MPur, 56
Select a line for its word-by-word analysis.
शान्तिर्मुक्तिश्च भवति जयः पुंसां विशेषतः ॥ (१।३)
śāntirmuktiśca bhavati jayaḥ puṃsāṃ viśeṣataḥ ||
स्थाणुं चैत्रे शिवं तद्वद्वैशाखे त्वर्चयेन्नरः । (३।१)
sthāṇuṃ caitre śivaṃ tadvadvaiśākhe tvarcayennaraḥ |
ज्येष्ठे पशुपतिं चार्चेदाषाढे उग्रमर्चयेत् ॥ (३।२)
jyeṣṭhe paśupatiṃ cārcedāṣāḍhe ugramarcayet ||
पूजयेच्छ्रावणे शर्वं नभस्ये त्र्यम्बकं तथा । (४।१)
pūjayecchrāvaṇe śarvaṃ nabhasye tryambakaṃ tathā |
कृष्णाष्टमीषु सर्वासु शक्तः सम्पूजयेद्द्विजान् । (५।१)
kṛṣṇāṣṭamīṣu sarvāsu śaktaḥ sampūjayeddvijān |
पञ्चगव्यं च संप्राश्य शंकरं पूजयेन्निशि ॥ (६।३)
pañcagavyaṃ ca saṃprāśya śaṃkaraṃ pūjayenniśi ||
अश्वत्थं च वटं चैवोदुम्बरं प्लक्षमेव च । (७।१)
aśvatthaṃ ca vaṭaṃ caivodumbaraṃ plakṣameva ca |
पलाशं जम्बुवृक्षं च विदुः षष्ठं महर्षयः ॥ (७।२)
palāśaṃ jambuvṛkṣaṃ ca viduḥ ṣaṣṭhaṃ maharṣayaḥ ||
मार्गशीर्षाषाढमासाभ्यां द्वाभ्यां द्वाभ्यामिति क्रमात् । (८।१)
mārgaśīrṣāṣāḍhamāsābhyāṃ dvābhyāṃ dvābhyāmiti kramāt |
देवाय दद्यादर्घ्यं च कृष्णां गां कृष्णवाससम् । (९।१)
devāya dadyādarghyaṃ ca kṛṣṇāṃ gāṃ kṛṣṇavāsasam |
दद्यात्समाप्ते दध्यन्नं वितानध्वजचामरम् ॥ (९।२)
dadyātsamāpte dadhyannaṃ vitānadhvajacāmaram ||
द्विजानामुदकुम्भांश्च पञ्चरत्नसमन्वितान् । (१०।१)
dvijānāmudakumbhāṃśca pañcaratnasamanvitān |
गावः कृष्णाः सुवर्णं च वासांसि विविधानि च । (१०।२)
gāvaḥ kṛṣṇāḥ suvarṇaṃ ca vāsāṃsi vividhāni ca |
न वित्तशाठ्यं कुर्वीत कुर्वन्दोषमवाप्नुयात् । (११।१)
na vittaśāṭhyaṃ kurvīta kurvandoṣamavāpnuyāt |
Data courtesy of The Digital Corpus of Sanskrit.