Ṛk 1.95.8
Saṃhitā
त्वे॒षं रू॒पं कृ॑णुत॒ उत्त॑रं॒ यत्सं॑पृंचा॒नः सद॑ने॒ गोभि॑र॒द्भिः ।
क॒विर्बु॒ध्नं परि॑ मर्मृज्यते॒ धीः सा दे॒वता॑ता॒ समि॑तिर्बभूव ॥
त्वेषं रूपं कृणुत उत्तरं यत् सम्पृञ्चानः सदने गोभिर् अद्भिः |
कविर् बुध्नम् परि मर्मृज्यते धीः सा देवताता समितिर् बभूव ||
tveṣám rūpám kṛṇuta úttaram yátsampṛñcānáḥ sádane góbhiradbhíḥ ǀ
kavírbudhnám pári marmṛjyate dhī́ḥ sā́ devátātā sámitirbabhūva ǁ
tveṣaṃ rūpaṃ kṛṇuta uttaraṃ yat sampṛñcānaḥ sadane gobhir adbhiḥ |
kavir budhnam pari marmṛjyate dhīḥ sā devatātā samitir babhūva ||
Padapāṭha
त्वे॒षम् । रू॒पम् । कृ॒णु॒ते॒ । उत्ऽत॑रम् । यत् । स॒म्ऽपृ॒ञ्चा॒नः । सद॑ने । गोभिः॑ । अ॒त्ऽभिः ।
क॒विः । बु॒ध्नम् । परि॑ । म॒र्मृ॒ज्य॒ते॒ । धीः । सा । दे॒वऽता॑ता । सम्ऽइ॑तिः । ब॒भू॒व॒ ॥
त्वेषम् । रूपम् । कृणुते । उत्ऽतरम् । यत् । सम्ऽपृञ्चानः । सदने । गोभिः । अत्ऽभिः ।
कविः । बुध्नम् । परि । मर्मृज्यते । धीः । सा । देवऽताता । सम्ऽइतिः । बभूव ॥
tveṣám ǀ rūpám ǀ kṛṇute ǀ út-taram ǀ yát ǀ sam-pṛñcānáḥ ǀ sádane ǀ góbhiḥ ǀ at-bhíḥ ǀ
kavíḥ ǀ budhnám ǀ pári ǀ marmṛjyate ǀ dhī́ḥ ǀ sā́ ǀ devá-tātā ǀ sám-itiḥ ǀ babhūva ǁ
tveṣam ǀ rūpam ǀ kṛṇute ǀ ut-taram ǀ yat ǀ sam-pṛñcānaḥ ǀ sadane ǀ gobhiḥ ǀ at-bhiḥ ǀ
kaviḥ ǀ budhnam ǀ pari ǀ marmṛjyate ǀ dhīḥ ǀ sā ǀ deva-tātā ǀ sam-itiḥ ǀ babhūva ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.095.08
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.7.02.00
- Devatā देवता
- Agni, Or The Fire At Dawn
- Ṛṣi ऋषि
- Kutsa Āṅgirasa
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.