Ṛgveda · Maṇḍala 1 · Sūkta 127
Ṛk 1.127.5
Saṃhitā
तम॑स्य पृ॒क्षमुप॑रासु धीमहि॒ नक्तं॒ यः सु॒दर्श॑तरो॒ दिवा॑तरा॒दप्रा॑युषे॒ दिवा॑तरात् ।
आद॒स्यायु॒र्ग्रभ॑णवद्वी॒ळु शर्म॒ न सू॒नवे॑ ।
भ॒क्तमभ॑क्त॒मवो॒ व्यंतो॑ अ॒जरा॑ अ॒ग्नयो॒ व्यंतो॑ अ॒जराः॑ ॥
तम् अस्य पृक्षम् उपरासु धीमहि नक्तं यः सुदर्शतरो दिवातराद् अप्रायुषे दिवातरात् |
आद् अस्यायुर् ग्रभणवद् वीऌउ शर्म न सूनवे |
भक्तम् अभक्तम् अवो व्यन्तो अजरा अग्नयो व्यन्तो अजराः ||
támasya pṛkṣámúparāsu dhīmahi náktam yáḥ sudárśataro dívātarādáprāyuṣe dívātarāt ǀ
ā́dasyā́yurgrábhaṇavadvīḷú śárma ná sūnáve ǀ
bhaktámábhaktamávo vyánto ajárā agnáyo vyánto ajárāḥ ǁ
tam asya pṛkṣam uparāsu dhīmahi naktaṃ yaḥ sudarśataro divātarād aprāyuṣe divātarāt |
ād asyāyur grabhaṇavad vīḷu śarma na sūnave |
bhaktam abhaktam avo vyanto ajarā agnayo vyanto ajarāḥ ||
Padapāṭha
तम् । अ॒स्य॒ । पृ॒क्षम् । उप॑रासु । धी॒म॒हि॒ । नक्त॑म् । यः । सु॒दर्श॑ऽतरः । दिवा॑ऽतरात् । अप्र॑ऽआयुषे । दिवा॑ऽतरात् ।
आत् । अ॒स्य॒ । आयुः॑ । ग्रभ॑णऽवत् । वी॒ळु । शर्म॑ । न । सू॒नवे॑ ।
भ॒क्तम् । अभ॑क्तम् । अवः॑ । व्यन्तः॑ । अ॒जराः॑ । अ॒ग्नयः॑ । व्यन्तः॑ । अ॒जराः॑ ॥
तम् । अस्य । पृक्षम् । उपरासु । धीमहि । नक्तम् । यः । सुदर्शऽतरः । दिवाऽतरात् । अप्रऽआयुषे । दिवाऽतरात् ।
आत् । अस्य । आयुः । ग्रभणऽवत् । वीळु । शर्म । न । सूनवे ।
भक्तम् । अभक्तम् । अवः । व्यन्तः । अजराः । अग्नयः । व्यन्तः । अजराः ॥
tám ǀ asya ǀ pṛkṣám ǀ úparāsu ǀ dhīmahi ǀ náktam ǀ yáḥ ǀ sudárśa-taraḥ ǀ dívā-tarāt ǀ ápra-āyuṣe ǀ dívā-tarāt ǀ
ā́t ǀ asya ǀ ā́yuḥ ǀ grábhaṇa-vat ǀ vīḷú ǀ śárma ǀ ná ǀ sūnáve ǀ
bhaktám ǀ ábhaktam ǀ ávaḥ ǀ vyántaḥ ǀ ajárāḥ ǀ agnáyaḥ ǀ vyántaḥ ǀ ajárāḥ ǁ
tam ǀ asya ǀ pṛkṣam ǀ uparāsu ǀ dhīmahi ǀ naktam ǀ yaḥ ǀ sudarśa-taraḥ ǀ divā-tarāt ǀ apra-āyuṣe ǀ divā-tarāt ǀ
āt ǀ asya ǀ āyuḥ ǀ grabhaṇa-vat ǀ vīḷu ǀ śarma ǀ na ǀ sūnave ǀ
bhaktam ǀ abhaktam ǀ avaḥ ǀ vyantaḥ ǀ ajarāḥ ǀ agnayaḥ ǀ vyantaḥ ǀ ajarāḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.127.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.1.12.05
- Maṇḍala · Anuvāka · Ṛk
- 1.19.005
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Parucchepa Daivodāsi
- Chandas छन्दस्
- Atyaṣṭi, Atidhṛti
- Svara स्वरः
- गान्धारः
Text and interpretations from the Ṛgveda database of theveda.org.in.