Ṛk 1.16.8
Saṃhitā
विश्व॒मित्सव॑नं सु॒तमिंद्रो॒ मदा॑य गच्छति ।
वृ॒त्र॒हा सोम॑पीतये ॥
विश्वम् इत् सवनं सुतम् इन्द्रो मदाय गच्छति |
वृत्रहा सोमपीतये ||
víśvamítsávanam sutámíndro mádāya gacchati ǀ
vṛtrahā́ sómapītaye ǁ
viśvam it savanaṃ sutam indro madāya gacchati |
vṛtrahā somapītaye ||
Padapāṭha
विश्व॑म् । इत् । सव॑नम् । सु॒तम् । इन्द्रः॑ । मदा॑य । ग॒च्छ॒ति॒ ।
वृ॒त्र॒ऽहा । सोम॑ऽपीतये ॥
विश्वम् । इत् । सवनम् । सुतम् । इन्द्रः । मदाय । गच्छति ।
वृत्रऽहा । सोमऽपीतये ॥
víśvam ǀ ít ǀ sávanam ǀ sutám ǀ índraḥ ǀ mádāya ǀ gacchati ǀ
vṛtra-hā́ ǀ sóma-pītaye ǁ
viśvam ǀ it ǀ savanam ǀ sutam ǀ indraḥ ǀ madāya ǀ gacchati ǀ
vṛtra-hā ǀ soma-pītaye ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.016.08
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.1.31.03
- Maṇḍala · Anuvāka · Ṛk
- 01.04.056
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Medhātithi Kāṇva
- Chandas छन्दस्
- Gāyatrī
- Svara स्वरः
- षड्जः
Text and interpretations from the Ṛgveda database of theveda.org.in.