Ṛgveda · Maṇḍala 1 · Sūkta 141
Ṛk 1.141.12
Saṃhitā
उ॒त नः॑ सु॒द्योत्मा॑ जी॒राश्वो॒ होता॑ मं॒द्रः शृ॑णवच्चं॒द्रर॑थः ।
स नो॑ नेष॒न्नेष॑तमै॒रमू॑रो॒ऽग्निर्वा॒मं सु॑वि॒तं वस्यो॒ अच्छ॑ ॥
उत नः सुद्योत्मा जीराश्वो होता मन्द्रः शृणवच् चन्द्ररथः |
स नो नेषन् नेषतमैर् अमूरो ऽग्निर् वामं सुवितं वस्यो अच्छ ||
utá naḥ sudyótmā jīrā́śvo hótā mandráḥ śṛṇavaccandrárathaḥ ǀ
sá no neṣannéṣatamairámūro’gnírvāmám suvitám vásyo áccha ǁ
uta naḥ sudyotmā jīrāśvo hotā mandraḥ śṛṇavac candrarathaḥ |
sa no neṣan neṣatamair amūro 'gnir vāmaṃ suvitaṃ vasyo accha ||
Padapāṭha
उ॒त । नः॒ । सु॒ऽद्योत्मा॑ । जी॒रऽअ॑श्वः । होता॑ । म॒न्द्रः । शृ॒ण॒व॒त् । च॒न्द्रऽर॑थः ।
सः । नः॒ । ने॒ष॒त् । नेष॑ऽतमैः । अमू॑रः । अ॒ग्निः । वा॒मम् । सु॒वि॒तम् । वस्यः॑ । अच्छ॑ ॥
उत । नः । सुऽद्योत्मा । जीरऽअश्वः । होता । मन्द्रः । शृणवत् । चन्द्रऽरथः ।
सः । नः । नेषत् । नेषऽतमैः । अमूरः । अग्निः । वामम् । सुवितम् । वस्यः । अच्छ ॥
utá ǀ naḥ ǀ su-dyótmā ǀ jīrá-aśvaḥ ǀ hótā ǀ mandráḥ ǀ śṛṇavat ǀ candrá-rathaḥ ǀ
sáḥ ǀ naḥ ǀ neṣat ǀ néṣa-tamaiḥ ǀ ámūraḥ ǀ agníḥ ǀ vāmám ǀ suvitám ǀ vásyaḥ ǀ áccha ǁ
uta ǀ naḥ ǀ su-dyotmā ǀ jīra-aśvaḥ ǀ hotā ǀ mandraḥ ǀ śṛṇavat ǀ candra-rathaḥ ǀ
saḥ ǀ naḥ ǀ neṣat ǀ neṣa-tamaiḥ ǀ amūraḥ ǀ agniḥ ǀ vāmam ǀ suvitam ǀ vasyaḥ ǀ accha ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.141.12
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.2.09.00
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Dīrghatamas Aucathya
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.