Ṛgveda · Maṇḍala 1 · Sūkta 139
Ṛk 1.139.9
Saṃhitā
द॒ध्यङ् ह॑ मे ज॒नुषं॒ पूर्वो॒ अंगि॑राः प्रि॒यमे॑धः॒ कण्वो॒ अत्रि॒र्मनु॑र्विदु॒स्ते मे॒ पूर्वे॒ मनु॑र्विदुः ।
तेषां॑ दे॒वेष्वाय॑तिर॒स्माकं॒ तेषु॒ नाभ॑यः ।
तेषां॑ प॒देन॒ मह्या न॑मे गि॒रेंद्रा॒ग्नी आ न॑मे गि॒रा ॥
दध्यङ् ह मे जनुषम् पूर्वो अङ्गिराः प्रियमेधः कण्वो अत्रिर् मनुर् विदुस् ते मे पूर्वे मनुर् विदुः |
तेषां देवेष्व् आयतिर् अस्माकं तेषु नाभयः |
तेषाम् पदेन मह्य् आ नमे गिरेन्द्राग्नी आ नमे गिरा ||
dadhyáṅ ha me janúṣam pū́rvo áṅgirāḥ priyámedhaḥ káṇvo átrirmánurvidusté me pū́rve mánurviduḥ ǀ
téṣām devéṣvā́yatirasmā́kam téṣu nā́bhayaḥ ǀ
téṣām padéna máhyā́ name giréndrāgnī́ ā́ name girā́ ǁ
dadhyaṅ ha me januṣam pūrvo aṅgirāḥ priyamedhaḥ kaṇvo atrir manur vidus te me pūrve manur viduḥ |
teṣāṃ deveṣv āyatir asmākaṃ teṣu nābhayaḥ |
teṣām padena mahy ā name girendrāgnī ā name girā ||
Padapāṭha
द॒ध्यङ् । ह॒ । मे॒ । ज॒नुष॑म् । पूर्वः॑ । अङ्गि॑राः । प्रि॒यऽमे॑धः । कण्वः॑ । अत्रिः॑ । मनुः॑ । वि॒दुः॒ । ते । मे॒ । पूर्वे॑ । मनुः॑ । वि॒दुः॒ ।
तेषा॑म् । दे॒वेषु॑ । आऽय॑तिः । अ॒स्माक॑म् । तेषु॑ । नाभ॑यः ।
तेषा॑म् । प॒देन॑ । महि॑ । आ । न॒मे॒ । गि॒रा । इ॒न्द्रा॒ग्नी इति॑ । आ । न॒मे॒ । गि॒रा ॥
दध्यङ् । ह । मे । जनुषम् । पूर्वः । अङ्गिराः । प्रियऽमेधः । कण्वः । अत्रिः । मनुः । विदुः । ते । मे । पूर्वे । मनुः । विदुः ।
तेषाम् । देवेषु । आऽयतिः । अस्माकम् । तेषु । नाभयः ।
तेषाम् । पदेन । महि । आ । नमे । गिरा । इन्द्राग्नी इति । आ । नमे । गिरा ॥
dadhyáṅ ǀ ha ǀ me ǀ janúṣam ǀ pū́rvaḥ ǀ áṅgirāḥ ǀ priyá-medhaḥ ǀ káṇvaḥ ǀ átriḥ ǀ mánuḥ ǀ viduḥ ǀ té ǀ me ǀ pū́rve ǀ mánuḥ ǀ viduḥ ǀ
téṣām ǀ devéṣu ǀ ā́-yatiḥ ǀ asmā́kam ǀ téṣu ǀ nā́bhayaḥ ǀ
téṣām ǀ padéna ǀ máhi ǀ ā́ ǀ name ǀ girā́ ǀ indrāgnī́ íti ǀ ā́ ǀ name ǀ girā́ ǁ
dadhyaṅ ǀ ha ǀ me ǀ januṣam ǀ pūrvaḥ ǀ aṅgirāḥ ǀ priya-medhaḥ ǀ kaṇvaḥ ǀ atriḥ ǀ manuḥ ǀ viduḥ ǀ te ǀ me ǀ pūrve ǀ manuḥ ǀ viduḥ ǀ
teṣām ǀ deveṣu ǀ ā-yatiḥ ǀ asmākam ǀ teṣu ǀ nābhayaḥ ǀ
teṣām ǀ padena ǀ mahi ǀ ā ǀ name ǀ girā ǀ indrāgnī iti ǀ ā ǀ name ǀ girā ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.139.09
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.2.04.00
- Devatā देवता
- 1: Agni, Indra, Vāyu; 2: Mitra, Varuṇa; 3-5: Aśvins; 6: Indra; 7: Agni; 8: Maruts; 9: Aṅgirasas, Indra, Agni; 10: Bṛhaspati; 11: Viśvedevās
- Ṛṣi ऋषि
- Parucchepa Daivodāsi
- Chandas छन्दस्
- Atyaṣṭi, Bṛhatī, Triṣṭubh
- Svara स्वरः
- मध्यमः
Text and interpretations from the Ṛgveda database of theveda.org.in.