Ṛk 1.79.2
Saṃhitā
आ ते॑ सुप॒र्णा अ॑मिनंतँ॒ एवैः॑ कृ॒ष्णो नो॑नाव वृष॒भो यदी॒दं ।
शि॒वाभि॒र्न स्मय॑मानाभि॒रागा॒त्पतं॑ति॒ मिहः॑ स्त॒नयं॑त्य॒भ्रा ॥
आ ते सुपर्णा अमिनन्तं एवैः कृष्णो नोनाव वृषभो यदीदम् |
शिवाभिर् न स्मयमानाभिर् आगात् पतन्ति मिह स्तनयन्त्य् अभ्रा ||
ā́ te suparṇā́ aminantam̐ évaiḥ kṛṣṇó nonāva vṛṣabhó yádīdám ǀ
śivā́bhirná smáyamānābhirā́gātpátanti míhaḥ stanáyantyabhrā́ ǁ
ā te suparṇā aminantaṃ evaiḥ kṛṣṇo nonāva vṛṣabho yadīdam |
śivābhir na smayamānābhir āgāt patanti miha stanayanty abhrā ||
Padapāṭha
आ । ते॒ । सु॒ऽप॒र्णाः । अ॒मि॒न॒न्त॒ । एवैः॑ । कृ॒ष्णः । नो॒ना॒व॒ । वृ॒ष॒भः । यदि॑ । इ॒दम् ।
शि॒वाभिः॑ । न । स्मय॑मानाभिः । आ । अ॒गा॒त् । पत॑न्ति । मिहः॑ । स्त॒नय॑न्ति । अ॒भ्रा ॥
आ । ते । सुऽपर्णाः । अमिनन्त । एवैः । कृष्णः । नोनाव । वृषभः । यदि । इदम् ।
शिवाभिः । न । स्मयमानाभिः । आ । अगात् । पतन्ति । मिहः । स्तनयन्ति । अभ्रा ॥
ā́ ǀ te ǀ su-parṇā́ḥ ǀ aminanta ǀ évaiḥ ǀ kṛṣṇáḥ ǀ nonāva ǀ vṛṣabháḥ ǀ yádi ǀ idám ǀ
śivā́bhiḥ ǀ ná ǀ smáyamānābhiḥ ǀ ā́ ǀ agāt ǀ pátanti ǀ míhaḥ ǀ stanáyanti ǀ abhrā́ ǁ
ā ǀ te ǀ su-parṇāḥ ǀ aminanta ǀ evaiḥ ǀ kṛṣṇaḥ ǀ nonāva ǀ vṛṣabhaḥ ǀ yadi ǀ idam ǀ
śivābhiḥ ǀ na ǀ smayamānābhiḥ ǀ ā ǀ agāt ǀ patanti ǀ mihaḥ ǀ stanayanti ǀ abhrā ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.079.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.5.27.02
- Maṇḍala · Anuvāka · Ṛk
- 1.13.031
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Gotama Rāhūgaṇa
- Chandas छन्दस्
- Gāyatrī, Triṣṭubh, Uṣṇih
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.