Ṛgveda · Maṇḍala 1 · Sūkta 127
Ṛk 1.127.10
Saṃhitā
प्र वो॑ म॒हे सह॑सा॒ सह॑स्वत उष॒र्बुधे॑ पशु॒षे नाग्नये॒ स्तोमो॑ बभूत्व॒ग्नये॑ ।
प्रति॒ यदीं॑ ह॒विष्मा॒न्विश्वा॑सु॒ क्षासु॒ जोगु॑वे ।
अग्रे॑ रे॒भो न ज॑रत ऋषू॒णां जूर्णि॒र्होत॑ ऋषू॒णां ॥
प्र वो महे सहसा सहस्वत उषर्बुधे पशुषे नाग्नये स्तोमो बभूत्व् अग्नये |
प्रति यद् ईं हविष्मान् विश्वासु क्षासु जोगुवे |
अग्रे रेभो न जरत ऋषूणां जूर्णिर् होत ऋषूणाम् ||
prá vo mahé sáhasā sáhasvata uṣarbúdhe paśuṣé nā́gnáye stómo babhūtvagnáye ǀ
práti yádīm havíṣmānvíśvāsu kṣā́su jóguve ǀ
ágre rebhó ná jarata ṛṣūṇā́m jū́rṇirhóta ṛṣūṇā́m ǁ
pra vo mahe sahasā sahasvata uṣarbudhe paśuṣe nāgnaye stomo babhūtv agnaye |
prati yad īṃ haviṣmān viśvāsu kṣāsu joguve |
agre rebho na jarata ṛṣūṇāṃ jūrṇir hota ṛṣūṇām ||
Padapāṭha
प्र । वः॒ । म॒हे । सह॑सा । सह॑स्वते । उ॒षः॒ऽबुधे॑ । प॒शु॒ऽसे । न । अ॒ग्नये॑ । स्तोमः॑ । ब॒भू॒तु॒ । अ॒ग्नये॑ ।
प्रति॑ । यत् । ई॒म् । ह॒विष्मा॑न् । विश्वा॑सु । क्षासु॑ । जोगु॑वे ।
अग्रे॑ । रे॒भः । न । ज॒र॒ते॒ । ऋ॒षू॒णाम् । जूर्णिः॑ । होता॑ । ऋ॒षू॒णाम् ॥
प्र । वः । महे । सहसा । सहस्वते । उषःऽबुधे । पशुऽसे । न । अग्नये । स्तोमः । बभूतु । अग्नये ।
प्रति । यत् । ईम् । हविष्मान् । विश्वासु । क्षासु । जोगुवे ।
अग्रे । रेभः । न । जरते । ऋषूणाम् । जूर्णिः । होता । ऋषूणाम् ॥
prá ǀ vaḥ ǀ mahé ǀ sáhasā ǀ sáhasvate ǀ uṣaḥ-búdhe ǀ paśu-sé ǀ ná ǀ agnáye ǀ stómaḥ ǀ babhūtu ǀ agnáye ǀ
práti ǀ yát ǀ īm ǀ havíṣmān ǀ víśvāsu ǀ kṣā́su ǀ jóguve ǀ
ágre ǀ rebháḥ ǀ ná ǀ jarate ǀ ṛṣūṇā́m ǀ jū́rṇiḥ ǀ hótā ǀ ṛṣūṇā́m ǁ
pra ǀ vaḥ ǀ mahe ǀ sahasā ǀ sahasvate ǀ uṣaḥ-budhe ǀ paśu-se ǀ na ǀ agnaye ǀ stomaḥ ǀ babhūtu ǀ agnaye ǀ
prati ǀ yat ǀ īm ǀ haviṣmān ǀ viśvāsu ǀ kṣāsu ǀ joguve ǀ
agre ǀ rebhaḥ ǀ na ǀ jarate ǀ ṛṣūṇām ǀ jūrṇiḥ ǀ hotā ǀ ṛṣūṇām ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.127.10
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.1.13.05
- Maṇḍala · Anuvāka · Ṛk
- 1.19.010
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Parucchepa Daivodāsi
- Chandas छन्दस्
- Atyaṣṭi, Atidhṛti
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.