Ṛgveda · Maṇḍala 1 · Sūkta 115
Ṛk 1.115.2
Saṃhitā
सूर्यो॑ दे॒वीमु॒षसं॒ रोच॑मानां॒ मर्यो॒ न योषा॑म॒भ्ये॑ति प॒श्चात् ।
यत्रा॒ नरो॑ देव॒यंतो॑ यु॒गानि॑ वितन्व॒ते प्रति॑ भ॒द्राय॑ भ॒द्रं ॥
सूर्यो देवीम् उषसं रोचमानाम् मर्यो न योषाम् अभ्य् एति पश्चात् |
यत्रा नरो देवयन्तो युगानि वितन्वते प्रति भद्राय भद्रम् ||
sū́ryo devī́muṣásam rócamānām máryo ná yóṣāmabhyéti paścā́t ǀ
yátrā náro devayánto yugā́ni vitanvaté práti bhadrā́ya bhadrám ǁ
sūryo devīm uṣasaṃ rocamānām maryo na yoṣām abhy eti paścāt |
yatrā naro devayanto yugāni vitanvate prati bhadrāya bhadram ||
Padapāṭha
सूर्यः॑ । दे॒वीम् । उ॒षस॑म् । रोच॑मानाम् । मर्यः॑ । न । योषा॑म् । अ॒भि । ए॒ति॒ । प॒श्चात् ।
यत्र॑ । नरः॑ । दे॒व॒ऽयन्तः॑ । यु॒गानि॑ । वि॒ऽत॒न्व॒ते । प्रति॑ । भ॒द्राय॑ । भ॒द्रम् ॥
सूर्यः । देवीम् । उषसम् । रोचमानाम् । मर्यः । न । योषाम् । अभि । एति । पश्चात् ।
यत्र । नरः । देवऽयन्तः । युगानि । विऽतन्वते । प्रति । भद्राय । भद्रम् ॥
sū́ryaḥ ǀ devī́m ǀ uṣásam ǀ rócamānām ǀ máryaḥ ǀ ná ǀ yóṣām ǀ abhí ǀ eti ǀ paścā́t ǀ
yátra ǀ náraḥ ǀ deva-yántaḥ ǀ yugā́ni ǀ vi-tanvaté ǀ práti ǀ bhadrā́ya ǀ bhadrám ǁ
sūryaḥ ǀ devīm ǀ uṣasam ǀ rocamānām ǀ maryaḥ ǀ na ǀ yoṣām ǀ abhi ǀ eti ǀ paścāt ǀ
yatra ǀ naraḥ ǀ deva-yantaḥ ǀ yugāni ǀ vi-tanvate ǀ prati ǀ bhadrāya ǀ bhadram ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.115.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.8.07.00
- Devatā देवता
- Sūrya
- Ṛṣi ऋषि
- Kutsa Āṅgirasa
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.