Ṛk 1.53.1
Saṃhitā
न्यू॒३॒॑ षु वाचं॒ प्र म॒हे भ॑रामहे॒ गिर॒ इंद्रा॑य॒ सद॑ने वि॒वस्व॑तः ।
नू चि॒द्धि रत्नं॑ सस॒तामि॒वावि॑द॒न्न दु॑ष्टु॒तिर्द्र॑विणो॒देषु॑ शस्यते ॥
न्य् ऊ षु वाचम् प्र महे भरामहे गिर इन्द्राय सदने विवस्वतः |
नू चिद् धि रत्नं ससताम् इवाविदन् न दुष्टुतिर् द्रविणोदेषु शस्यते ||
nyū́ ṣú vā́cam prá mahé bharāmahe gíra índrāya sádane vivásvataḥ ǀ
nū́ ciddhí rátnam sasatā́mivā́vidanná duṣṭutírdraviṇodéṣu śasyate ǁ
ny ū ṣu vācam pra mahe bharāmahe gira indrāya sadane vivasvataḥ |
nū cid dhi ratnaṃ sasatām ivāvidan na duṣṭutir draviṇodeṣu śasyate ||
Padapāṭha
नि । ऊं॒ इति॑ । सु । वाच॑म् । प्र । म॒हे । भ॒रा॒म॒हे॒ । गिरः॑ । इन्द्रा॑य । सद॑ने । वि॒वस्व॑तः ।
नु । चि॒त् । हि । रत्न॑म् । स॒स॒ताम्ऽइ॑व । अवि॑दत् । न । दुः॒ऽस्तु॒तिः । द्र॒वि॒णः॒ऽदेषु॑ । श॒स्य॒ते॒ ॥
नि । ऊं इति । सु । वाचम् । प्र । महे । भरामहे । गिरः । इन्द्राय । सदने । विवस्वतः ।
नु । चित् । हि । रत्नम् । ससताम्ऽइव । अविदत् । न । दुःऽस्तुतिः । द्रविणःऽदेषु । शस्यते ॥
ní ǀ ūṃ íti ǀ sú ǀ vā́cam ǀ prá ǀ mahé ǀ bharāmahe ǀ gíraḥ ǀ índrāya ǀ sádane ǀ vivásvataḥ ǀ
nú ǀ cit ǀ hí ǀ rátnam ǀ sasatā́m-iva ǀ ávidat ǀ ná ǀ duḥ-stutíḥ ǀ draviṇaḥ-déṣu ǀ śasyate ǁ
ni ǀ ūṃ iti ǀ su ǀ vācam ǀ pra ǀ mahe ǀ bharāmahe ǀ giraḥ ǀ indrāya ǀ sadane ǀ vivasvataḥ ǀ
nu ǀ cit ǀ hi ǀ ratnam ǀ sasatām-iva ǀ avidat ǀ na ǀ duḥ-stutiḥ ǀ draviṇaḥ-deṣu ǀ śasyate ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.053.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.4.15.01
- Maṇḍala · Anuvāka · Ṛk
- 1.10.031
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Savya Āṅgirasa
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.