Ṛgveda · Maṇḍala 1 · Sūkta 141
Ṛk 1.141.13
Saṃhitā
अस्ता॑व्य॒ग्निः शिमी॑वद्भिर॒र्कैः साम्रा॑ज्याय प्रत॒रं दधा॑नः ।
अ॒मी च॒ ये म॒घवा॑नो व॒यं च॒ मिहं॒ न सूरो॒ अति॒ निष्ट॑तन्युः ॥
अस्ताव्य् अग्निः शिमीवद्भिर् अर्कैः साम्राज्याय प्रतरं दधानः |
अमी च ये मघवानो वयं च मिहं न सूरो अति निष् टतन्युः ||
ástāvyagníḥ śímīvadbhirarkáiḥ sā́mrājyāya pratarám dádhānaḥ ǀ
amī́ ca yé maghávāno vayám ca míham ná sū́ro áti níṣṭatanyuḥ ǁ
astāvy agniḥ śimīvadbhir arkaiḥ sāmrājyāya prataraṃ dadhānaḥ |
amī ca ye maghavāno vayaṃ ca mihaṃ na sūro ati niṣ ṭatanyuḥ ||
Padapāṭha
अस्ता॑वि । अ॒ग्निः । शिमी॑वत्ऽभिः । अ॒र्कैः । साम्ऽरा॑ज्याय । प्र॒ऽत॒रम् । दधा॑नः ।
अ॒मी इति॑ । च॒ । ये । म॒घऽवा॑नः । व॒यम् । च॒ । मिह॑म् । न । सूरः॑ । अति॑ । निः । त॒त॒न्युः॒ ॥
अस्तावि । अग्निः । शिमीवत्ऽभिः । अर्कैः । साम्ऽराज्याय । प्रऽतरम् । दधानः ।
अमी इति । च । ये । मघऽवानः । वयम् । च । मिहम् । न । सूरः । अति । निः । ततन्युः ॥
ástāvi ǀ agníḥ ǀ śímīvat-bhiḥ ǀ arkáiḥ ǀ sā́m-rājyāya ǀ pra-tarám ǀ dádhānaḥ ǀ
amī́ íti ǀ ca ǀ yé ǀ maghá-vānaḥ ǀ vayám ǀ ca ǀ míham ǀ ná ǀ sū́raḥ ǀ áti ǀ níḥ ǀ tatanyuḥ ǁ
astāvi ǀ agniḥ ǀ śimīvat-bhiḥ ǀ arkaiḥ ǀ sām-rājyāya ǀ pra-taram ǀ dadhānaḥ ǀ
amī iti ǀ ca ǀ ye ǀ magha-vānaḥ ǀ vayam ǀ ca ǀ miham ǀ na ǀ sūraḥ ǀ ati ǀ niḥ ǀ tatanyuḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.141.13
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.2.09.00
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Dīrghatamas Aucathya
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.