Ṛk 1.96.7
Saṃhitā
नू च॑ पु॒रा च॒ सद॑नं रयी॒णां जा॒तस्य॑ च॒ जाय॑मानस्य च॒ क्षां ।
स॒तश्च॑ गो॒पां भव॑तश्च॒ भूरे॑र्दे॒वा अ॒ग्निं धा॑रयंद्रविणो॒दां ॥
नू च पुरा च सदनं रयीणां जातस्य च जायमानस्य च क्षाम् |
सतश् च गोपाम् भवतश् च भूरेर् देवा अग्निं धारयन् द्रविणोदाम् ||
nū́ ca purā́ ca sádanam rayīṇā́m jātásya ca jā́yamānasya ca kṣā́m ǀ
satáśca gopā́m bhávataśca bhū́rerdevā́ agním dhārayandraviṇodā́m ǁ
nū ca purā ca sadanaṃ rayīṇāṃ jātasya ca jāyamānasya ca kṣām |
sataś ca gopām bhavataś ca bhūrer devā agniṃ dhārayan draviṇodām ||
Padapāṭha
नु । च॒ । पु॒रा । च॒ । सद॑नम् । र॒यी॒णाम् । जा॒तस्य॑ । च॒ । जाय॑मानस्य । च॒ । क्षाम् ।
स॒तः । च॒ । गो॒पाम् । भव॑तः । च॒ । भूरेः॑ । दे॒वाः । अ॒ग्निम् । धा॒र॒य॒न् । द्र॒वि॒णः॒ऽदाम् ॥
नु । च । पुरा । च । सदनम् । रयीणाम् । जातस्य । च । जायमानस्य । च । क्षाम् ।
सतः । च । गोपाम् । भवतः । च । भूरेः । देवाः । अग्निम् । धारयन् । द्रविणःऽदाम् ॥
nú ǀ ca ǀ purā́ ǀ ca ǀ sádanam ǀ rayīṇā́m ǀ jātásya ǀ ca ǀ jā́yamānasya ǀ ca ǀ kṣā́m ǀ
satáḥ ǀ ca ǀ gopā́m ǀ bhávataḥ ǀ ca ǀ bhū́reḥ ǀ devā́ḥ ǀ agním ǀ dhārayan ǀ draviṇaḥ-dā́m ǁ
nu ǀ ca ǀ purā ǀ ca ǀ sadanam ǀ rayīṇām ǀ jātasya ǀ ca ǀ jāyamānasya ǀ ca ǀ kṣām ǀ
sataḥ ǀ ca ǀ gopām ǀ bhavataḥ ǀ ca ǀ bhūreḥ ǀ devāḥ ǀ agnim ǀ dhārayan ǀ draviṇaḥ-dām ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.096.07
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.7.04.00
- Devatā देवता
- Agni, Or The Bountiful Fire
- Ṛṣi ऋषि
- Kutsa Āṅgirasa
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.