Ṛgveda · Maṇḍala 1 · Sūkta 114
Ṛk 1.114.1
Saṃhitā
इ॒मा रु॒द्राय॑ त॒वसे॑ कप॒र्दिने॑ क्ष॒यद्वी॑राय॒ प्र भ॑रामहे म॒तीः ।
यथा॒ शमस॑द्द्वि॒पदे॒ चतु॑ष्पदे॒ विश्वं॑ पु॒ष्टं ग्रामे॑ अ॒स्मिन्न॑नातु॒रं ॥
इमा रुद्राय तवसे कपर्दिने क्षयद्वीराय प्र भरामहे मतीः |
यथा शम् असद् द्विपदे चतुष्पदे विश्वम् पुष्टं ग्रामे अस्मिन्न् अनातुरम् ||
imā́ rudrā́ya taváse kapardíne kṣayádvīrāya prá bharāmahe matī́ḥ ǀ
yáthā śámásaddvipáde cátuṣpade víśvam puṣṭám grā́me asmínnanāturám ǁ
imā rudrāya tavase kapardine kṣayadvīrāya pra bharāmahe matīḥ |
yathā śam asad dvipade catuṣpade viśvam puṣṭaṃ grāme asminn anāturam ||
Padapāṭha
इ॒माः । रु॒द्राय॑ । त॒वसे॑ । क॒प॒र्दिने॑ । क्ष॒यत्ऽवी॑राय । प्र । भ॒रा॒म॒हे॒ । म॒तीः ।
यथा॑ । शम् । अस॑त् । द्वि॒ऽपदे॑ । चतुः॑ऽपदे । विश्व॑म् । पु॒ष्टम् । ग्रामे॑ । अ॒स्मिन् । अ॒ना॒तु॒रम् ॥
इमाः । रुद्राय । तवसे । कपर्दिने । क्षयत्ऽवीराय । प्र । भरामहे । मतीः ।
यथा । शम् । असत् । द्विऽपदे । चतुःऽपदे । विश्वम् । पुष्टम् । ग्रामे । अस्मिन् । अनातुरम् ॥
imā́ḥ ǀ rudrā́ya ǀ taváse ǀ kapardíne ǀ kṣayát-vīrāya ǀ prá ǀ bharāmahe ǀ matī́ḥ ǀ
yáthā ǀ śám ǀ ásat ǀ dvi-páde ǀ cátuḥ-pade ǀ víśvam ǀ puṣṭám ǀ grā́me ǀ asmín ǀ anāturám ǁ
imāḥ ǀ rudrāya ǀ tavase ǀ kapardine ǀ kṣayat-vīrāya ǀ pra ǀ bharāmahe ǀ matīḥ ǀ
yathā ǀ śam ǀ asat ǀ dvi-pade ǀ catuḥ-pade ǀ viśvam ǀ puṣṭam ǀ grāme ǀ asmin ǀ anāturam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.114.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.8.05.00
- Devatā देवता
- Rudra
- Ṛṣi ऋषि
- Kutsa Āṅgirasa
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.