Ṛgveda · Maṇḍala 1 · Sūkta 125

Ṛk 1.125.7

Svanaya’s Dānastuti · Kakṣīvat Dairghatamasa

The whole sūkta Link

Saṃhitā

मा पृ॒णंतो॒ दुरि॑त॒मेन॒ आर॒न्मा जा॑रिषुः सू॒रयः॑ सुव्र॒तासः॑ ।
अ॒न्यस्तेषां॑ परि॒धिर॑स्तु॒ कश्चि॒दपृ॑णंतम॒भि सं यं॑तु॒ शोकाः॑ ॥

मा पृणन्तो दुरितम् एन आरन् मा जारिषुः सूरयः सुव्रतासः |
अन्यस् तेषाम् परिधिर् अस्तु कश् चिद् अपृणन्तम् अभि सं यन्तु शोकाः ||

mā́ pṛṇánto dúritaména ā́ranmā́ jāriṣuḥ sūráyaḥ suvratā́saḥ ǀ
anyástéṣām paridhírastu káścidápṛṇantamabhí sám yantu śókāḥ ǁ

mā pṛṇanto duritam ena āran mā jāriṣuḥ sūrayaḥ suvratāsaḥ |
anyas teṣām paridhir astu kaś cid apṛṇantam abhi saṃ yantu śokāḥ ||

Padapāṭha

मा । पृ॒णन्तः॑ । दुःऽइ॑तम् । एनः॑ । आ । अ॒र॒न् । मा । जा॒रि॒षुः॒ । सू॒रयः॑ । सु॒ऽव्र॒तासः॑ ।
अ॒न्यः । तेषा॑म् । प॒रि॒ऽधिः । अ॒स्तु॒ । कः । चि॒त् । अपृ॑णन्तम् । अ॒भि । सम् । य॒न्तु॒ । शोकाः॑ ॥

मा । पृणन्तः । दुःऽइतम् । एनः । आ । अरन् । मा । जारिषुः । सूरयः । सुऽव्रतासः ।
अन्यः । तेषाम् । परिऽधिः । अस्तु । कः । चित् । अपृणन्तम् । अभि । सम् । यन्तु । शोकाः ॥

mā́ ǀ pṛṇántaḥ ǀ dúḥ-itam ǀ énaḥ ǀ ā́ ǀ aran ǀ mā́ ǀ jāriṣuḥ ǀ sūráyaḥ ǀ su-vratā́saḥ ǀ
anyáḥ ǀ téṣām ǀ pari-dhíḥ ǀ astu ǀ káḥ ǀ cit ǀ ápṛṇantam ǀ abhí ǀ sám ǀ yantu ǀ śókāḥ ǁ

mā ǀ pṛṇantaḥ ǀ duḥ-itam ǀ enaḥ ǀ ā ǀ aran ǀ mā ǀ jāriṣuḥ ǀ sūrayaḥ ǀ su-vratāsaḥ ǀ
anyaḥ ǀ teṣām ǀ pari-dhiḥ ǀ astu ǀ kaḥ ǀ cit ǀ apṛṇantam ǀ abhi ǀ sam ǀ yantu ǀ śokāḥ ǁ

References

Maṇḍala · Sūkta · Ṛk
01.125.07
Aṣṭaka · Adhyāya · Varga · Ṛk
2.1.10.07
Maṇḍala · Anuvāka · Ṛk
1.18.063
Devatā देवता
Svanaya’s Dānastuti
Ṛṣi ऋषि
Kakṣīvat Dairghatamasa
Chandas छन्दस्
Triṣṭubh, Jagatī
Svara स्वरः
धैवतः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 1.125.7

Interpretations

Sāyaṇa

अमन्दानितिषष्ठंसूक्तम् सप्तेत्यनुवर्तनात्सप्तर्चं आदितः पंचानांकक्षीवानृषिः षष्ठ्याभावयव्यः सप्तम्यारोमशानामब्रह्मवादिनी आदितः पंचानांभावयव्यस्यस्तुतिरूपत्वात्सएवदेवता यातेनोच्य- तइतिन्यायात् अन्त्ययोः षष्ठीसप्तम्योस्तुभावयव्यरोमशयोः संवादः षष्ठ्याभावयव्यः सप्तम्यारोम- शा यद्यपिस्वनयेनदत्ताइतिश्रूयमाणत्वात्तस्यैवस्तुत्याभाव्यं तथापिपितृपुत्रयोरभेदात् आरुद्रासइति- वत् पितृनाम्नाव्यवहर्तुंशक्यत्वात्प्रथमायामृचिभावयव्यस्येत्युक्तत्वाच्च भावयव्यं तुष्टावेत्येतदविरुद्ध- मित्युक्तंपूर्वसूक्तएव आदितः पंचत्रिष्टुभः अन्त्येअनुष्टुभौ तथाचानुक्रान्तं—अमन्दानितिकक्षीवान्दान- तृष्टः पञ्चभिर्भावयव्यंतुष्टावांत्येअनुष्टुभौ भावयव्यरोमशयोर्दंपत्योःसंवादइति उक्तोविनियोगः ।