Ṛgveda · Maṇḍala 1 · Sūkta 127
Ṛk 1.127.2
Saṃhitā
यजि॑ष्ठं त्वा॒ यज॑माना हुवेम॒ ज्येष्ठ॒मंगि॑रसां विप्र॒ मन्म॑भि॒र्विप्रे॑भिः शुक्र॒ मन्म॑भिः ।
परि॑ज्मानमिव॒ द्यां होता॑रं चर्षणी॒नां ।
शो॒चिष्के॑शं॒ वृष॑णं॒ यमि॒मा विशः॒ प्रावं॑तु जू॒तये॒ विशः॑ ॥
यजिष्ठं त्वा यजमाना हुवेम ज्येष्ठम् अङ्गिरसां विप्र मन्मभिर् विप्रेभिः शुक्र मन्मभिः |
परिज्मानम् इव द्यां होतारं चर्षणीनाम् |
शोचिष्केशं वृषणं यम् इमा विशः प्रावन्तु जूतये विशः ||
yájiṣṭham tvā yájamānā huvema jyéṣṭhamáṅgirasām vipra mánmabhirvíprebhiḥ śukra mánmabhiḥ ǀ
párijmānamiva dyā́m hótāram carṣaṇīnā́m ǀ
śocíṣkeśam vṛ́ṣaṇam yámimā́ víśaḥ prā́vantu jūtáye víśaḥ ǁ
yajiṣṭhaṃ tvā yajamānā huvema jyeṣṭham aṅgirasāṃ vipra manmabhir viprebhiḥ śukra manmabhiḥ |
parijmānam iva dyāṃ hotāraṃ carṣaṇīnām |
śociṣkeśaṃ vṛṣaṇaṃ yam imā viśaḥ prāvantu jūtaye viśaḥ ||
Padapāṭha
यजि॑ष्ठम् । त्वा॒ । यज॑मानाः । हु॒वे॒म॒ । ज्येष्ठ॑म् । अङ्गि॑रसाम् । वि॒प्र॒ । मन्म॑ऽभिः । विप्रे॑भिः । शु॒क्र॒ । मन्म॑ऽभिः ।
परि॑ज्मानम्ऽइव । द्याम् । होता॑रम् । च॒र्ष॒णी॒नाम् ।
शो॒चिःऽके॑शम् । वृष॑णम् । यम् । इ॒माः । विशः॑ । प्र । अ॒व॒न्तु॒ । जू॒तये॑ । विशः॑ ॥
यजिष्ठम् । त्वा । यजमानाः । हुवेम । ज्येष्ठम् । अङ्गिरसाम् । विप्र । मन्मऽभिः । विप्रेभिः । शुक्र । मन्मऽभिः ।
परिज्मानम्ऽइव । द्याम् । होतारम् । चर्षणीनाम् ।
शोचिःऽकेशम् । वृषणम् । यम् । इमाः । विशः । प्र । अवन्तु । जूतये । विशः ॥
yájiṣṭham ǀ tvā ǀ yájamānāḥ ǀ huvema ǀ jyéṣṭham ǀ áṅgirasām ǀ vipra ǀ mánma-bhiḥ ǀ víprebhiḥ ǀ śukra ǀ mánma-bhiḥ ǀ
párijmānam-iva ǀ dyā́m ǀ hótāram ǀ carṣaṇīnā́m ǀ
śocíḥ-keśam ǀ vṛ́ṣaṇam ǀ yám ǀ imā́ḥ ǀ víśaḥ ǀ prá ǀ avantu ǀ jūtáye ǀ víśaḥ ǁ
yajiṣṭham ǀ tvā ǀ yajamānāḥ ǀ huvema ǀ jyeṣṭham ǀ aṅgirasām ǀ vipra ǀ manma-bhiḥ ǀ viprebhiḥ ǀ śukra ǀ manma-bhiḥ ǀ
parijmānam-iva ǀ dyām ǀ hotāram ǀ carṣaṇīnām ǀ
śociḥ-keśam ǀ vṛṣaṇam ǀ yam ǀ imāḥ ǀ viśaḥ ǀ pra ǀ avantu ǀ jūtaye ǀ viśaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.127.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.1.12.02
- Maṇḍala · Anuvāka · Ṛk
- 1.19.002
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Parucchepa Daivodāsi
- Chandas छन्दस्
- Atyaṣṭi, Atidhṛti
- Svara स्वरः
- मध्यमः
Text and interpretations from the Ṛgveda database of theveda.org.in.