Ṛgveda · Maṇḍala 1 · Sūkta 115
Ṛk 1.115.1
Saṃhitā
चि॒त्रं दे॒वाना॒मुद॑गा॒दनी॑कं॒ चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः ।
आप्रा॒ द्यावा॑पृथि॒वी अं॒तरि॑क्षं॒ सूर्य॑ आ॒त्मा जग॑तस्त॒स्थुष॑श्च ॥
चित्रं देवानाम् उद् अगाद् अनीकं चक्षुर् मित्रस्य वरुणस्याग्नेः |
आप्रा द्यावापृथिवी अन्तरिक्षं सूर्य आत्मा जगतस् तस्थुषश् च ||
citrám devā́nāmúdagādánīkam cákṣurmitrásya váruṇasyāgnéḥ ǀ
ā́prā dyā́vāpṛthivī́ antárikṣam sū́rya ātmā́ jágatastasthúṣaśca ǁ
citraṃ devānām ud agād anīkaṃ cakṣur mitrasya varuṇasyāgneḥ |
āprā dyāvāpṛthivī antarikṣaṃ sūrya ātmā jagatas tasthuṣaś ca ||
Padapāṭha
चि॒त्रम् । दे॒वाना॑म् । उत् । अ॒गा॒त् । अनी॑कम् । चक्षुः॑ । मि॒त्रस्य॑ । वरु॑णस्य । अ॒ग्नेः ।
आ । अ॒प्राः॒ । द्यावा॑पृथि॒वी इति॑ । अ॒न्तरि॑क्षम् । सूर्यः॑ । आ॒त्मा । जग॑तः । त॒स्थुषः॑ । च॒ ॥
चित्रम् । देवानाम् । उत् । अगात् । अनीकम् । चक्षुः । मित्रस्य । वरुणस्य । अग्नेः ।
आ । अप्राः । द्यावापृथिवी इति । अन्तरिक्षम् । सूर्यः । आत्मा । जगतः । तस्थुषः । च ॥
citrám ǀ devā́nām ǀ út ǀ agāt ǀ ánīkam ǀ cákṣuḥ ǀ mitrásya ǀ váruṇasya ǀ agnéḥ ǀ
ā́ ǀ aprāḥ ǀ dyā́vāpṛthivī́ íti ǀ antárikṣam ǀ sū́ryaḥ ǀ ātmā́ ǀ jágataḥ ǀ tasthúṣaḥ ǀ ca ǁ
citram ǀ devānām ǀ ut ǀ agāt ǀ anīkam ǀ cakṣuḥ ǀ mitrasya ǀ varuṇasya ǀ agneḥ ǀ
ā ǀ aprāḥ ǀ dyāvāpṛthivī iti ǀ antarikṣam ǀ sūryaḥ ǀ ātmā ǀ jagataḥ ǀ tasthuṣaḥ ǀ ca ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.115.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.8.07.00
- Devatā देवता
- Sūrya
- Ṛṣi ऋषि
- Kutsa Āṅgirasa
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.