Ṛgveda · Maṇḍala 1 · Sūkta 127
Ṛk 1.127.4
Saṃhitā
दृ॒ळ्हा चि॑दस्मा॒ अनु॑ दु॒र्यथा॑ वि॒दे तेजि॑ष्ठाभिर॒रणि॑भिर्दा॒ष्ट्यव॑से॒ऽग्नये॑ दा॒ष्ट्यव॑से ।
प्र यः पु॒रूणि॒ गाह॑ते॒ तक्ष॒द्वने॑व शो॒चिषा॑ ।
स्थि॒रा चि॒दन्ना॒ नि रि॑णा॒त्योज॑सा॒ नि स्थि॒राणि॑ चि॒दोज॑सा ॥
दृऌहा चिद् अस्मा अनु दुर् यथा विदे तेजिष्ठाभिर् अरणिभिर् दाष्ट्य् अवसे ऽग्नये दाष्ट्य् अवसे |
प्र यः पुरूणि गाहते तक्षद् वनेव शोचिषा |
स्थिरा चिद् अन्ना नि रिणात्य् ओजसा नि स्थिराणि चिद् ओजसा ||
dṛḷhā́ cidasmā ánu duryáthā vidé téjiṣṭhābhiraráṇibhirdāṣṭyávase’gnáye dāṣṭyávase ǀ
prá yáḥ purū́ṇi gā́hate tákṣadváneva śocíṣā ǀ
sthirā́ cidánnā ní riṇātyójasā ní sthirā́ṇi cidójasā ǁ
dṛḷhā cid asmā anu dur yathā vide tejiṣṭhābhir araṇibhir dāṣṭy avase 'gnaye dāṣṭy avase |
pra yaḥ purūṇi gāhate takṣad vaneva śociṣā |
sthirā cid annā ni riṇāty ojasā ni sthirāṇi cid ojasā ||
Padapāṭha
दृ॒ळ्हा । चि॒त् । अ॒स्मै॒ । अनु॑ । दुः॒ । यथा॑ । वि॒दे । तेजि॑ष्ठाभिः । अ॒रणि॑ऽभिः । दा॒ष्टि॒ । अव॑से । अ॒ग्नये॑ । दा॒ष्टि॒ । अव॑से ।
प्र । यः । पु॒रूणि॑ । गाह॑ते । तक्ष॑त् । वना॑ऽइव । शो॒चिषा॑ ।
स्थि॒रा । चि॒त् । अन्ना॑ । नि । रि॒णा॒ति॒ । ओज॑सा । नि । स्थि॒राणि॑ । चि॒त् । ओज॑सा ॥
दृळ्हा । चित् । अस्मै । अनु । दुः । यथा । विदे । तेजिष्ठाभिः । अरणिऽभिः । दाष्टि । अवसे । अग्नये । दाष्टि । अवसे ।
प्र । यः । पुरूणि । गाहते । तक्षत् । वनाऽइव । शोचिषा ।
स्थिरा । चित् । अन्ना । नि । रिणाति । ओजसा । नि । स्थिराणि । चित् । ओजसा ॥
dṛḷhā́ ǀ cit ǀ asmai ǀ ánu ǀ duḥ ǀ yáthā ǀ vidé ǀ téjiṣṭhābhiḥ ǀ aráṇi-bhiḥ ǀ dāṣṭi ǀ ávase ǀ agnáye ǀ dāṣṭi ǀ ávase ǀ
prá ǀ yáḥ ǀ purū́ṇi ǀ gā́hate ǀ tákṣat ǀ vánā-iva ǀ śocíṣā ǀ
sthirā́ ǀ cit ǀ ánnā ǀ ní ǀ riṇāti ǀ ójasā ǀ ní ǀ sthirā́ṇi ǀ cit ǀ ójasā ǁ
dṛḷhā ǀ cit ǀ asmai ǀ anu ǀ duḥ ǀ yathā ǀ vide ǀ tejiṣṭhābhiḥ ǀ araṇi-bhiḥ ǀ dāṣṭi ǀ avase ǀ agnaye ǀ dāṣṭi ǀ avase ǀ
pra ǀ yaḥ ǀ purūṇi ǀ gāhate ǀ takṣat ǀ vanā-iva ǀ śociṣā ǀ
sthirā ǀ cit ǀ annā ǀ ni ǀ riṇāti ǀ ojasā ǀ ni ǀ sthirāṇi ǀ cit ǀ ojasā ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.127.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.1.12.04
- Maṇḍala · Anuvāka · Ṛk
- 1.19.004
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Parucchepa Daivodāsi
- Chandas छन्दस्
- Atyaṣṭi, Atidhṛti
- Svara स्वरः
- मध्यमः
Text and interpretations from the Ṛgveda database of theveda.org.in.