौ च देयं श्राद्धं विजानता ॥ (५।२)

tathā manvantarādau ca deyaṃ śrāddhaṃ vijānatā ||

6.1६.१

अश्वयुक्छुक्लनवमी द्वादशी कार्त्तिके तथा । (६।१)

aśvayukchuklanavamī dvādaśī kārttike tathā |

6.2६.२

तृतीया चैत्रमासस्य तथा भाद्रपदस्य च ॥ (६।२)

tṛtīyā caitramāsasya tathā bhādrapadasya ca ||

7.1७.१

फाल्गुनस्य ह्य् अमावास्या पौषस्यैकादशी तथा । (७।१)

phālgunasya hy amāvāsyā pauṣasyaikādaśī tathā |

7.2७.२

आषाढस्यापि दशमी माघमासस्य सप्तमी ॥ (७।२)

āṣāḍhasyāpi daśamī māghamāsasya saptamī ||

8.1८.१

श्रावणस्याष्टमी कृष्णा तथाषाढी च पूर्णिमा । (८।१)

śrāvaṇasyāṣṭamī kṛṣṇā tathāṣāḍhī ca pūrṇimā |

8.2८.२

कार्त्तिकी फाल्गुनी चैत्री ज्येष्ठपञ्चदशी सिता । (८।२)

kārttikī phālgunī caitrī jyeṣṭhapañcadaśī sitā |

8.3८.३

मन्वन्तरादयश् चैता दत्तस्याक्षय्यकारिकाः ॥ (८।३)

manvantarādayaś caitā dattasyākṣayyakārikāḥ ||

9.1९.१

यस्यां मन्वन्तरस्यादौ रथमास्ते दिवाकरः । (९।१)

yasyāṃ manvantarasyādau rathamāste divākaraḥ |

9.2९.२

माघमासस्य सप्तम्यां सा तु स्याद्रथसप्तमी ॥ (९।२)

māghamāsasya saptamyāṃ sā tu syādrathasaptamī ||

10.1१०.१

पानीयमप्यत्र तिलैर्विमिश्रं दद्यात्पितृभ्यः प्रयतो मनुष्यः । (१०।१)

pānīyamapyatra tilairvimiśraṃ dadyātpitṛbhyaḥ prayato manuṣyaḥ |

10.2१०.२

श्राद्धं कृतं तेन समाः सहस्रं रहस्यमेतत्पितरो वदन्ति ॥ (१०।२)

śrāddhaṃ kṛtaṃ tena samāḥ sahasraṃ rahasyametatpitaro vadanti ||

11.1११.१

वैशाख्यामुपरागेषु तथोत्सवमहालये । (११।१)

vaiśākhyāmuparāgeṣu tathotsavamahālaye |

11.2११.२

तीर्थायतनगोष्ठेषु दीपोद्यानगृहेषु च ॥ (११।२)

tīrthāyatanagoṣṭheṣu dīpodyānagṛheṣu ca ||

12.1१२.१

विविक्तेषूपलिप्तेषु श्राद्धं देयं विजानता । (१२।१)

vivikteṣūpalipteṣu śrāddhaṃ deyaṃ vijānatā |

12.2१२.२

विप्रान्पूर्वे परे चाह्नि विनीतात्मा निमन्त्रयेत् ॥ (१२।२)

viprānpūrve pare cāhni vinītātmā nimantrayet ||

13.1१३.१

शीलवृत्तगुणोपेतान् वयोरूपसमन्वितान् । (१३।१)

śīlavṛttaguṇopetān vayorūpasamanvitān |

13.2१३.२

द्वौ दैवे त्रींस्तथा पित्र्य एकैकमुभयत्र वा ॥ (१३।२)

dvau daive trīṃstathā pitrya ekaikamubhayatra vā ||

14.1१४.१

भोजयेत्सुसमृद्धोऽपि न प्रसज्जते विस्तरे । (१४।१)

bhojayetsusamṛddho'pi na prasajjate vistare |

14.2१४.२

विश्वान्देवान्यवैः पुष्पैरभ्यर्च्यासनपूर्वकम् ॥ (१४।२)

viśvāndevānyavaiḥ puṣpairabhyarcyāsanapūrvakam ||

15.1१५.१

पूरयेत्पात्रयुग्मं तु स्थाप्य दर्भपवित्रकम् । (१५।१)

pūrayetpātrayugmaṃ tu sthāpya darbhapavitrakam |

15.2१५.२

शं नो देवीत्य् अपः कुर्याद्यवोऽसीति यवानपि ॥ (१५।२)

śaṃ no devīty apaḥ kuryādyavo'sīti yavānapi ||

16.1१६.१

गन्धपुष्पैश्च संपूज्य वैश्वदेवं प्रति न्यसेत् । (१६।१)

gandhapuṣpaiśca saṃpūjya vaiśvadevaṃ prati nyaset |

16.2१६.२

विश्वे देवास इत्याभ्यामावाह्य विकिरेद्यवान् ॥ (१६।२)

viśve devāsa ityābhyāmāvāhya vikiredyavān ||

17.1१७.१

गन्धपुष्पैर् अलंकृत्य या दिव्येत्यर्घ्यमुत्सृजेत् । (१७।१)

gandhapuṣpair alaṃkṛtya yā divyetyarghyamutsṛjet |

17.2१७.२

अभ्यर्च्य ताभ्यामुत्सृष्टं पितृकार्यं समारभेत ॥ (१७।२)

abhyarcya tābhyāmutsṛṣṭaṃ pitṛkāryaṃ samārabheta ||

18.1१८.१

दर्भासनं तु दत्त्वादौ त्रीणि पात्राणि पूरयेत् । (१८।१)

darbhāsanaṃ tu dattvādau trīṇi pātrāṇi pūrayet |

18.2१८.२

खपवित्राणि कृत्वादौ शं नो देवीत्य् अपः क्षिपेत् ॥ (१८।२)

khapavitrāṇi kṛtvādau śaṃ no devīty apaḥ kṣipet ||

19.1१९.१

तिलोऽसीति तिलान्कुर्याद्गन्धपुष्पादिकं पुनः । (१९।१)

tilo'sīti tilānkuryādgandhapuṣpādikaṃ punaḥ |

19.2१९.२

पात्रं वनस्पतिमयं तथा पर्णमयं पुनः ॥ (१९।२)

pātraṃ vanaspatimayaṃ tathā parṇamayaṃ punaḥ ||

20.1२०.१

जलजं वाथ कुर्वीत तथा सागरसम्भवम् । (२०।१)

jalajaṃ vātha kurvīta tathā sāgarasambhavam |

20.2२०.२

सौवर्णं राजतं वापि पितॄणां पात्रमुच्यते ॥ (२०।२)

sauvarṇaṃ rājataṃ vāpi pitṝṇāṃ pātramucyate ||

21.1२१.१

रजतस्य कथा वापि दर्शनं दानमेव वा । (२१।१)

rajatasya kathā vāpi darśanaṃ dānameva vā |

21.2२१.२

राजतैर् भाजनैरेषामथवा रजतान्वितैः ॥ (२१।२)

rājatair bhājanaireṣāmathavā rajatānvitaiḥ ||

22.1२२.१

वार्यपि श्रद्धया दत्तमक्षयायोपकल्पते । (२२।१)

vāryapi śraddhayā dattamakṣayāyopakalpate |

22.2२२.२

तथार्घ्यपिण्डभोज्यादौ पितॄणां राजतं मतम् ॥ (२२।२)

tathārghyapiṇḍabhojyādau pitṝṇāṃ rājataṃ matam ||

23.1२३.१

शिवनेत्रोद्भवं यस्मात्तस्मात्तत्पितृवल्लभम् । (२३।१)

śivanetrodbhavaṃ yasmāttasmāttatpitṛvallabham |

23.2२३.२

अमङ्गलं तद्यत्नेन देवकार्येषु वर्जयेत् ॥ (२३।२)

amaṅgalaṃ tadyatnena devakāryeṣu varjayet ||

24.1२४.१

एवं पात्राणि संकल्प्य यथालाभं विमत्सरः । (२४।१)

evaṃ pātrāṇi saṃkalpya yathālābhaṃ vimatsaraḥ |

24.2२४.२

या दिव्येति पितुर्नाम गोत्रैर्दर्भकरो न्यसेत् ॥ (२४।२)

yā divyeti piturnāma gotrairdarbhakaro nyaset ||

25.1२५.१

पितॄन् आवाहयिष्यामि कुर्वित्युक्तस्तु तैः पुनः । (२५।१)

pitṝn āvāhayiṣyāmi kurvityuktastu taiḥ punaḥ |

25.2२५.२

उशन्तस्त्वा तथायन्तु ऋग्भ्याम् आवाहयेत्पितॄन् ॥ (२५।२)

uśantastvā tathāyantu ṛgbhyām āvāhayetpitṝn ||

26.1२६.१

या दिव्येत्यर्घ्यमुत्सृज्य दद्याद्गन्धादिकांस्ततः । (२६।१)

yā divyetyarghyamutsṛjya dadyādgandhādikāṃstataḥ |

26.2२६.२

हस्तात्तदुदकं पूर्वं दत्त्वा संस्रवमादितः ॥ (२६।२)

hastāttadudakaṃ pūrvaṃ dattvā saṃsravamāditaḥ ||

27.1२७.१

पितृपात्रे निधायाथ न्युब्जमुत्तरतो न्यसेत् । (२७।१)

pitṛpātre nidhāyātha nyubjamuttarato nyaset |

27.2२७.२

पितृभ्यः स्थानमसीति निधाय परिषेचयेत् ॥ (२७।२)

pitṛbhyaḥ sthānamasīti nidhāya pariṣecayet ||

28.1२८.१

तत्रापि पूर्ववत्कुर्यादग्निकार्यं विमत्सरः । (२८।१)

tatrāpi pūrvavatkuryādagnikāryaṃ vimatsaraḥ |

28.2२८.२

उभाभ्यामपि हस्ताभ्यामाहृत्य परिवेषयेत् ॥ (२८।२)

ubhābhyāmapi hastābhyāmāhṛtya pariveṣayet ||

29.1२९.१

प्रशान्तचित्तः सततं दर्भपाणिरशेषतः । (२९।१)

praśāntacittaḥ satataṃ darbhapāṇiraśeṣataḥ |

29.2२९.२

गुणाढ्यैः सूपशाकैस्तु नानाभक्ष्यैर् विशेषतः ॥ (२९।२)

guṇāḍhyaiḥ sūpaśākaistu nānābhakṣyair viśeṣataḥ ||

30.1३०.१

अन्नं तु सदधिक्षीरं गोघृतं शर्करान्वितम् । (३०।१)

annaṃ tu sadadhikṣīraṃ goghṛtaṃ śarkarānvitam |

30.2३०.२

मासं प्रीणाति वै सर्वान्पितॄनित्याह केशवः ॥ (३०।२)

māsaṃ prīṇāti vai sarvānpitṝnityāha keśavaḥ ||

31.1३१.१

द्वौ मासौ मत्स्यमांसेन त्रीन्मासान्हारिणेन तु । (३१।१)

dvau māsau matsyamāṃsena trīnmāsānhāriṇena tu |

31.2३१.२

औरभ्रेणाथ चतुरः शाकुनेनाथ पञ्च वै ॥ (३१।२)

aurabhreṇātha caturaḥ śākunenātha pañca vai ||

32.1३२.१

षण्मासं छागमांसेन तृप्यन्ति पितरस्तथा । (३२।१)

ṣaṇmāsaṃ chāgamāṃsena tṛpyanti pitarastathā |

32.2३२.२

सप्त पार्षतमांसेन तथाष्टाव् एणजेन तु ॥ (३२।२)

sapta pārṣatamāṃsena tathāṣṭāv eṇajena tu ||

33.1३३.१

दश मासांस्तु तृप्यन्ति वराहमहिषामिषैः । (३३।१)

daśa māsāṃstu tṛpyanti varāhamahiṣāmiṣaiḥ |

33.2३३.२

शशकूर्मजमांसेन मासानेकादशैव तु ॥ (३३।२)

śaśakūrmajamāṃsena māsānekādaśaiva tu ||

34.1३४.१

संवत्सरं तु गव्येन पयसा पायसेन च । (३४।१)

saṃvatsaraṃ tu gavyena payasā pāyasena ca |

34.2३४.२

रौरवेण च तृप्यन्ति मासान्पञ्चदशैव तु ॥ (३४।२)

rauraveṇa ca tṛpyanti māsānpañcadaśaiva tu ||

35.1३५.१

वार्ध्रीणसस्य मांसेन तृप्तिर् द्वादशवार्षिकी । (३५।१)

vārdhrīṇasasya māṃsena tṛptir dvādaśavārṣikī |

35.2३५.२

कालशाकेन चानन्ता खड्गमांसेन चैव हि ॥ (३५।२)

kālaśākena cānantā khaḍgamāṃsena caiva hi ||

36.1३६.१

यत्किंचिन्मधुसम्मिश्रं गोक्षीरं घृतपायसम् । (३६।१)

yatkiṃcinmadhusammiśraṃ gokṣīraṃ ghṛtapāyasam |

36.2३६.२

दत्तमक्षयमित्याहुः पितरः पूर्वदेवताः ॥ (३६।२)

dattamakṣayamityāhuḥ pitaraḥ pūrvadevatāḥ ||

37.1३७.१

स्वाध्यायं श्रावयेत्पित्र्यं पुराणान्यखिलानि च । (३७।१)

svādhyāyaṃ śrāvayetpitryaṃ purāṇānyakhilāni ca |

37.2३७.२

ब्रह्मविष्ण्वर्करुद्राणां सूक्तानि विविधानि च ॥ (३७।२)

brahmaviṣṇvarkarudrāṇāṃ sūktāni vividhāni ca ||

38.1३८.१

इन्द्राग्निसोमसूक्तानि पावनानि स्वशक्तितः । (३८।१)

indrāgnisomasūktāni pāvanāni svaśaktitaḥ |

38.2३८.२

बृहद्रथंतरं तद्वज्ज्येष्ठसाम सरौहिणम् ॥ (३८।२)

bṛhadrathaṃtaraṃ tadvajjyeṣṭhasāma sarauhiṇam ||

39.1३९.१

तथैव शान्तिकाध्यायं मधुब्राह्मणमेव च । (३९।१)

tathaiva śāntikādhyāyaṃ madhubrāhmaṇameva ca |

39.2३९.२

मण्डलं ब्राह्मणं तद्वत्प्रीतिकारि तु यत्पुनः ॥ (३९।२)

maṇḍalaṃ brāhmaṇaṃ tadvatprītikāri tu yatpunaḥ ||

40.1४०.१

विप्राणामात्मनश्चैव तत्सर्वं समुदीरयेत् । (४०।१)

viprāṇāmātmanaścaiva tatsarvaṃ samudīrayet |

40.2४०.२

भुक्तवत्सु ततस्तेषु भोजनोपान्तिके नृप ॥ (४०।२)

bhuktavatsu tatasteṣu bhojanopāntike nṛpa ||

41.1४१.१

सार्ववर्णिकमन्नाद्यं संनीयाप्लाव्य वारिणा । (४१।१)

sārvavarṇikamannādyaṃ saṃnīyāplāvya vāriṇā |

41.2४१.२

समुत्सृजेद्भुक्तवतामग्रतो विकिरेद्भुवि ॥ (४१।२)

samutsṛjedbhuktavatāmagrato vikiredbhuvi ||

42.1४२.१

अग्निदग्धास्तु ये जीवा ये ऽप्यदग्धाः कुले मम । (४२।१)

agnidagdhāstu ye jīvā ye 'pyadagdhāḥ kule mama |

42.2४२.२

भूमौ दत्तेन तृप्यन्तु प्रयान्तु परमां गतिम् ॥ (४२।२)

bhūmau dattena tṛpyantu prayāntu paramāṃ gatim ||

43.1४३.१

येषां न माता न पिता न बन्धुर्न गोत्रशुद्धिर्न तथान्नम् अस्ति । (४३।१)

yeṣāṃ na mātā na pitā na bandhurna gotraśuddhirna tathānnam asti |

43.2४३.२

तत्तृप्तये ऽन्नं भुवि दत्तमेतत्प्रयान्तु लोकेषु सुखाय तद्वत् ॥ (४३।२)

tattṛptaye 'nnaṃ bhuvi dattametatprayāntu lokeṣu sukhāya tadvat ||

44.1४४.१

असंस्कृतप्रमीतानां त्यक्तानां कुलयोषिताम् । (४४।१)

asaṃskṛtapramītānāṃ tyaktānāṃ kulayoṣitām |

44.2४४.२

उच्छिष्टभागधेयः स्याद्दर्मे विकिरयोश्च यः ॥ (४४।२)

ucchiṣṭabhāgadheyaḥ syāddarme vikirayośca yaḥ ||

45.1४५.१

तृप्ताञ्ज्ञात्वोदकं दद्यात्सकृद्विप्रकरे तथा । (४५।१)

tṛptāñjñātvodakaṃ dadyātsakṛdviprakare tathā |

45.2४५.२

उपलिप्ते महीपृष्ठे गोशकृन्मूत्रवारिणा ॥ (४५।२)

upalipte mahīpṛṣṭhe gośakṛnmūtravāriṇā ||

46.1४६.१

निधाय दर्भान्विधिवद्दक्षिणाग्रान् प्रयत्नतः । (४६।१)

nidhāya darbhānvidhivaddakṣiṇāgrān prayatnataḥ |

46.2४६.२

सर्ववर्णेन चान्नेन पिण्डांस्तु पितृयज्ञवत् ॥ (४६।२)

sarvavarṇena cānnena piṇḍāṃstu pitṛyajñavat ||

47.1४७.१

अवनेजनपूर्वं तु नामगोत्रेण मानवः । (४७।१)

avanejanapūrvaṃ tu nāmagotreṇa mānavaḥ |

47.2४७.२

गन्धधूपादिकं दद्यात्कृत्वा प्रत्यवनेजनम् ॥ (४७।२)

gandhadhūpādikaṃ dadyātkṛtvā pratyavanejanam ||

48.1४८.१

जान्वाच्य सव्यं सव्येन पाणिनाथ प्रदक्षिणम् । (४८।१)

jānvācya savyaṃ savyena pāṇinātha pradakṣiṇam |

48.2४८.२

पित्र्यमानीय तत्कार्यं विधिवद्दर्भपाणिना ॥ (४८।२)

pitryamānīya tatkāryaṃ vidhivaddarbhapāṇinā ||

49.1४९.१

दीपप्रज्वालनं तद्वत्कुर्यात्पुष्पार्चनं बुधः । (४९।१)

dīpaprajvālanaṃ tadvatkuryātpuṣpārcanaṃ budhaḥ |

49.2४९.२

अथाचान्तेषु चाचम्य वारि दद्यात्सकृत्सकृत् ॥ (४९।२)

athācānteṣu cācamya vāri dadyātsakṛtsakṛt ||

50.1५०.१

अथ पुष्पाक्षतान् पश्चादक्षय्योदकम् एव च । (५०।१)

atha puṣpākṣatān paścādakṣayyodakam eva ca |

50.2५०.२

सतिलं नामगोत्रेण दद्याच्छक्त्या च दक्षिणाम् ॥ (५०।२)

satilaṃ nāmagotreṇa dadyācchaktyā ca dakṣiṇām ||

51.1५१.१

गोभूहिरण्यवासांसि भव्यानि शयनानि च । (५१।१)

gobhūhiraṇyavāsāṃsi bhavyāni śayanāni ca |

51.2५१.२

दद्याद्यदिष्टं विप्राणामात्मनः पितुरेव च ॥ (५१।२)

dadyādyadiṣṭaṃ viprāṇāmātmanaḥ pitureva ca ||

52.1५२.१

वित्तशाठ्येन रहितः पितृभ्यः प्रीतिमावहन् । (५२।१)

vittaśāṭhyena rahitaḥ pitṛbhyaḥ prītimāvahan |

52.2५२.२

ततः स्वधावाचनकं विश्वदेवेषु चोदकम् ॥ (५२।२)

tataḥ svadhāvācanakaṃ viśvadeveṣu codakam ||

53.1५३.१

दत्त्वाशीः प्रतिगृह्णीयाद्द्विजेभ्यः प्राङ्मुखो बुधः । (५३।१)

dattvāśīḥ pratigṛhṇīyāddvijebhyaḥ prāṅmukho budhaḥ |

53.2५३.२

अघोराः पितरः सन्तु सन्त्वित्युक्तः पुनर् द्विजैः ॥ (५३।२)

aghorāḥ pitaraḥ santu santvityuktaḥ punar dvijaiḥ ||

54.1५४.१

गोत्रं तथा वर्धतां नस्तथेत्युक्तश्च तैः पुनः । (५४।१)

gotraṃ tathā vardhatāṃ nastathetyuktaśca taiḥ punaḥ |

54.2५४.२

दातारो नो ऽभिवर्धन्तामिति चैवमुदीरयेत् ॥ (५४।२)

dātāro no 'bhivardhantāmiti caivamudīrayet ||

55.1५५.१

एताः सत्याशिषः सन्तु सन्त्वित्युक्तश्च तैः पुनः । (५५।१)

etāḥ satyāśiṣaḥ santu santvityuktaśca taiḥ punaḥ |

55.2५५.२

स्वस्तिवाचनकं कुर्यात्पिण्डानुद्धृत्य भक्तितः ॥ (५५।२)

svastivācanakaṃ kuryātpiṇḍānuddhṛtya bhaktitaḥ ||

56.1५६.१

उच्छेषणं तु तत्तिष्ठेद्यावद्विप्रा विसर्जिताः । (५६।१)

uccheṣaṇaṃ tu tattiṣṭhedyāvadviprā visarjitāḥ |

56.2५६.२

ततो ग्रहबलिं कुर्यादिति धर्मव्यवस्थितिः ॥ (५६।२)

tato grahabaliṃ kuryāditi dharmavyavasthitiḥ ||

57.1५७.१

उच्छेषणं भूमिगतमजिह्मस्यास्तिकस्य च । (५७।१)

uccheṣaṇaṃ bhūmigatamajihmasyāstikasya ca |

57.2५७.२

दासवर्गस्य तत्पित्र्यं भागधेयं प्रचक्षते ॥ (५७।२)

dāsavargasya tatpitryaṃ bhāgadheyaṃ pracakṣate ||

58.1५८.१

पितृभिर् निर्मितं पूर्वमेतदाप्यायनं सदा । (५८।१)

pitṛbhir nirmitaṃ pūrvametadāpyāyanaṃ sadā |

58.2५८.२

अपुत्राणां सपुत्राणां स्त्रीणामपि नराधिप ॥ (५८।२)

aputrāṇāṃ saputrāṇāṃ strīṇāmapi narādhipa ||

59.1५९.१

ततस्तानग्रतः स्थित्वा परिगृह्योदपात्रकम् । (५९।१)

tatastānagrataḥ sthitvā parigṛhyodapātrakam |

59.2५९.२

वाजे वाज इति जपन्कुशाग्रेण विसर्जयेत् ॥ (५९।२)

vāje vāja iti japankuśāgreṇa visarjayet ||

60.1६०.१

बहिः प्रदक्षिणां कुर्यात्पदान्य् अष्टाव् अनुव्रजन् । (६०।१)

bahiḥ pradakṣiṇāṃ kuryātpadāny aṣṭāv anuvrajan |

60.2६०.२

बन्धुवर्गेण सहितः पुत्रभार्यासमन्वितः ॥ (६०।२)

bandhuvargeṇa sahitaḥ putrabhāryāsamanvitaḥ ||

61.1६१.१

निवृत्य प्रणिपत्याथ पर्युक्ष्याग्निं समन्त्रवत् । (६१।१)

nivṛtya praṇipatyātha paryukṣyāgniṃ samantravat |

61.2६१.२

वैश्वदेवं प्रकुर्वीत नैत्यकं बलिमेव च ॥ (६१।२)

vaiśvadevaṃ prakurvīta naityakaṃ balimeva ca ||

62.1६२.१

ततस्तु वैश्वदेवान्ते सभृत्यसुतबान्धवः । (६२।१)

tatastu vaiśvadevānte sabhṛtyasutabāndhavaḥ |

62.2६२.२

भुञ्जीतातिथिसंयुक्तः सर्वं पितृनिषेवितम् ॥ (६२।२)

bhuñjītātithisaṃyuktaḥ sarvaṃ pitṛniṣevitam ||

63.1६३.१

एतच्चानुपनीतोऽपि कुर्यात्सर्वेषु पर्वसु । (६३।१)

etaccānupanīto'pi kuryātsarveṣu parvasu |

63.2६३.२

श्राद्धं साधारणं नाम सर्वकामफलप्रदम् ॥ (६३।२)

śrāddhaṃ sādhāraṇaṃ nāma sarvakāmaphalapradam ||

64.1६४.१

भार्याविरहितो ऽप्येतत्प्रवासस्थो ऽपि भक्तिमान् । (६४।१)

bhāryāvirahito 'pyetatpravāsastho 'pi bhaktimān |

64.2६४.२

शूद्रो ऽप्यमन्त्रवत्कुर्याद् अनेन विधिना बुधः ॥ (६४।२)

śūdro 'pyamantravatkuryād anena vidhinā budhaḥ ||

65.1६५.१

तृतीयमाभ्युदयिकं वृद्धिश्राद्धं तदुच्यते । (६५।१)

tṛtīyamābhyudayikaṃ vṛddhiśrāddhaṃ taducyate |

65.2६५.२

उत्सवानन्दसम्भारे यज्ञोद्वाहादिमङ्गले ॥ (६५।२)

utsavānandasambhāre yajñodvāhādimaṅgale ||

66.1६६.१

मातरः प्रथमं पूज्याः पितरस्तदनन्तरम् । (६६।१)

mātaraḥ prathamaṃ pūjyāḥ pitarastadanantaram |

66.2६६.२

ततो मातामहा राजन्विश्वे देवास्तथैव च ॥ (६६।२)

tato mātāmahā rājanviśve devāstathaiva ca ||

67.1६७.१

प्रदक्षिणोपचारेण दध्यक्षतफलोदकैः । (६७।१)

pradakṣiṇopacāreṇa dadhyakṣataphalodakaiḥ |

67.2६७.२

प्राङ्मुखो निर्वपेत्पिण्डान्दूर्वया च कुशैर्युतान् ॥ (६७।२)

prāṅmukho nirvapetpiṇḍāndūrvayā ca kuśairyutān ||

68.1६८.१

सम्पन्नम् इत्यभ्युदये दद्यादर्घ्यं द्वयोर् द्वयोः । (६८।१)

sampannam ityabhyudaye dadyādarghyaṃ dvayor dvayoḥ |

68.2६८.२

युग्मा द्विजातयः पूज्या वस्त्रकार्तस्वरादिभिः ॥ (६८।२)

yugmā dvijātayaḥ pūjyā vastrakārtasvarādibhiḥ ||

69.1६९.१

तिलार्थस्तु यवैः कार्यो नान्दीशब्दानुपूर्वकः । (६९।१)

tilārthastu yavaiḥ kāryo nāndīśabdānupūrvakaḥ |

69.2६९.२

माङ्गल्यानि च सर्वाणि वाचयेद्द्विजपुंगवैः ॥ (६९।२)

māṅgalyāni ca sarvāṇi vācayeddvijapuṃgavaiḥ ||

70.1७०.१

एवं शूद्रोऽपि सामान्यवृद्धिश्राद्धेऽपि सर्वदा । (७०।१)

evaṃ śūdro'pi sāmānyavṛddhiśrāddhe'pi sarvadā |

70.2७०.२

नमस्कारेण मन्त्रेण कुर्यादामान्नतः सदा ॥ (७०।२)

namaskāreṇa mantreṇa kuryādāmānnataḥ sadā ||

71.1७१.१

दानप्रधानः शूद्रः स्यादित्याह भगवान्प्रभुः । (७१।१)

dānapradhānaḥ śūdraḥ syādityāha bhagavānprabhuḥ |

71.2७१.२

दानेन सर्वकामाप्तिरस्य संजायते यतः ॥ (७१।२)

dānena sarvakāmāptirasya saṃjāyate yataḥ ||

Data courtesy of The Digital Corpus of Sanskrit.

MPur, 17

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit