Ṛk 1.64.14
Saṃhitā
च॒र्कृत्यं॑ मरुतः पृ॒त्सु दु॒ष्टरं॑ द्यु॒मंतं॒ शुष्मं॑ म॒घव॑त्सु धत्तन ।
ध॒न॒स्पृत॑मु॒क्थ्यं॑ वि॒श्वच॑र्षणिं तो॒कं पु॑ष्येम॒ तन॑यं श॒तं हिमाः॑ ॥
चर्कृत्यम् मरुतः पृत्सु दुष्टरं द्युमन्तं शुष्मम् मघवत्सु धत्तन |
धनस्पृतम् उक्थ्यं विश्वचर्षणिं तोकम् पुष्येम तनयं शतं हिमाः ||
carkṛ́tyam marutaḥ pṛtsú duṣṭáram dyumántam śúṣmam maghávatsu dhattana ǀ
dhanaspṛ́tamukthyám viśvácarṣaṇim tokám puṣyema tánayam śatám hímāḥ ǁ
carkṛtyam marutaḥ pṛtsu duṣṭaraṃ dyumantaṃ śuṣmam maghavatsu dhattana |
dhanaspṛtam ukthyaṃ viśvacarṣaṇiṃ tokam puṣyema tanayaṃ śataṃ himāḥ ||
Padapāṭha
च॒र्कृत्य॑म् । म॒रु॒तः॒ । पृ॒त्ऽसु । दु॒स्तर॑म् । द्यु॒ऽमन्त॑म् । शुष्म॑म् । म॒घव॑त्ऽसु । ध॒त्त॒न॒ ।
ध॒न॒ऽस्पृत॑म् । उ॒क्थ्य॑म् । वि॒श्वऽच॑र्षणिम् । तो॒कम् । पु॒ष्ये॒म॒ । तन॑यम् । श॒तम् । हिमाः॑ ॥
चर्कृत्यम् । मरुतः । पृत्ऽसु । दुस्तरम् । द्युऽमन्तम् । शुष्मम् । मघवत्ऽसु । धत्तन ।
धनऽस्पृतम् । उक्थ्यम् । विश्वऽचर्षणिम् । तोकम् । पुष्येम । तनयम् । शतम् । हिमाः ॥
carkṛ́tyam ǀ marutaḥ ǀ pṛt-sú ǀ dustáram ǀ dyu-mántam ǀ śúṣmam ǀ maghávat-su ǀ dhattana ǀ
dhana-spṛ́tam ǀ ukthyám ǀ viśvá-carṣaṇim ǀ tokám ǀ puṣyema ǀ tánayam ǀ śatám ǀ hímāḥ ǁ
carkṛtyam ǀ marutaḥ ǀ pṛt-su ǀ dustaram ǀ dyu-mantam ǀ śuṣmam ǀ maghavat-su ǀ dhattana ǀ
dhana-spṛtam ǀ ukthyam ǀ viśva-carṣaṇim ǀ tokam ǀ puṣyema ǀ tanayam ǀ śatam ǀ himāḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.064.14
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.5.08.00
- Devatā देवता
- Maruts
- Ṛṣi ऋषि
- Nodhas Gautama
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.