Ṛgveda · Maṇḍala 1 · Sūkta 134
Ṛk 1.134.6
Saṃhitā
त्वं नो॑ वायवेषा॒मपू॑र्व्यः॒ सोमा॑नां प्रथ॒मः पी॒तिम॑र्हसि सु॒तानां॑ पी॒तिम॑र्हसि ।
उ॒तो वि॒हुत्म॑तीनां वि॒शां व॑व॒र्जुषी॑णां ।
विश्वा॒ इत्ते॑ धे॒नवो॑ दुह्र आ॒शिरं॑ घृ॒तं दु॑ह्रत आ॒शिरं॑ ॥
त्वं नो वायव् एषाम् अपूर्व्यः सोमानाम् प्रथमः पीतिम् अर्हसि सुतानाम् पीतिम् अर्हसि |
उतो विहुत्मतीनां विशां ववर्जुषीणाम् |
विश्वा इत् ते धेनवो दुह्र आशिरं घृतं दुह्रत आशिरम् ||
tvám no vāyaveṣāmápūrvyaḥ sómānām prathamáḥ pītímarhasi sutā́nām pītímarhasi ǀ
utó vihútmatīnām viśā́m vavarjúṣīṇām ǀ
víśvā ítte dhenávo duhra āśíram ghṛtám duhrata āśíram ǁ
tvaṃ no vāyav eṣām apūrvyaḥ somānām prathamaḥ pītim arhasi sutānām pītim arhasi |
uto vihutmatīnāṃ viśāṃ vavarjuṣīṇām |
viśvā it te dhenavo duhra āśiraṃ ghṛtaṃ duhrata āśiram ||
Padapāṭha
त्वम् । नः॒ । वा॒यो॒ इति॑ । ए॒षा॒म् । अपू॑र्व्यः । सोमा॑नाम् । प्र॒थ॒मः । पी॒तिम् । अ॒र्ह॒सि॒ । सु॒ताना॑म् । पी॒तिम् । अ॒र्ह॒सि॒ ।
उ॒तो इति॑ । वि॒हुत्म॑तीनाम् । वि॒शाम् । व॒व॒र्जुषी॑णाम् ।
विश्वाः॑ । इत् । ते॒ । धे॒नवः॑ । दु॒ह्रे॒ । आ॒ऽशिर॑म् । घृ॒तम् । दु॒ह्र॒ते॒ । आ॒ऽशिर॑म् ॥
त्वम् । नः । वायो इति । एषाम् । अपूर्व्यः । सोमानाम् । प्रथमः । पीतिम् । अर्हसि । सुतानाम् । पीतिम् । अर्हसि ।
उतो इति । विहुत्मतीनाम् । विशाम् । ववर्जुषीणाम् ।
विश्वाः । इत् । ते । धेनवः । दुह्रे । आऽशिरम् । घृतम् । दुह्रते । आऽशिरम् ॥
tvám ǀ naḥ ǀ vāyo íti ǀ eṣām ǀ ápūrvyaḥ ǀ sómānām ǀ prathamáḥ ǀ pītím ǀ arhasi ǀ sutā́nām ǀ pītím ǀ arhasi ǀ
utó íti ǀ vihútmatīnām ǀ viśā́m ǀ vavarjúṣīṇām ǀ
víśvāḥ ǀ ít ǀ te ǀ dhenávaḥ ǀ duhre ǀ ā-śíram ǀ ghṛtám ǀ duhrate ǀ ā-śíram ǁ
tvam ǀ naḥ ǀ vāyo iti ǀ eṣām ǀ apūrvyaḥ ǀ somānām ǀ prathamaḥ ǀ pītim ǀ arhasi ǀ sutānām ǀ pītim ǀ arhasi ǀ
uto iti ǀ vihutmatīnām ǀ viśām ǀ vavarjuṣīṇām ǀ
viśvāḥ ǀ it ǀ te ǀ dhenavaḥ ǀ duhre ǀ ā-śiram ǀ ghṛtam ǀ duhrate ǀ ā-śiram ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.134.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.1.23.06
- Maṇḍala · Anuvāka · Ṛk
- 1.20.006
- Devatā देवता
- Vāyu
- Ṛṣi ऋषि
- Parucchepa Daivodāsi
- Chandas छन्दस्
- Atyaṣṭi, Aṣṭi
- Svara स्वरः
- मध्यमः
Text and interpretations from the Ṛgveda database of theveda.org.in.