Ṛk 1.87.2
Saṃhitā
उ॒प॒ह्व॒रेषु॒ यदचि॑ध्वं य॒यिं वय॑ इव मरुतः॒ केन॑ चित्प॒था ।
श्चोतं॑ति॒ कोशा॒ उप॑ वो॒ रथे॒ष्वा घृ॒तमु॑क्षता॒ मधु॑वर्ण॒मर्च॑ते ॥
उपह्वरेषु यद् अचिध्वं ययिं वय इव मरुतः केन चित् पथा |
श्चोतन्ति कोशा उप वो रथेष्व् आ घृतम् उक्षता मधुवर्णम् अर्चते ||
upahvaréṣu yádácidhvam yayím váya iva marutaḥ kéna citpathā́ ǀ
ścótanti kóśā úpa vo rátheṣvā́ ghṛtámukṣatā mádhuvarṇamárcate ǁ
upahvareṣu yad acidhvaṃ yayiṃ vaya iva marutaḥ kena cit pathā |
ścotanti kośā upa vo ratheṣv ā ghṛtam ukṣatā madhuvarṇam arcate ||
Padapāṭha
उ॒प॒ऽह्व॒रेषु॑ । यत् । अचि॑ध्वम् । य॒यिम् । वयः॑ऽइव । म॒रु॒तः॒ । केन॑ । चि॒त् । प॒था ।
श्चोत॑न्ति । कोशाः॑ । उप॑ । वः॒ । रथे॑षु । आ । घृ॒तम् । उ॒क्ष॒त॒ । मधु॑ऽवर्ण॑म् । अर्च॑ते ॥
उपऽह्वरेषु । यत् । अचिध्वम् । ययिम् । वयःऽइव । मरुतः । केन । चित् । पथा ।
श्चोतन्ति । कोशाः । उप । वः । रथेषु । आ । घृतम् । उक्षत । मधुऽवर्णम् । अर्चते ॥
upa-hvaréṣu ǀ yát ǀ ácidhvam ǀ yayím ǀ váyaḥ-iva ǀ marutaḥ ǀ kéna ǀ cit ǀ pathā́ ǀ
ścótanti ǀ kóśāḥ ǀ úpa ǀ vaḥ ǀ rátheṣu ǀ ā́ ǀ ghṛtám ǀ ukṣata ǀ mádhu-varṇam ǀ árcate ǁ
upa-hvareṣu ǀ yat ǀ acidhvam ǀ yayim ǀ vayaḥ-iva ǀ marutaḥ ǀ kena ǀ cit ǀ pathā ǀ
ścotanti ǀ kośāḥ ǀ upa ǀ vaḥ ǀ ratheṣu ǀ ā ǀ ghṛtam ǀ ukṣata ǀ madhu-varṇam ǀ arcate ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.087.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.6.13.02
- Maṇḍala · Anuvāka · Ṛk
- 1.14.024
- Devatā देवता
- Maruts
- Ṛṣi ऋषि
- Gotama Rāhūgaṇa
- Chandas छन्दस्
- Jagatī
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.