MPur, 66
Select a line for its word-by-word analysis.
सम्यक्पृष्टं त्वया राजञ्छृणु सारस्वतं व्रतम् । (३।२)
samyakpṛṣṭaṃ tvayā rājañchṛṇu sārasvataṃ vratam |
यो यद्भक्तः पुमान्कुर्यादेतद्व्रतमनुत्तमम् । (४।१)
yo yadbhaktaḥ pumānkuryādetadvratamanuttamam |
पायसं भोजयेद्विप्रान्कृत्वा ब्राह्मणवाचनम् ॥ (५।२)
pāyasaṃ bhojayedviprānkṛtvā brāhmaṇavācanam ||
शुक्लवस्त्राणि दत्त्वा च सहिरण्यानि शक्तितः । (६।१)
śuklavastrāṇi dattvā ca sahiraṇyāni śaktitaḥ |
गायत्रीं पूजयेद्भक्त्या शुक्लमाल्यानुलेपनैः ॥ (६।२)
gāyatrīṃ pūjayedbhaktyā śuklamālyānulepanaiḥ ||
त्वां परित्यज्य संतिष्ठेत्तथा भव वरप्रदा ॥ (७।२)
tvāṃ parityajya saṃtiṣṭhettathā bhava varapradā ||
वेदाः शास्त्राणि सर्वाणि गीतनृत्यादिकं च यत् । (८।१)
vedāḥ śāstrāṇi sarvāṇi gītanṛtyādikaṃ ca yat |
न विहीनं त्वया देवि तथा मे सन्तु सिद्धयः ॥ (८।२)
na vihīnaṃ tvayā devi tathā me santu siddhayaḥ ||
लक्ष्मीर्मेधा धरा पुष्टिर्गौरी तुष्टिः प्रभा मतिः । (९।१)
lakṣmīrmedhā dharā puṣṭirgaurī tuṣṭiḥ prabhā matiḥ |
एताभिः पाहि चाष्टाभिस्तनुभिर्मां सरस्वति ॥ (९।२)
etābhiḥ pāhi cāṣṭābhistanubhirmāṃ sarasvati ||
एवं सम्पूज्य गायत्रीं वीणाक्षमणिधारिणीम् । (१०।१)
evaṃ sampūjya gāyatrīṃ vīṇākṣamaṇidhāriṇīm |
शुक्लपुष्पाक्षतैर् भक्त्या सकमण्डलुपुस्तकाम् । (१०।२)
śuklapuṣpākṣatair bhaktyā sakamaṇḍalupustakām |
मौनव्रतेन भुञ्जीत सायं प्रातस्तु धर्मवित् ॥ (१०।३)
maunavratena bhuñjīta sāyaṃ prātastu dharmavit ||
पञ्चम्यां प्रतिपक्षं च पूजयेद्ब्रह्मवासिनीम् । (११।१)
pañcamyāṃ pratipakṣaṃ ca pūjayedbrahmavāsinīm |
तथैव तण्डुलप्रस्थं घृतपात्रेण संयुतम् । (११।२)
tathaiva taṇḍulaprasthaṃ ghṛtapātreṇa saṃyutam |
क्षीरं दद्याद्धिरण्यं च गायत्री प्रीयतामिति ॥ (११।३)
kṣīraṃ dadyāddhiraṇyaṃ ca gāyatrī prīyatāmiti ||
संध्यायां च तथा मौनमेतत्कुर्वन्समाचरेत् । (१२।१)
saṃdhyāyāṃ ca tathā maunametatkurvansamācaret |
नान्तरा भोजनं कुर्याद्यावन्मासास्त्रयोदश ॥ (१२।२)
nāntarā bhojanaṃ kuryādyāvanmāsāstrayodaśa ||
समाप्ते तु व्रते कुर्याद्भोजनं शुक्लतण्डुलैः । (१३।१)
samāpte tu vrate kuryādbhojanaṃ śuklataṇḍulaiḥ |
पूर्वं सवस्त्रयुग्मं च दद्याद्विप्राय भोजनम् ॥ (१३।२)
pūrvaṃ savastrayugmaṃ ca dadyādviprāya bhojanam ||
देव्या वितानं घण्टां च सितनेत्रे पयस्विनीम् । (१४।१)
devyā vitānaṃ ghaṇṭāṃ ca sitanetre payasvinīm |
चन्दनं वस्त्रयुग्मं च दद्याच्च शिखरं पुनः ॥ (१४।२)
candanaṃ vastrayugmaṃ ca dadyācca śikharaṃ punaḥ ||
तथोपदेष्टारमपि भक्त्या सम्पूजयेद्गुरुम् । (१५।१)
tathopadeṣṭāramapi bhaktyā sampūjayedgurum |
वित्तशाठ्येन रहितो वस्त्रमाल्यानुलेपनैः ॥ (१५।२)
vittaśāṭhyena rahito vastramālyānulepanaiḥ ||
अनेन विधिना यस्तु कुर्यात्सारस्वतं व्रतम् । (१६।१)
anena vidhinā yastu kuryātsārasvataṃ vratam |
विद्यावानर्थसंयुक्तो रक्तकण्ठश्च जायते ॥ (१६।२)
vidyāvānarthasaṃyukto raktakaṇṭhaśca jāyate ||
ब्रह्मलोके वसेद् राजन्यावत् कल्पायुतत्रयम् ॥ (१८।०)
brahmaloke vased rājanyāvat kalpāyutatrayam ||
सारस्वतं व्रतं यस्तु शृणुयादपि यः पठेत् । (१९।१)
sārasvataṃ vrataṃ yastu śṛṇuyādapi yaḥ paṭhet |
Data courtesy of The Digital Corpus of Sanskrit.