Ṛk 1.95.7
Saṃhitā
उद्यं॑यमीति सवि॒तेव॑ बा॒हू उ॒भे सिचौ॑ यतते भी॒म ऋं॒जन् ।
उच्छु॒क्रमत्क॑मजते सि॒मस्मा॒न्नवा॑ मा॒तृभ्यो॒ वस॑ना जहाति ॥
उद् यंयमीति सवितेव बाहू उभे सिचौ यतते भीम ऋञ्जन् |
उच् छुक्रम् अत्कम् अजते सिमस्मान् नवा मातृभ्यो वसना जहाति ||
údyaṃyamīti savitéva bāhū́ ubhé sícau yatate bhīmá ṛñján ǀ
úcchukrámátkamajate simásmānnávā mātṛ́bhyo vásanā jahāti ǁ
ud yaṃyamīti saviteva bāhū ubhe sicau yatate bhīma ṛñjan |
uc chukram atkam ajate simasmān navā mātṛbhyo vasanā jahāti ||
Padapāṭha
उत् । य॒म्य॒मी॒ति॒ । स॒वि॒ताऽइ॑व । बा॒हू इति॑ । उ॒भे इति॑ । सिचौ॑ । य॒त॒ते॒ । भी॒मः । ऋ॒ञ्जन् ।
उत् । शु॒क्रम् । अत्क॑म् । अ॒ज॒ते॒ । सि॒मस्मा॑त् । नवा॑ । मा॒तृऽभ्यः॑ । वस॑ना । ज॒हा॒ति॒ ॥
उत् । यम्यमीति । सविताऽइव । बाहू इति । उभे इति । सिचौ । यतते । भीमः । ऋञ्जन् ।
उत् । शुक्रम् । अत्कम् । अजते । सिमस्मात् । नवा । मातृऽभ्यः । वसना । जहाति ॥
út ǀ yamyamīti ǀ savitā́-iva ǀ bāhū́ íti ǀ ubhé íti ǀ sícau ǀ yatate ǀ bhīmáḥ ǀ ṛñján ǀ
út ǀ śukrám ǀ átkam ǀ ajate ǀ simásmāt ǀ návā ǀ mātṛ́-bhyaḥ ǀ vásanā ǀ jahāti ǁ
ut ǀ yamyamīti ǀ savitā-iva ǀ bāhū iti ǀ ubhe iti ǀ sicau ǀ yatate ǀ bhīmaḥ ǀ ṛñjan ǀ
ut ǀ śukram ǀ atkam ǀ ajate ǀ simasmāt ǀ navā ǀ mātṛ-bhyaḥ ǀ vasanā ǀ jahāti ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.095.07
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.7.02.00
- Devatā देवता
- Agni, Or The Fire At Dawn
- Ṛṣi ऋषि
- Kutsa Āṅgirasa
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.