Ṛk 1.95.4
Saṃhitā
क इ॒मं वो॑ नि॒ण्यमा चि॑केत व॒त्सो मा॒तॄर्ज॑नयत स्व॒धाभिः॑ ।
ब॒ह्वी॒नां गर्भो॑ अ॒पसा॑मु॒पस्था॑न्म॒हान्क॒विर्निश्च॑रति स्व॒धावा॑न् ॥
क इमं वो निण्यम् आ चिकेत वत्सो मातॄर् जनयत स्वधाभिः |
बह्वीनां गर्भो अपसाम् उपस्थान् महान् कविर् निश् चरति स्वधावान् ||
ká imám vo niṇyámā́ ciketa vatsó mātṝ́rjanayata svadhā́bhiḥ ǀ
bahvīnā́m gárbho apásāmupásthānmahā́nkavírníścarati svadhā́vān ǁ
ka imaṃ vo niṇyam ā ciketa vatso mātṝr janayata svadhābhiḥ |
bahvīnāṃ garbho apasām upasthān mahān kavir niś carati svadhāvān ||
Padapāṭha
कः । इ॒मम् । वः॒ । नि॒ण्यम् । आ । चि॒के॒त॒ । व॒त्सः । मा॒तॄः । ज॒न॒य॒त॒ । स्व॒धाभिः॑ ।
ब॒ह्वी॒नाम् । गर्भः॑ । अ॒पसा॑म् । उ॒पऽस्था॑त् । म॒हान् । क॒विः । निः । च॒र॒ति॒ । स्व॒धाऽवा॑न् ॥
कः । इमम् । वः । निण्यम् । आ । चिकेत । वत्सः । मातॄः । जनयत । स्वधाभिः ।
बह्वीनाम् । गर्भः । अपसाम् । उपऽस्थात् । महान् । कविः । निः । चरति । स्वधाऽवान् ॥
káḥ ǀ imám ǀ vaḥ ǀ niṇyám ǀ ā́ ǀ ciketa ǀ vatsáḥ ǀ mātṝ́ḥ ǀ janayata ǀ svadhā́bhiḥ ǀ
bahvīnā́m ǀ gárbhaḥ ǀ apásām ǀ upá-sthāt ǀ mahā́n ǀ kavíḥ ǀ níḥ ǀ carati ǀ svadhā́-vān ǁ
kaḥ ǀ imam ǀ vaḥ ǀ niṇyam ǀ ā ǀ ciketa ǀ vatsaḥ ǀ mātṝḥ ǀ janayata ǀ svadhābhiḥ ǀ
bahvīnām ǀ garbhaḥ ǀ apasām ǀ upa-sthāt ǀ mahān ǀ kaviḥ ǀ niḥ ǀ carati ǀ svadhā-vān ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.095.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.7.01.00
- Devatā देवता
- Agni, Or The Fire At Dawn
- Ṛṣi ऋषि
- Kutsa Āṅgirasa
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.