Ṛk 1.28.3
Saṃhitā
यत्र॒ नार्य॑पच्य॒वमु॑पच्य॒वं च॒ शिक्ष॑ते ।
उ॒लूख॑लसुताना॒मवेद्विं॑द्र जल्गुलः ॥
यत्र नार्य् अपच्यवम् उपच्यवं च शिक्षते |
उलूखलसुतानाम् अवेद् व् इन्द्र जल्गुलः ||
yátra nā́ryapacyavámupacyavám ca śíkṣate ǀ
ulū́khalasutānāmávédvindra jalgulaḥ ǁ
yatra nāry apacyavam upacyavaṃ ca śikṣate |
ulūkhalasutānām aved v indra jalgulaḥ ||
Padapāṭha
यत्र॑ । नारी॑ । अ॒प॒ऽच्य॒वम् । उ॒प॒ऽच्य॒वम् । च॒ । शिक्ष॑ते ।
उ॒लूख॑लऽसुतानाम् । अव॑ । इत् । ऊं॒ इति॑ । इ॒न्द्र॒ । ज॒ल्गु॒लः॒ ॥
यत्र । नारी । अपऽच्यवम् । उपऽच्यवम् । च । शिक्षते ।
उलूखलऽसुतानाम् । अव । इत् । ऊं इति । इन्द्र । जल्गुलः ॥
yátra ǀ nā́rī ǀ apa-cyavám ǀ upa-cyavám ǀ ca ǀ śíkṣate ǀ
ulū́khala-sutānām ǀ áva ǀ ít ǀ ūṃ íti ǀ indra ǀ jalgulaḥ ǁ
yatra ǀ nārī ǀ apa-cyavam ǀ upa-cyavam ǀ ca ǀ śikṣate ǀ
ulūkhala-sutānām ǀ ava ǀ it ǀ ūṃ iti ǀ indra ǀ jalgulaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.028.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.2.25.03
- Maṇḍala · Anuvāka · Ṛk
- 01.06.062
- Devatā देवता
- 1-4: Indra; 5-9: Sunu Somam (Soma Pressing)
- Ṛṣi ऋषि
- Śunaḥśepa Ājīgarti
- Chandas छन्दस्
- Anuṣṭubh, Gāyatrī
- Svara स्वरः
- गान्धारः
Text and interpretations from the Ṛgveda database of theveda.org.in.