Ṛk 1.95.10
Saṃhitā
धन्व॒न्त्स्रोतः॑ कृणुते गा॒तुमू॒र्मिं शु॒क्रैरू॒र्मिभि॑र॒भि न॑क्षति॒ क्षां ।
विश्वा॒ सना॑नि ज॒ठरे॑षु धत्ते॒ऽंतर्नवा॑सु चरति प्र॒सूषु॑ ॥
धन्वन् स्रोतः कृणुते गातुम् ऊर्मिं शुक्रैर् ऊर्मिभिर् अभि नक्षति क्षाम् |
विश्वा सनानि जठरेषु धत्ते ऽन्तर् नवासु चरति प्रसूषु ||
dhánvantsrótaḥ kṛṇute gātúmūrmím śukráirūrmíbhirabhí nakṣati kṣā́m ǀ
víśvā sánāni jaṭháreṣu dhatte’ntárnávāsu carati prasū́ṣu ǁ
dhanvan srotaḥ kṛṇute gātum ūrmiṃ śukrair ūrmibhir abhi nakṣati kṣām |
viśvā sanāni jaṭhareṣu dhatte 'ntar navāsu carati prasūṣu ||
Padapāṭha
धन्व॑न् । स्रोतः॑ । कृ॒णु॒ते॒ । गा॒तुम् । ऊ॒र्मिम् । शु॒क्रैः । ऊ॒र्मिऽभिः॑ । अ॒भि । न॒क्ष॒ति॒ । क्षाम् ।
विश्वा॑ । सना॑नि । ज॒ठरे॑षु । ध॒त्ते॒ । अ॒न्तः । नवा॑सु । च॒र॒ति॒ । प्र॒ऽसूषु॑ ॥
धन्वन् । स्रोतः । कृणुते । गातुम् । ऊर्मिम् । शुक्रैः । ऊर्मिऽभिः । अभि । नक्षति । क्षाम् ।
विश्वा । सनानि । जठरेषु । धत्ते । अन्तः । नवासु । चरति । प्रऽसूषु ॥
dhánvan ǀ srótaḥ ǀ kṛṇute ǀ gātúm ǀ ūrmím ǀ śukráiḥ ǀ ūrmí-bhiḥ ǀ abhí ǀ nakṣati ǀ kṣā́m ǀ
víśvā ǀ sánāni ǀ jaṭháreṣu ǀ dhatte ǀ antáḥ ǀ návāsu ǀ carati ǀ pra-sū́ṣu ǁ
dhanvan ǀ srotaḥ ǀ kṛṇute ǀ gātum ǀ ūrmim ǀ śukraiḥ ǀ ūrmi-bhiḥ ǀ abhi ǀ nakṣati ǀ kṣām ǀ
viśvā ǀ sanāni ǀ jaṭhareṣu ǀ dhatte ǀ antaḥ ǀ navāsu ǀ carati ǀ pra-sūṣu ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.095.10
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.7.02.00
- Devatā देवता
- Agni, Or The Fire At Dawn
- Ṛṣi ऋषि
- Kutsa Āṅgirasa
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.