Ṛgveda · Maṇḍala 1 · Sūkta 115
Ṛk 1.115.5
Saṃhitā
तन्मि॒त्रस्य॒ वरु॑णस्याभि॒चक्षे॒ सूर्यो॑ रू॒पं कृ॑णुते॒ द्योरु॒पस्थे॑ ।
अ॒नं॒तम॒न्यद्रुश॑दस्य॒ पाजः॑ कृ॒ष्णम॒न्यद्ध॒रितः॒ सं भ॑रंति ॥
तन् मित्रस्य वरुणस्याभिचक्षे सूर्यो रूपं कृणुते द्योर् उपस्थे |
अनन्तम् अन्यद् रुशद् अस्य पाजः कृष्णम् अन्यद् धरितः सम् भरन्ति ||
tánmitrásya váruṇasyābhicákṣe sū́ryo rūpám kṛṇute dyórupásthe ǀ
anantámanyádrúśadasya pā́jaḥ kṛṣṇámanyáddharítaḥ sám bharanti ǁ
tan mitrasya varuṇasyābhicakṣe sūryo rūpaṃ kṛṇute dyor upasthe |
anantam anyad ruśad asya pājaḥ kṛṣṇam anyad dharitaḥ sam bharanti ||
Padapāṭha
तत् । मि॒त्रस्य॑ । वरु॑णस्य । अ॒भि॒ऽचक्षे॑ । सूर्यः॑ । रू॒पम् । कृ॒णु॒ते॒ । द्योः । उ॒पऽस्थे॑ ।
अ॒न॒न्तम् । अ॒न्यत् । रुश॑त् । अ॒स्य॒ । पाजः॑ । कृ॒ष्णम् । अ॒न्यत् । ह॒रितः॑ । सम् । भ॒र॒न्ति॒ ॥
तत् । मित्रस्य । वरुणस्य । अभिऽचक्षे । सूर्यः । रूपम् । कृणुते । द्योः । उपऽस्थे ।
अनन्तम् । अन्यत् । रुशत् । अस्य । पाजः । कृष्णम् । अन्यत् । हरितः । सम् । भरन्ति ॥
tát ǀ mitrásya ǀ váruṇasya ǀ abhi-cákṣe ǀ sū́ryaḥ ǀ rūpám ǀ kṛṇute ǀ dyóḥ ǀ upá-sthe ǀ
anantám ǀ anyát ǀ rúśat ǀ asya ǀ pā́jaḥ ǀ kṛṣṇám ǀ anyát ǀ harítaḥ ǀ sám ǀ bharanti ǁ
tat ǀ mitrasya ǀ varuṇasya ǀ abhi-cakṣe ǀ sūryaḥ ǀ rūpam ǀ kṛṇute ǀ dyoḥ ǀ upa-sthe ǀ
anantam ǀ anyat ǀ ruśat ǀ asya ǀ pājaḥ ǀ kṛṣṇam ǀ anyat ǀ haritaḥ ǀ sam ǀ bharanti ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.115.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.8.07.00
- Devatā देवता
- Sūrya
- Ṛṣi ऋषि
- Kutsa Āṅgirasa
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.