Ṛgveda · Maṇḍala 1 · Sūkta 182
Ṛk 1.182.3
Saṃhitā
किमत्र॑ दस्रा कृणुथः॒ किमा॑साथे॒ जनो॒ यः कश्चि॒दह॑विर्मही॒यते॑ ।
अति॑ क्रमिष्टं जु॒रतं॑ प॒णेरसुं॒ ज्योति॒र्विप्रा॑य कृणुतं वच॒स्यवे॑ ॥
किम् अत्र दस्रा कृणुथः किम् आसाथे जनो यः कश् चिद् अहविर् महीयते |
अति क्रमिष्टं जुरतम् पणेर् असुं ज्योतिर् विप्राय कृणुतं वचस्यवे ||
kímátra dasrā kṛṇuthaḥ kímāsāthe jáno yáḥ káścidáhavirmahīyáte ǀ
áti kramiṣṭam jurátam paṇérásum jyótirvíprāya kṛṇutam vacasyáve ǁ
kim atra dasrā kṛṇuthaḥ kim āsāthe jano yaḥ kaś cid ahavir mahīyate |
ati kramiṣṭaṃ juratam paṇer asuṃ jyotir viprāya kṛṇutaṃ vacasyave ||
Padapāṭha
किम् । अत्र॑ । द॒स्रा॒ । कृ॒णु॒थः॒ । किम् । आ॒सा॒थे॒ इति॑ । जनः॑ । यः । कः । चि॒त् । अह॑विः । म॒ही॒यते॑ ।
अति॑ । क्र॒मि॒ष्ट॒म् । जु॒रत॑म् । प॒णेः । असु॑म् । ज्योतिः॑ । विप्रा॑य । कृ॒णु॒त॒म् । व॒च॒स्यवे॑ ॥
किम् । अत्र । दस्रा । कृणुथः । किम् । आसाथे इति । जनः । यः । कः । चित् । अहविः । महीयते ।
अति । क्रमिष्टम् । जुरतम् । पणेः । असुम् । ज्योतिः । विप्राय । कृणुतम् । वचस्यवे ॥
kím ǀ átra ǀ dasrā ǀ kṛṇuthaḥ ǀ kím ǀ āsāthe íti ǀ jánaḥ ǀ yáḥ ǀ káḥ ǀ cit ǀ áhaviḥ ǀ mahīyáte ǀ
áti ǀ kramiṣṭam ǀ jurátam ǀ paṇéḥ ǀ ásum ǀ jyótiḥ ǀ víprāya ǀ kṛṇutam ǀ vacasyáve ǁ
kim ǀ atra ǀ dasrā ǀ kṛṇuthaḥ ǀ kim ǀ āsāthe iti ǀ janaḥ ǀ yaḥ ǀ kaḥ ǀ cit ǀ ahaviḥ ǀ mahīyate ǀ
ati ǀ kramiṣṭam ǀ juratam ǀ paṇeḥ ǀ asum ǀ jyotiḥ ǀ viprāya ǀ kṛṇutam ǀ vacasyave ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.182.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.4.27.03
- Maṇḍala · Anuvāka · Ṛk
- 1.24.022
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Agastya Maitrāvaruṇi
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.