Ṛgveda · Maṇḍala 1 · Sūkta 114
Ṛk 1.114.5
Saṃhitā
दि॒वो व॑रा॒हम॑रु॒षं क॑प॒र्दिनं॑ त्वे॒षं रू॒पं नम॑सा॒ नि ह्व॑यामहे ।
हस्ते॒ बिभ्र॑द्भेष॒जा वार्या॑णि॒ शर्म॒ वर्म॑ च्छ॒र्दिर॒स्मभ्यं॑ यंसत् ॥
दिवो वराहम् अरुषं कपर्दिनं त्वेषं रूपं नमसा नि ह्वयामहे |
हस्ते बिभ्रद् भेषजा वार्याणि शर्म वर्म च्छर्दिर् अस्मभ्यं यंसत् ||
divó varāhámaruṣám kapardínam tveṣám rūpám námasā ní hvayāmahe ǀ
háste bíbhradbheṣajā́ vā́ryāṇi śárma várma cchardírasmábhyam yaṃsat ǁ
divo varāham aruṣaṃ kapardinaṃ tveṣaṃ rūpaṃ namasā ni hvayāmahe |
haste bibhrad bheṣajā vāryāṇi śarma varma cchardir asmabhyaṃ yaṃsat ||
Padapāṭha
दि॒वः । व॒रा॒हम् । अ॒रु॒षम् । क॒प॒र्दिन॑म् । त्वे॒षम् । रू॒पम् । नम॑सा । नि । ह्व॒या॒म॒हे॒ ।
हस्ते॑ । बिभ्र॑त् । भे॒ष॒जा । वार्या॑णि । शर्म॑ । वर्म॑ । छ॒र्दिः । अ॒स्मभ्य॑म् । यं॒स॒त् ॥
दिवः । वराहम् । अरुषम् । कपर्दिनम् । त्वेषम् । रूपम् । नमसा । नि । ह्वयामहे ।
हस्ते । बिभ्रत् । भेषजा । वार्याणि । शर्म । वर्म । छर्दिः । अस्मभ्यम् । यंसत् ॥
diváḥ ǀ varāhám ǀ aruṣám ǀ kapardínam ǀ tveṣám ǀ rūpám ǀ námasā ǀ ní ǀ hvayāmahe ǀ
háste ǀ bíbhrat ǀ bheṣajā́ ǀ vā́ryāṇi ǀ śárma ǀ várma ǀ chardíḥ ǀ asmábhyam ǀ yaṃsat ǁ
divaḥ ǀ varāham ǀ aruṣam ǀ kapardinam ǀ tveṣam ǀ rūpam ǀ namasā ǀ ni ǀ hvayāmahe ǀ
haste ǀ bibhrat ǀ bheṣajā ǀ vāryāṇi ǀ śarma ǀ varma ǀ chardiḥ ǀ asmabhyam ǀ yaṃsat ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.114.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.8.05.00
- Devatā देवता
- Rudra
- Ṛṣi ऋषि
- Kutsa Āṅgirasa
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.