Ṛk 1.64.4
Saṃhitā
चि॒त्रैरं॒जिभि॒र्वपु॑षे॒ व्यं॑जते॒ वक्ष॑स्सु रु॒क्माँ अधि॑ येतिरे शु॒भे ।
अंसे॑ष्वेषां॒ नि मि॑मृक्षुर्ऋ॒ष्टयः॑ सा॒कं ज॑ज्ञिरे स्व॒धया॑ दि॒वो नरः॑ ॥
चित्रैर् अञ्जिभिर् वपुषे व्य् अञ्जते वक्षस्सु रुक्मां अधि येतिरे शुभे |
अंसेष्व् एषां नि मिमृक्षुर् ऋष्टयः साकं जज्ञिरे स्वधया दिवो नरः ||
citráirañjíbhirvápuṣe vyáñjate vákṣassu rukmā́m̐ ádhi yetire śubhé ǀ
áṃseṣveṣām ní mimṛkṣurṛṣṭáyaḥ sākám jajñire svadháyā divó náraḥ ǁ
citrair añjibhir vapuṣe vy añjate vakṣassu rukmāṃ adhi yetire śubhe |
aṃseṣv eṣāṃ ni mimṛkṣur ṛṣṭayaḥ sākaṃ jajñire svadhayā divo naraḥ ||
Padapāṭha
चि॒त्रैः । अ॒ञ्जिऽभिः॑ । वपु॑षे । वि । अ॒ञ्ज॒ते॒ । वक्षः॑ऽसु । रु॒क्मान् । अधि॑ । ये॒ति॒रे॒ । शु॒भे ।
अंसे॑षु । ए॒षा॒म् । नि । मि॒मृ॒क्षुः॒ । ऋ॒ष्टयः॑ । सा॒कम् । ज॒ज्ञि॒रे॒ । स्व॒धया॑ । दि॒वः । नरः॑ ॥
चित्रैः । अञ्जिऽभिः । वपुषे । वि । अञ्जते । वक्षःऽसु । रुक्मान् । अधि । येतिरे । शुभे ।
अंसेषु । एषाम् । नि । मिमृक्षुः । ऋष्टयः । साकम् । जज्ञिरे । स्वधया । दिवः । नरः ॥
citráiḥ ǀ añjí-bhiḥ ǀ vápuṣe ǀ ví ǀ añjate ǀ vákṣaḥ-su ǀ rukmā́n ǀ ádhi ǀ yetire ǀ śubhé ǀ
áṃseṣu ǀ eṣām ǀ ní ǀ mimṛkṣuḥ ǀ ṛṣṭáyaḥ ǀ sākám ǀ jajñire ǀ svadháyā ǀ diváḥ ǀ náraḥ ǁ
citraiḥ ǀ añji-bhiḥ ǀ vapuṣe ǀ vi ǀ añjate ǀ vakṣaḥ-su ǀ rukmān ǀ adhi ǀ yetire ǀ śubhe ǀ
aṃseṣu ǀ eṣām ǀ ni ǀ mimṛkṣuḥ ǀ ṛṣṭayaḥ ǀ sākam ǀ jajñire ǀ svadhayā ǀ divaḥ ǀ naraḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.064.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.5.06.00
- Devatā देवता
- Maruts
- Ṛṣi ऋषि
- Nodhas Gautama
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.