Ṛgveda · Maṇḍala 1 · Sūkta 114
Ṛk 1.114.8
Saṃhitā
मा न॑स्तो॒के तन॑ये॒ मा न॑ आ॒यौ मा नो॒ गोषु॒ मा नो॒ अश्वे॑षु रीरिषः ।
वी॒रान्मा नो॑ रुद्र भामि॒तो व॑धीर्ह॒विष्मं॑तः॒ सद॒मित्त्वा॑ हवामहे ॥
मा नस् तोके तनये मा न आयौ मा नो गोषु मा नो अश्वेषु रीरिषः |
वीरान् मा नो रुद्र भामितो वधीर् हविष्मन्तः सदम् इत् त्वा हवामहे ||
mā́ nastoké tánaye mā́ na āyáu mā́ no góṣu mā́ no áśveṣu rīriṣaḥ ǀ
vīrā́nmā́ no rudra bhāmitó vadhīrhavíṣmantaḥ sádamíttvā havāmahe ǁ
mā nas toke tanaye mā na āyau mā no goṣu mā no aśveṣu rīriṣaḥ |
vīrān mā no rudra bhāmito vadhīr haviṣmantaḥ sadam it tvā havāmahe ||
Padapāṭha
मा । नः॒ । तो॒के । तन॑ये । मा । नः॒ । आ॒यौ । मा । नः॒ । गोषु॑ । मा । नः॒ । अश्वे॑षु । रि॒रि॒षः॒ ।
वी॒रान् । मा । नः॒ । रु॒द्र॒ । भा॒मि॒तः । व॒धीः॒ । ह॒विष्म॑न्तः । सद॑म् । इत् । त्वा॒ । ह॒वा॒म॒हे॒ ॥
मा । नः । तोके । तनये । मा । नः । आयौ । मा । नः । गोषु । मा । नः । अश्वेषु । रिरिषः ।
वीरान् । मा । नः । रुद्र । भामितः । वधीः । हविष्मन्तः । सदम् । इत् । त्वा । हवामहे ॥
mā́ ǀ naḥ ǀ toké ǀ tánaye ǀ mā́ ǀ naḥ ǀ āyáu ǀ mā́ ǀ naḥ ǀ góṣu ǀ mā́ ǀ naḥ ǀ áśveṣu ǀ ririṣaḥ ǀ
vīrā́n ǀ mā́ ǀ naḥ ǀ rudra ǀ bhāmitáḥ ǀ vadhīḥ ǀ havíṣmantaḥ ǀ sádam ǀ ít ǀ tvā ǀ havāmahe ǁ
mā ǀ naḥ ǀ toke ǀ tanaye ǀ mā ǀ naḥ ǀ āyau ǀ mā ǀ naḥ ǀ goṣu ǀ mā ǀ naḥ ǀ aśveṣu ǀ ririṣaḥ ǀ
vīrān ǀ mā ǀ naḥ ǀ rudra ǀ bhāmitaḥ ǀ vadhīḥ ǀ haviṣmantaḥ ǀ sadam ǀ it ǀ tvā ǀ havāmahe ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.114.08
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.8.06.00
- Devatā देवता
- Rudra
- Ṛṣi ऋषि
- Kutsa Āṅgirasa
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.