Ṛk 1.87.4
Saṃhitā
स हि स्व॒सृत्पृष॑दश्वो॒ युवा॑ ग॒णो॒३॒॑ऽया ई॑शा॒नस्तवि॑षीभि॒रावृ॑तः ।
असि॑ स॒त्य ऋ॑ण॒यावाने॑द्यो॒ऽस्या धि॒यः प्रा॑वि॒ताथा॒ वृषा॑ ग॒णः ॥
स हि स्वसृत् पृषदश्वो युवा गणो ऽया ईशानस् तविषीभिर् आवृतः |
असि सत्य ऋणयावानेद्यो ऽस्या धियः प्राविताथा वृषा गणः ||
sá hí svasṛ́tpṛ́ṣadaśvo yúvā gaṇó’yā́ īśānástáviṣībhirā́vṛtaḥ ǀ
ási satyá ṛṇayā́vā́nedyo’syā́ dhiyáḥ prāvitā́thā vṛ́ṣā gaṇáḥ ǁ
sa hi svasṛt pṛṣadaśvo yuvā gaṇo 'yā īśānas taviṣībhir āvṛtaḥ |
asi satya ṛṇayāvānedyo 'syā dhiyaḥ prāvitāthā vṛṣā gaṇaḥ ||
Padapāṭha
सः । हि । स्व॒ऽसृत् । पृष॑त्ऽअश्वः । युवा॑ । ग॒णः । अ॒या । ई॒शा॒नः । तवि॑षीभिः । आऽवृ॑तः ।
असि॑ । स॒त्यः । ऋ॒ण॒ऽयावा॑ । अने॑द्यः । अ॒स्याः । धि॒यः । प्र॒ऽअ॒वि॒ता । अथ॑ । वृषा॑ । ग॒णः ॥
सः । हि । स्वऽसृत् । पृषत्ऽअश्वः । युवा । गणः । अया । ईशानः । तविषीभिः । आऽवृतः ।
असि । सत्यः । ऋणऽयावा । अनेद्यः । अस्याः । धियः । प्रऽअविता । अथ । वृषा । गणः ॥
sáḥ ǀ hí ǀ sva-sṛ́t ǀ pṛ́ṣat-aśvaḥ ǀ yúvā ǀ gaṇáḥ ǀ ayā́ ǀ īśānáḥ ǀ táviṣībhiḥ ǀ ā́-vṛtaḥ ǀ
ási ǀ satyáḥ ǀ ṛṇa-yā́vā ǀ ánedyaḥ ǀ asyā́ḥ ǀ dhiyáḥ ǀ pra-avitā́ ǀ átha ǀ vṛ́ṣā ǀ gaṇáḥ ǁ
saḥ ǀ hi ǀ sva-sṛt ǀ pṛṣat-aśvaḥ ǀ yuvā ǀ gaṇaḥ ǀ ayā ǀ īśānaḥ ǀ taviṣībhiḥ ǀ ā-vṛtaḥ ǀ
asi ǀ satyaḥ ǀ ṛṇa-yāvā ǀ anedyaḥ ǀ asyāḥ ǀ dhiyaḥ ǀ pra-avitā ǀ atha ǀ vṛṣā ǀ gaṇaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.087.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.6.13.04
- Maṇḍala · Anuvāka · Ṛk
- 1.14.026
- Devatā देवता
- Maruts
- Ṛṣi ऋषि
- Gotama Rāhūgaṇa
- Chandas छन्दस्
- Jagatī
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.