Ṛgveda · Maṇḍala 1 · Sūkta 159

Ṛk 1.159.5

Divaḥ, Pṛthivī · Dīrghatamas Aucathya

The whole sūkta Link

Saṃhitā

तद्राधो॑ अ॒द्य स॑वि॒तुर्वरे॑ण्यं व॒यं दे॒वस्य॑ प्रस॒वे म॑नामहे ।
अ॒स्मभ्यं॑ द्यावापृथिवी सुचे॒तुना॑ र॒यिं ध॑त्तं॒ वसु॑मंतं शत॒ग्विनं॑ ॥

तद् राधो अद्य सवितुर् वरेण्यं वयं देवस्य प्रसवे मनामहे |
अस्मभ्यं द्यावापृथिवी सुचेतुना रयिं धत्तं वसुमन्तं शतग्विनम् ||

tádrā́dho adyá savitúrváreṇyam vayám devásya prasavé manāmahe ǀ
asmábhyam dyāvāpṛthivī sucetúnā rayím dhattam vásumantam śatagvínam ǁ

tad rādho adya savitur vareṇyaṃ vayaṃ devasya prasave manāmahe |
asmabhyaṃ dyāvāpṛthivī sucetunā rayiṃ dhattaṃ vasumantaṃ śatagvinam ||

Padapāṭha

तत् । राधः॑ । अ॒द्य । स॒वि॒तुः । वरे॑ण्यम् । व॒यम् । दे॒वस्य॑ । प्र॒ऽस॒वे । म॒ना॒म॒हे॒ ।
अ॒स्मभ्य॑म् । द्या॒वा॒पृ॒थि॒वी॒ इति॑ । सु॒ऽचे॒तुना॑ । र॒यिम् । ध॒त्त॒म् । वसु॑ऽमन्तम् । श॒त॒ऽग्विन॑म् ॥

तत् । राधः । अद्य । सवितुः । वरेण्यम् । वयम् । देवस्य । प्रऽसवे । मनामहे ।
अस्मभ्यम् । द्यावापृथिवी इति । सुऽचेतुना । रयिम् । धत्तम् । वसुऽमन्तम् । शतऽग्विनम् ॥

tát ǀ rā́dhaḥ ǀ adyá ǀ savitúḥ ǀ váreṇyam ǀ vayám ǀ devásya ǀ pra-savé ǀ manāmahe ǀ
asmábhyam ǀ dyāvāpṛthivī íti ǀ su-cetúnā ǀ rayím ǀ dhattam ǀ vásu-mantam ǀ śata-gvínam ǁ

tat ǀ rādhaḥ ǀ adya ǀ savituḥ ǀ vareṇyam ǀ vayam ǀ devasya ǀ pra-save ǀ manāmahe ǀ
asmabhyam ǀ dyāvāpṛthivī iti ǀ su-cetunā ǀ rayim ǀ dhattam ǀ vasu-mantam ǀ śata-gvinam ǁ

References

Maṇḍala · Sūkta · Ṛk
01.159.05
Aṣṭaka · Adhyāya · Varga · Ṛk
2.3.02.00
Devatā देवता
Divaḥ, Pṛthivī
Ṛṣi ऋषि
Dīrghatamas Aucathya
Chandas छन्दस्
Jagatī
Svara स्वरः
निषादः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 1.159.5

Interpretations

Sāyaṇa

तेहीतिपंचर्चंचतुर्थंसूक्तं दैर्घतमसंजागतंद्यावापृथिव्यं तेहीत्यनुक्रांतं चतुर्विंशेहनिवैश्वदेवशस्त्रेद्या- वापृथिव्यनिविद्धानमेतत्सूक्तं तेहिद्यावापृथिवीयज्ञस्यवोरथ्यमितिवैश्वदेवमितिसूत्रितत्वात् तथा पृष्ठ्याभिप्लवषडहयोर्द्वितीयेहनिवैश्वदेवेद्यावापृथिव्यंनिविद्धानीयं चातुर्विंशकंतृतीयसवनमित्या- भिप्लविकेद्वितीयेहन्यतिदिष्टत्वात् आभिप्लविकात् द्वितीयादह्नः पृष्ठ्यस्यद्वितीयेहनिएतत्सूक्तम- तिदेशतः प्राप्तं पृष्ठ्यस्याभिप्लवेनोक्तेअहनीआद्येआद्याभ्यामितिसूत्रितत्वात् प्रथमाआश्विनशस्त्रेवि- नियुक्ता संस्थितेष्वाश्विनायेतिसूत्रितम्—तेहिद्यावापृथिवीविश्वशंभुवाविश्वस्यदेवीमृचयस्येति ।