Ṛgveda · Maṇḍala 1 · Sūkta 114
Ṛk 1.114.2
Saṃhitā
मृ॒ळा नो॑ रुद्रो॒त नो॒ मय॑स्कृधि क्ष॒यद्वी॑राय॒ नम॑सा विधेम ते ।
यच्छं च॒ योश्च॒ मनु॑राये॒जे पि॒ता तद॑श्याम॒ तव॑ रुद्र॒ प्रणी॑तिषु ॥
मृऌआ नो रुद्रोत नो मयस् कृधि क्षयद्वीराय नमसा विधेम ते |
यच् छं च योश् च मनुर् आयेजे पिता तद् अश्याम तव रुद्र प्रणीतिषु ||
mṛḷā́ no rudrotá no máyaskṛdhi kṣayádvīrāya námasā vidhema te ǀ
yácchám ca yóśca mánurāyejé pitā́ tádaśyāma táva rudra práṇītiṣu ǁ
mṛḷā no rudrota no mayas kṛdhi kṣayadvīrāya namasā vidhema te |
yac chaṃ ca yoś ca manur āyeje pitā tad aśyāma tava rudra praṇītiṣu ||
Padapāṭha
मृ॒ळ । नः॒ । रु॒द्र॒ । उ॒त । नः॒ । मयः॑ । कृ॒धि॒ । क्ष॒यत्ऽवी॑राय । नम॑सा । वि॒धे॒म॒ । ते॒ ।
यत् । शम् । च॒ । योः । च॒ । मनुः॑ । आ॒ऽये॒जे । पि॒ता । तत् । अ॒श्या॒म॒ । तव॑ । रु॒द्र॒ । प्रऽनी॑तिषु ॥
मृळ । नः । रुद्र । उत । नः । मयः । कृधि । क्षयत्ऽवीराय । नमसा । विधेम । ते ।
यत् । शम् । च । योः । च । मनुः । आऽयेजे । पिता । तत् । अश्याम । तव । रुद्र । प्रऽनीतिषु ॥
mṛḷá ǀ naḥ ǀ rudra ǀ utá ǀ naḥ ǀ máyaḥ ǀ kṛdhi ǀ kṣayát-vīrāya ǀ námasā ǀ vidhema ǀ te ǀ
yát ǀ śám ǀ ca ǀ yóḥ ǀ ca ǀ mánuḥ ǀ ā-yejé ǀ pitā́ ǀ tát ǀ aśyāma ǀ táva ǀ rudra ǀ prá-nītiṣu ǁ
mṛḷa ǀ naḥ ǀ rudra ǀ uta ǀ naḥ ǀ mayaḥ ǀ kṛdhi ǀ kṣayat-vīrāya ǀ namasā ǀ vidhema ǀ te ǀ
yat ǀ śam ǀ ca ǀ yoḥ ǀ ca ǀ manuḥ ǀ ā-yeje ǀ pitā ǀ tat ǀ aśyāma ǀ tava ǀ rudra ǀ pra-nītiṣu ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.114.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.8.05.00
- Devatā देवता
- Rudra
- Ṛṣi ऋषि
- Kutsa Āṅgirasa
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.