Ṛgveda · Maṇḍala 1 · Sūkta 115
Ṛk 1.115.4
Saṃhitā
तत्सूर्य॑स्य देव॒त्वं तन्म॑हि॒त्वं म॒ध्या कर्तो॒र्वित॑तं॒ सं ज॑भार ।
य॒देदयु॑क्त ह॒रितः॑ स॒धस्था॒दाद्रात्री॒ वास॑स्तनुते सि॒मस्मै॑ ॥
तत् सूर्यस्य देवत्वं तन् महित्वम् मध्या कर्तोर् विततं सं जभार |
यदेद् अयुक्त हरितः सधस्थाद् आद् रात्री वासस् तनुते सिमस्मै ||
tátsū́ryasya devatvám tánmahitvám madhyā́ kártorvítatam sám jabhāra ǀ
yadédáyukta harítaḥ sadhásthādā́drā́trī vā́sastanute simásmai ǁ
tat sūryasya devatvaṃ tan mahitvam madhyā kartor vitataṃ saṃ jabhāra |
yaded ayukta haritaḥ sadhasthād ād rātrī vāsas tanute simasmai ||
Padapāṭha
तत् । सूर्य॑स्य । दे॒व॒ऽत्वम् । तत् । म॒हि॒ऽत्वम् । म॒ध्या । कर्तोः॑ । विऽत॑तम् । सम् । ज॒भा॒र॒ ।
य॒दा । इत् । अयु॑क्त । ह॒रितः॑ । स॒धऽस्था॑त् । आत् । रात्री॑ । वासः॑ । त॒नु॒ते॒ । सि॒मस्मै॑ ॥
तत् । सूर्यस्य । देवऽत्वम् । तत् । महिऽत्वम् । मध्या । कर्तोः । विऽततम् । सम् । जभार ।
यदा । इत् । अयुक्त । हरितः । सधऽस्थात् । आत् । रात्री । वासः । तनुते । सिमस्मै ॥
tát ǀ sū́ryasya ǀ deva-tvám ǀ tát ǀ mahi-tvám ǀ madhyā́ ǀ kártoḥ ǀ ví-tatam ǀ sám ǀ jabhāra ǀ
yadā́ ǀ ít ǀ áyukta ǀ harítaḥ ǀ sadhá-sthāt ǀ ā́t ǀ rā́trī ǀ vā́saḥ ǀ tanute ǀ simásmai ǁ
tat ǀ sūryasya ǀ deva-tvam ǀ tat ǀ mahi-tvam ǀ madhyā ǀ kartoḥ ǀ vi-tatam ǀ sam ǀ jabhāra ǀ
yadā ǀ it ǀ ayukta ǀ haritaḥ ǀ sadha-sthāt ǀ āt ǀ rātrī ǀ vāsaḥ ǀ tanute ǀ simasmai ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.115.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.8.07.00
- Devatā देवता
- Sūrya
- Ṛṣi ऋषि
- Kutsa Āṅgirasa
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.