Ṛk 1.95.6
Saṃhitā
उ॒भे भ॒द्रे जो॑षयेते॒ न मेने॒ गावो॒ न वा॒श्रा उप॑ तस्थु॒रेवैः॑ ।
स दक्षा॑णां॒ दक्ष॑पतिर्बभूवां॒जंति॒ यं द॑क्षिण॒तो ह॒विर्भिः॑ ॥
उभे भद्रे जोषयेते न मेने गावो न वाश्रा उप तस्थुर् एवैः |
स दक्षाणां दक्षपतिर् बभूवाञ्जन्ति यं दक्षिणतो हविर्भिः ||
ubhé bhadré joṣayete ná méne gā́vo ná vāśrā́ úpa tasthurévaiḥ ǀ
sá dákṣāṇām dákṣapatirbabhūvāñjánti yám dakṣiṇató havírbhiḥ ǁ
ubhe bhadre joṣayete na mene gāvo na vāśrā upa tasthur evaiḥ |
sa dakṣāṇāṃ dakṣapatir babhūvāñjanti yaṃ dakṣiṇato havirbhiḥ ||
Padapāṭha
उ॒भे इति॑ । भ॒द्रे इति॑ । जो॒ष॒ये॒ते॒ इति॑ । न । मेने॒ इति॑ । गावः॑ । न । वा॒श्राः । उप॑ । त॒स्थुः॒ । एवैः॑ ।
सः । दक्षा॑णाम् । दक्ष॑ऽपतिः । ब॒भू॒व॒ । अ॒ञ्जन्ति॑ । यम् । द॒क्षि॒ण॒तः । ह॒विःऽभिः॑ ॥
उभे इति । भद्रे इति । जोषयेते इति । न । मेने इति । गावः । न । वाश्राः । उप । तस्थुः । एवैः ।
सः । दक्षाणाम् । दक्षऽपतिः । बभूव । अञ्जन्ति । यम् । दक्षिणतः । हविःऽभिः ॥
ubhé íti ǀ bhadré íti ǀ joṣayete íti ǀ ná ǀ méne íti ǀ gā́vaḥ ǀ ná ǀ vāśrā́ḥ ǀ úpa ǀ tasthuḥ ǀ évaiḥ ǀ
sáḥ ǀ dákṣāṇām ǀ dákṣa-patiḥ ǀ babhūva ǀ añjánti ǀ yám ǀ dakṣiṇatáḥ ǀ havíḥ-bhiḥ ǁ
ubhe iti ǀ bhadre iti ǀ joṣayete iti ǀ na ǀ mene iti ǀ gāvaḥ ǀ na ǀ vāśrāḥ ǀ upa ǀ tasthuḥ ǀ evaiḥ ǀ
saḥ ǀ dakṣāṇām ǀ dakṣa-patiḥ ǀ babhūva ǀ añjanti ǀ yam ǀ dakṣiṇataḥ ǀ haviḥ-bhiḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.095.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.7.02.00
- Devatā देवता
- Agni, Or The Fire At Dawn
- Ṛṣi ऋषि
- Kutsa Āṅgirasa
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.