Ṛk 1.16.5
Saṃhitā
सेमं नः॒ स्तोम॒मा ग॒ह्युपे॒दं सव॑नं सु॒तं ।
गौ॒रो न तृ॑षि॒तः पि॑ब ॥
सेमं न स्तोमम् आ गह्य् उपेदं सवनं सुतम् |
गौरो न तृषितः पिब ||
sémám naḥ stómamā́ gahyúpedám sávanam sutám ǀ
gauró ná tṛṣitáḥ piba ǁ
semaṃ na stomam ā gahy upedaṃ savanaṃ sutam |
gauro na tṛṣitaḥ piba ||
Padapāṭha
सः । इ॒मम् । नः॒ । स्तोम॑म् । आ । ग॒हि॒ । उप॑ । इ॒दम् । सव॑नम् । सु॒तम् ।
गौ॒रः । न । तृ॒षि॒तः । पि॒ब॒ ॥
सः । इमम् । नः । स्तोमम् । आ । गहि । उप । इदम् । सवनम् । सुतम् ।
गौरः । न । तृषितः । पिब ॥
sáḥ ǀ imám ǀ naḥ ǀ stómam ǀ ā́ ǀ gahi ǀ úpa ǀ idám ǀ sávanam ǀ sutám ǀ
gauráḥ ǀ ná ǀ tṛṣitáḥ ǀ piba ǁ
saḥ ǀ imam ǀ naḥ ǀ stomam ǀ ā ǀ gahi ǀ upa ǀ idam ǀ savanam ǀ sutam ǀ
gauraḥ ǀ na ǀ tṛṣitaḥ ǀ piba ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.016.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.1.30.05
- Maṇḍala · Anuvāka · Ṛk
- 01.04.053
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Medhātithi Kāṇva
- Chandas छन्दस्
- Gāyatrī
- Svara स्वरः
- षड्जः
Text and interpretations from the Ṛgveda database of theveda.org.in.