Ṛgveda · Maṇḍala 1 · Sūkta 131
Ṛk 1.131.2
Saṃhitā
विश्वे॑षु॒ हि त्वा॒ सव॑नेषु तुं॒जते॑ समा॒नमेकं॒ वृष॑मण्यवः॒ पृथ॒क् स्वः॑ सनि॒ष्यवः॒ पृथ॑क् ।
तं त्वा॒ नावं॒ न प॒र्षणिं॑ शू॒षस्य॑ धु॒रि धी॑महि ।
इंद्रं॒ न य॒ज्ञैश्चि॒तयं॑त आ॒यवः॒ स्तोमे॑भि॒रिंद्र॑मा॒यवः॑ ॥
विश्वेषु हि त्वा सवनेषु तुञ्जते समानम् एकं वृषमण्यवः पृथक् स्वः सनिष्यवः पृथक् |
तं त्वा नावं न पर्षणिं शूषस्य धुरि धीमहि |
इन्द्रं न यज्ञैश् चितयन्त आयव स्तोमेभिर् इन्द्रम् आयवः ||
víśveṣu hí tvā sávaneṣu tuñjáte samānámékam vṛ́ṣamaṇyavaḥ pṛ́thak sváḥ saniṣyávaḥ pṛ́thak ǀ
tám tvā nā́vam ná parṣáṇim śūṣásya dhurí dhīmahi ǀ
índram ná yajñáiścitáyanta āyávaḥ stómebhiríndramāyávaḥ ǁ
viśveṣu hi tvā savaneṣu tuñjate samānam ekaṃ vṛṣamaṇyavaḥ pṛthak svaḥ saniṣyavaḥ pṛthak |
taṃ tvā nāvaṃ na parṣaṇiṃ śūṣasya dhuri dhīmahi |
indraṃ na yajñaiś citayanta āyava stomebhir indram āyavaḥ ||
Padapāṭha
विश्वे॑षु । हि । त्वा॒ । सव॑नेषु । तु॒ञ्जते॑ । स॒मा॒नम् । एक॑म् । वृष॑ऽमन्यवः । पृथ॑क् । स्व१॒॑रिति॑ स्वः॑ । स॒नि॒ष्यवः॑ । पृथ॑क् ।
तम् । त्वा॒ । नाव॑म् । न । प॒र्षणि॑म् । शू॒षस्य॑ । धु॒रि । धी॒म॒हि॒ ।
इन्द्र॑म् । न । य॒ज्ञैः । चि॒तय॑न्तः । आ॒यवः॑ । स्तोमे॑भिः । इन्द्र॑म् । आ॒यवः॑ ॥
विश्वेषु । हि । त्वा । सवनेषु । तुञ्जते । समानम् । एकम् । वृषऽमन्यवः । पृथक् । स्वरिति स्वः । सनिष्यवः । पृथक् ।
तम् । त्वा । नावम् । न । पर्षणिम् । शूषस्य । धुरि । धीमहि ।
इन्द्रम् । न । यज्ञैः । चितयन्तः । आयवः । स्तोमेभिः । इन्द्रम् । आयवः ॥
víśveṣu ǀ hí ǀ tvā ǀ sávaneṣu ǀ tuñjáte ǀ samānám ǀ ékam ǀ vṛ́ṣa-manyavaḥ ǀ pṛ́thak ǀ sváríti sváḥ ǀ saniṣyávaḥ ǀ pṛ́thak ǀ
tám ǀ tvā ǀ nā́vam ǀ ná ǀ parṣáṇim ǀ śūṣásya ǀ dhurí ǀ dhīmahi ǀ
índram ǀ ná ǀ yajñáiḥ ǀ citáyantaḥ ǀ āyávaḥ ǀ stómebhiḥ ǀ índram ǀ āyávaḥ ǁ
viśveṣu ǀ hi ǀ tvā ǀ savaneṣu ǀ tuñjate ǀ samānam ǀ ekam ǀ vṛṣa-manyavaḥ ǀ pṛthak ǀ svariti svaḥ ǀ saniṣyavaḥ ǀ pṛthak ǀ
tam ǀ tvā ǀ nāvam ǀ na ǀ parṣaṇim ǀ śūṣasya ǀ dhuri ǀ dhīmahi ǀ
indram ǀ na ǀ yajñaiḥ ǀ citayantaḥ ǀ āyavaḥ ǀ stomebhiḥ ǀ indram ǀ āyavaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.131.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.1.20.02
- Maṇḍala · Anuvāka · Ṛk
- 1.19.042
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Parucchepa Daivodāsi
- Chandas छन्दस्
- Atyaṣṭi
- Svara स्वरः
- मध्यमः
Text and interpretations from the Ṛgveda database of theveda.org.in.