Ṛk 1.76.4
Saṃhitā
प्र॒जाव॑ता॒ वच॑सा॒ वह्नि॑रा॒सा च॑ हु॒वे नि च॑ सत्सी॒ह दे॒वैः ।
वेषि॑ हो॒त्रमु॒त पो॒त्रं य॑जत्र बो॒धि प्र॑यंतर्जनित॒र्वसू॑नां ॥
प्रजावता वचसा वह्निर् आसा च हुवे नि च सत्सीह देवैः |
वेषि होत्रम् उत पोत्रं यजत्र बोधि प्रयन्तर् जनितर् वसूनाम् ||
prajā́vatā vácasā váhnirāsā́ ca huvé ní ca satsīhá deváiḥ ǀ
véṣi hotrámutá potrám yajatra bodhí prayantarjanitarvásūnām ǁ
prajāvatā vacasā vahnir āsā ca huve ni ca satsīha devaiḥ |
veṣi hotram uta potraṃ yajatra bodhi prayantar janitar vasūnām ||
Padapāṭha
प्र॒जाऽव॑ता । वच॑सा । वह्निः॑ । आ॒सा । आ । च॒ । हु॒वे । नि । च॒ । स॒त्सि॒ । इ॒ह । दे॒वैः ।
वेषि॑ । हो॒त्रम् । उ॒त । पो॒त्रम् । य॒ज॒त्र॒ । बो॒धि । प्र॒ऽय॒न्तः॒ । ज॒नि॒तः॒ । वसू॑नाम् ॥
प्रजाऽवता । वचसा । वह्निः । आसा । आ । च । हुवे । नि । च । सत्सि । इह । देवैः ।
वेषि । होत्रम् । उत । पोत्रम् । यजत्र । बोधि । प्रऽयन्तः । जनितः । वसूनाम् ॥
prajā́-vatā ǀ vácasā ǀ váhniḥ ǀ āsā́ ǀ ā́ ǀ ca ǀ huvé ǀ ní ǀ ca ǀ satsi ǀ ihá ǀ deváiḥ ǀ
véṣi ǀ hotrám ǀ utá ǀ potrám ǀ yajatra ǀ bodhí ǀ pra-yantaḥ ǀ janitaḥ ǀ vásūnām ǁ
prajā-vatā ǀ vacasā ǀ vahniḥ ǀ āsā ǀ ā ǀ ca ǀ huve ǀ ni ǀ ca ǀ satsi ǀ iha ǀ devaiḥ ǀ
veṣi ǀ hotram ǀ uta ǀ potram ǀ yajatra ǀ bodhi ǀ pra-yantaḥ ǀ janitaḥ ǀ vasūnām ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.076.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.5.24.04
- Maṇḍala · Anuvāka · Ṛk
- 1.13.018
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Gotama Rāhūgaṇa
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.