Ṛk 1.53.6
Saṃhitā
ते त्वा॒ मदा॑ अमदं॒तानि॒ वृष्ण्या॒ ते सोमा॑सो वृत्र॒हत्ये॑षु सत्पते ।
यत्का॒रवे॒ दश॑ वृ॒त्राण्य॑प्र॒ति ब॒र्हिष्म॑ते॒ नि स॒हस्रा॑णि ब॒र्हयः॑ ॥
ते त्वा मदा अमदन् तानि वृष्ण्या ते सोमासो वृत्रहत्येषु सत्पते |
यत् कारवे दश वृत्राण्य् अप्रति बर्हिष्मते नि सहस्राणि बर्हयः ||
té tvā mádā amadantā́ni vṛ́ṣṇyā té sómāso vṛtrahátyeṣu satpate ǀ
yátkāráve dáśa vṛtrā́ṇyapratí barhíṣmate ní sahásrāṇi barháyaḥ ǁ
te tvā madā amadan tāni vṛṣṇyā te somāso vṛtrahatyeṣu satpate |
yat kārave daśa vṛtrāṇy aprati barhiṣmate ni sahasrāṇi barhayaḥ ||
Padapāṭha
ते । त्वा॒ । मदाः॑ । अ॒म॒द॒न् । तानि॑ । वृष्ण्या॑ । ते । सोमा॑सः । वृ॒त्र॒ऽहत्ये॑षु । स॒त्ऽप॒ते॒ ।
यत् । का॒रवे॑ । दश॑ । वृ॒त्राणि॑ । अ॒प्र॒ति । ब॒र्हिष्म॑ते । नि । स॒हस्रा॑णि । ब॒र्हयः॑ ॥
ते । त्वा । मदाः । अमदन् । तानि । वृष्ण्या । ते । सोमासः । वृत्रऽहत्येषु । सत्ऽपते ।
यत् । कारवे । दश । वृत्राणि । अप्रति । बर्हिष्मते । नि । सहस्राणि । बर्हयः ॥
té ǀ tvā ǀ mádāḥ ǀ amadan ǀ tā́ni ǀ vṛ́ṣṇyā ǀ té ǀ sómāsaḥ ǀ vṛtra-hátyeṣu ǀ sat-pate ǀ
yát ǀ kāráve ǀ dáśa ǀ vṛtrā́ṇi ǀ apratí ǀ barhíṣmate ǀ ní ǀ sahásrāṇi ǀ barháyaḥ ǁ
te ǀ tvā ǀ madāḥ ǀ amadan ǀ tāni ǀ vṛṣṇyā ǀ te ǀ somāsaḥ ǀ vṛtra-hatyeṣu ǀ sat-pate ǀ
yat ǀ kārave ǀ daśa ǀ vṛtrāṇi ǀ aprati ǀ barhiṣmate ǀ ni ǀ sahasrāṇi ǀ barhayaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.053.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.4.16.01
- Maṇḍala · Anuvāka · Ṛk
- 1.10.036
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Savya Āṅgirasa
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.