Ṛgveda · Maṇḍala 1 · Sūkta 147
Ṛk 1.147.1
Saṃhitā
क॒था ते॑ अग्ने शु॒चयं॑त आ॒योर्द॑दा॒शुर्वाजे॑भिराशुषा॒णाः ।
उ॒भे यत्तो॒के तन॑ये॒ दधा॑ना ऋ॒तस्य॒ साम॑न्र॒णयं॑त दे॒वाः ॥
कथा ते अग्ने शुचयन्त आयोर् ददाशुर् वाजेभिर् आशुषाणाः |
उभे यत् तोके तनये दधाना ऋतस्य सामन् रणयन्त देवाः ||
kathā́ te agne śucáyanta āyórdadāśúrvā́jebhirāśuṣāṇā́ḥ ǀ
ubhé yáttoké tánaye dádhānā ṛtásya sā́manraṇáyanta devā́ḥ ǁ
kathā te agne śucayanta āyor dadāśur vājebhir āśuṣāṇāḥ |
ubhe yat toke tanaye dadhānā ṛtasya sāman raṇayanta devāḥ ||
Padapāṭha
क॒था । ते॒ । अ॒ग्ने॒ । शु॒चय॑न्तः । आ॒योः । द॒दा॒शुः । वाजे॑भिः । आ॒शु॒षा॒णाः ।
उ॒भे इति॑ । यत् । तो॒के इति॑ । तन॑ये । दधा॑नाः । ऋ॒तस्य॑ । साम॑न् । र॒णय॑न्त । दे॒वाः ॥
कथा । ते । अग्ने । शुचयन्तः । आयोः । ददाशुः । वाजेभिः । आशुषाणाः ।
उभे इति । यत् । तोके इति । तनये । दधानाः । ऋतस्य । सामन् । रणयन्त । देवाः ॥
kathā́ ǀ te ǀ agne ǀ śucáyantaḥ ǀ āyóḥ ǀ dadāśúḥ ǀ vā́jebhiḥ ǀ āśuṣāṇā́ḥ ǀ
ubhé íti ǀ yát ǀ toké íti ǀ tánaye ǀ dádhānāḥ ǀ ṛtásya ǀ sā́man ǀ raṇáyanta ǀ devā́ḥ ǁ
kathā ǀ te ǀ agne ǀ śucayantaḥ ǀ āyoḥ ǀ dadāśuḥ ǀ vājebhiḥ ǀ āśuṣāṇāḥ ǀ
ubhe iti ǀ yat ǀ toke iti ǀ tanaye ǀ dadhānāḥ ǀ ṛtasya ǀ sāman ǀ raṇayanta ǀ devāḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.147.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.2.16.01
- Maṇḍala · Anuvāka · Ṛk
- 1.21.065
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Dīrghatamas Aucathya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.