Ṛgveda · Maṇḍala 1 · Sūkta 182
Ṛk 1.182.7
Saṃhitā
कः स्वि॑द्वृ॒क्षो निष्ठि॑तो॒ मध्ये॒ अर्ण॑सो॒ यं तौ॒ग्र्यो ना॑धि॒तः प॒र्यष॑स्वजत् ।
प॒र्णा मृ॒गस्य॑ प॒तरो॑रिवा॒रभ॒ उद॑श्विना ऊहथुः॒ श्रोम॑ताय॒ कं ॥
कः स्विद् वृक्षो निष्ठितो मध्ये अर्णसो यं तौग्र्यो नाधितः पर्यषस्वजत् |
पर्णा मृगस्य पतरोर् इवारभ उद् अश्विना ऊहथुः श्रोमताय कम् ||
káḥ svidvṛkṣó níṣṭhito mádhye árṇaso yám taugryó nādhitáḥ paryáṣasvajat ǀ
parṇā́ mṛgásya patárorivārábha údaśvinā ūhathuḥ śrómatāya kám ǁ
kaḥ svid vṛkṣo niṣṭhito madhye arṇaso yaṃ taugryo nādhitaḥ paryaṣasvajat |
parṇā mṛgasya pataror ivārabha ud aśvinā ūhathuḥ śromatāya kam ||
Padapāṭha
कः । स्वि॒त् । वृ॒क्षः । निःऽस्थि॑तः । मध्ये॑ । अर्ण॑सः । यम् । तौ॒ग्र्यः । ना॒धि॒तः । प॒रि॒ऽअस॑स्वजत् ।
प॒र्णा । मृ॒गस्य॑ । प॒तरोः॑ऽइव । आ॒ऽरभे॑ । उत् । अ॒श्वि॒ना॒ । ऊ॒ह॒थुः॒ । श्रोम॑ताय । कम् ॥
कः । स्वित् । वृक्षः । निःऽस्थितः । मध्ये । अर्णसः । यम् । तौग्र्यः । नाधितः । परिऽअसस्वजत् ।
पर्णा । मृगस्य । पतरोःऽइव । आऽरभे । उत् । अश्विना । ऊहथुः । श्रोमताय । कम् ॥
káḥ ǀ svit ǀ vṛkṣáḥ ǀ níḥ-sthitaḥ ǀ mádhye ǀ árṇasaḥ ǀ yám ǀ taugryáḥ ǀ nādhitáḥ ǀ pari-ásasvajat ǀ
parṇā́ ǀ mṛgásya ǀ patároḥ-iva ǀ ā-rábhe ǀ út ǀ aśvinā ǀ ūhathuḥ ǀ śrómatāya ǀ kám ǁ
kaḥ ǀ svit ǀ vṛkṣaḥ ǀ niḥ-sthitaḥ ǀ madhye ǀ arṇasaḥ ǀ yam ǀ taugryaḥ ǀ nādhitaḥ ǀ pari-asasvajat ǀ
parṇā ǀ mṛgasya ǀ pataroḥ-iva ǀ ā-rabhe ǀ ut ǀ aśvinā ǀ ūhathuḥ ǀ śromatāya ǀ kam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.182.07
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.4.28.02
- Maṇḍala · Anuvāka · Ṛk
- 1.24.026
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Agastya Maitrāvaruṇi
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.